कोलकाता

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कोलकता

কলকাতা

सिटि अफ़् जय्
—  बृहन्नगरम्  —
उपरितः घटिकानुवर्तनम् : विक्टोरिया मेमोलियल्, सेन्ट् पल्स् कैथेड्राल्, वाणिज्यकेन्द्रम्, हावडासेतुः, नगरे ट्राम् व्यवस्था, विद्यासागरसेतुः
कोलकता

কলকাতা

Location of कोलकता

কলকাতা

in पश्चिमबङ्गः
निर्देशाङ्काः

22°34′11″N 88°22′11″E / 22.5697°N 88.3697°E / 22.5697; 88.3697

देशः भारतम्
राज्यम् पश्चिमबङ्गः
मण्डलम् कलकातामण्डलम्[upper-alpha १]
पौरपिता सोभन् च्याटार्जी[१]
रक्षणमुख्यायुक्तः सुरजीत् कर् पुरकायस्थ[२]
शेरिफ् इन्द्रजीत् राय्[३]
जनसङ्ख्या

• सान्द्रता
• महानगरम्

४४,८६,६७९

२४,२५२ /km2 ( /sq mi)
१,४१,१२,५३६

व्यावहारिकभाषा(ः) बाङ्गला, आङ्ग्लः, हिन्दी
समयवलयः IST (UTC+05:30)
विस्तीर्णम् १,८८६.६७ square kilometres (. sq mi)
जालस्थानम् www.kolkatamycity.com

कोलकाता /klˈkɑːtɑː/ (वङ्ग: কলকাতা, কোলকাতা, हिन्दी: कोलकाता, कलकत्ता, आङ्ग्ल: Kolkata, अथवा Calcuttaआङ्ग्लः /kælˈkʌtə/) भारतस्य पूर्वाञ्चलीयस्य पश्चिमवङ्गराज्यस्य राजधानी, प्रधानवानिज्यकेन्द्रं तथा वृहत्तमनगरम् । हुगलीनद्याः पूर्वतीरे अवस्थिते[४] नगरेऽस्मिन् पञ्चाशताधिकलक्षजनाः निवसन्ति । परन्तु कोलकातानगरसंलग्नानां प्रदेशानाम् अंशविषेशेन निर्मितस्य वृहत्तरकोलकातानगरस्य जनसंख्या प्रायः १ कोटि ४० लक्षपरिमितम् । जनसंख्याविचारे नगरमिदं भारतस्य तृतीयवृहन्नगरं तथा द्वितीयमहानगरम् । समग्रविश्वे कोलकातामहानगरं अष्टमस्थानम् (जनसंख्याविचारे) आवहति[५]

१७७२ तमे संवत्सरे वङ्गस्य राजधानी प्रथमवारं मुर्शिदाबादतः कोलकातां प्रति स्थानान्तरिता आसीत् । न केवलं वङ्गस्य अपि तु १९११ वर्षपर्यन्तं समग्रभारतस्य राजधानी आसीत् । १९२३ तमे वर्षे क्यालकाटा म्युनिसिपल् एक्ट् माध्यमेन कोलकातनगरस्य स्वायत्वशासनकर्ती एका पौरसंस्था स्थापिताऽसीत् । १९४७ वर्षे भारतविभाजनान्तरं कोलकाता नवनिर्मितस्य पश्चिमवङ्गराज्यस्य राजधानी घोषिता जाता आसीत् । तस्मिन् समये कोलकाता आधुनिकभारतस्य शिक्षा-विज्ञान-शिल्प-संस्कृति-राजनीतेः पीठस्थानमासीत् । १९५४ तमवर्षानन्तरं राजनैतिकास्थिरतया तथा अर्थनैतिकावक्षयेन प्राचीनगौरवस्थानं खर्वितम् आसीत् ।

वैप्लविकान्दोलननिमित्तम् एवञ्च सुदीर्घसांस्कृतिक-ऐतिह्यनिमित्तम् अस्य कोलकातानगरस्य प्रसिद्धिः । भारतस्य स्वाधीनतान्दोलने तथा परवर्तीकाले वामपन्थीनः गणान्दोलने नगरमिदं प्रमुखभूमिकाम् अवहत् । अपरपक्षे आधुनिकभारतस्य प्रधानसांस्कृतिककेन्द्रेषु अन्यतमा कोलकाता जाता । एतस्मात् कोलकाता भारतस्य सांस्कृतिकराजधानी इत्याख्यया अभिहिता[६] । अपरेपक्षे कोलकातायाः आनन्दनगरी(City of Joy) इत्यपि सुप्रसिद्धनाम विद्यते । राजा राममोहन राय, रवीन्द्रनाथ ठाकुर्, स्वामी विवेकानन्दः, सुभाष चन्द्र बसु, मादार् तेरेसा, सत्यजीत् राय, सी वी रमन्, अमर्त्य सेन् प्रमुखाणां विश्ववरेण्यव्यक्तीनां कर्मभूमिः कोलकाता महानगरी । समृद्धसांस्कृतिक-ऐतिह्यनिमित्तं एषा नगरी आ विश्वे उन्नतस्थानम् आप्नोति ।

नामौचित्यम्[सम्पादयतु]

कालीघाटमन्दिरम्

वर्तमानकोलकाता नगरी भारते ब्रिटिशानां आगमनात् प्राक् 'सुतानुटि', 'गोविन्दपुर' तथा 'कलकाता' इति त्रिधा विभक्ता आसीत् । बाङ्गलाशब्दः कलकाता तथा आङ्ग्लशब्दः क्यालकाटा नामपदयोः उत्सः कलिकाता इति शब्दः[७] । "कलिकाता" इति नामपदस्य व्युत्पत्तिः व्युत्पत्तिप्रसङ्गे विद्वत्सु नास्ति मतैकम् । प्रसिद्धमतमस्ति यत् कालीक्षेत्रम् इति शब्दात् कलिकातापदम् आगतम् । कालीक्षेत्रमित्येन पदेन देव्याः काल्याः राज्यमिति अर्थः द्योत्यते । मतान्तरं पोषयन्ति केचनाः यत् किलकिला इति बाङ्गलाशब्दात् कोलकाताशब्दः आगतः[८] । अपरेकं मतानुसारं खाल(नलः) काट्टा(खननम्) इति पदयोः संयोगात् इदानीन्तन-नामपदमागतम्[९]

२००१ तमे वर्षे नगरस्य आधिकारिक-आङ्ग्लनाम क्यालकाटा"-तः ("Calcutta") परिवर्त्य कोलकाता" ("Kolkata") अभवत् । केचनाः मन्वन्ति यत् अस्य नगरस्य ब्रिटिशोत्तराधिकारसूत्रं विलोपं नामपरिवर्तनकरणेन जातम् [१०]। वैदेशीयगणमाध्यमाः इदं नामकरणं नाङ्गीकारं कृतवन्तः । परन्तु बि बि सी इति गणमाध्यमेन बोम्बाई स्थले मुम्बई[११] तथा क्यालकाटा स्थले कोलकाता[१२] इति नामद्वयम् अङ्गीकृतम् ।

इतिहासः[सम्पादयतु]

प्राक्-ब्रिटिशकालः[सम्पादयतु]

फोर्ट् विलियम्, कोलकाता,(विलियम् वुड् महोदयेन अङ्कितम्-१८२८ क्रै.स

कोलकतानगरस्य समीपे चन्द्रकेतुगढनामकस्थाने[१३] प्रत्नतात्त्विकखननात् प्रमाणितं यत् अयं प्रदेशः द्विसहस्रवर्षं पूर्वमपि वस्तिपूर्णमासीत् [१४]। मध्ययुगीय-नैकेषु ग्रन्थेषु(बाङ्गला) हुगलीनद्याः तीरवर्तीग्रामस्य कोलकातायाः उल्लेखमस्ति । एतेषु विप्रदासस्य मनसामङ्गलकाव्यम्(१४९५ क्रै.स), मुकुन्दराम-चक्रवर्तिना रचितं चण्डीमङ्गलकाव्यम्(१५९४-१६०६), सैयद् आलाओलस्य पद्मावती(१६४५-५२), कृष्णराम महोदयस्य कालिकामङ्गलकाव्यम्(१६७६-७७) सनातन घोषाल महोदयस्य भाषा-भागवत्(१६७९-८०) इति अन्यतमाः ग्रन्थाः भवन्ति[१५][१६]

१५८२ तमे वर्षे राज्ञः टोडरमलस्य निर्देशानुसारं समग्रवङ्गप्रदेशस्य(अविभक्तवङ्गः) भूमिमापनकार्यम् अभूत् । ओयालिश्-ए-जमा तुमार् इति नाम्ना मापनकार्यस्य एका आवली प्रकाशिता आसीत् । 'आबुल् फज़ल्' महोदयस्य आइन्-ए-आकबरी(१५९० क्रै स) इति ग्रन्थे उद्धृता इयं आवली । अस्याम् आवल्यां कलिकाता इति ग्रामस्य उल्लेखः अस्ति [१५][१६] । १६९० तमे वर्षे ब्रिटिश् ईष्ट् इण्डिया संस्थायाः वाणिज्यकाः प्रथमवारं वाणिज्यविस्ताराय ’कलिकाता’नगरीम् आगतवन्तः . इतःपरमेव कलिकातायाः लिखितेतिहासस्य प्रारम्भः आसीत् . साम्राज्यवादी ऐतिहासिकगणस्तु ’जब् चार्णक्’ इति ब्रिटिशप्रशासकं कोलकातानगर्य्याः प्रतिष्ठातारूपेण स्वीकरोति स्म[८] . यद्यपि आधुनिकैः गवेषकैः मतमिदं खण्डितम् अस्ति . २००३ तमे वर्षे कोलकाता-उच्चन्यायालयेन जनस्वार्थपरिप्रेक्षिते सूचितं यत् कामपि व्याक्तिं कोलकातायाः प्रतिष्ठाता इत्यभिधया अभिहितं कर्तुं न शक्यते [१७].

फोर्ट् विलियम्, कोलकाता, १७३५ क्रै स
कोलकाता पोताश्रये नौयानतः गजस्य अवतारणस्य दृश्यम् -”हार्पास् विक्ली”पत्रिका १८५८ क्रै.
चित्पुरमर्गस्य(अधुना रवीन्द्रसरणी) दृश्यम्; विलियम् सिम्पसन् महोदयस्य ”इन्डिया एन्सियेन्ट् एन्ड् मर्डार्न् पुस्तके प्रकाशितम्, १८६७


भौगोलिकावस्थितिः[सम्पादयतु]

पूर्वकोलकातायाः जलाभूमिः
स्पट् स्याटेलैट्-तः स्वीकृतं कोलकातानगर्य्याः चित्रम्

कोलकाता नगरी पूर्वदिशि २२°३३′ उत्तरगोलार्धे तथा ८८°२०′ पूर्वद्राघिमांशे विद्यते . इयं नगरी गाङ्गेय-त्रिकोणाकारे द्वीप्रदेशे अवस्थिता अस्ति . समुद्रपृष्ठतः कोलकातायाः औन्नत्यं प्रायः १.५(५ फुट्) – ९(३० फुट्) मिटर् पर्यन्तम् भवति[१८] . उत्तर-दक्षिणदिशि अस्य नगरस्य विस्तारः हुगलीनद्याः तटीयप्रदेशानुभूमिकः आसीत् . वस्तुतः स्थलमिदं जलपूर्णमासीत् . नगरस्य जनसंख्यायाः वृद्ध्यानुगुणं वसतिनिमित्तं अवतलभूमिः जनैः पूरिमासीत्[१९] . अवशिष्टा पूर्वकोलकाता-जलभूमिः नाम्ना परिचिता । 'रामसार् कन्भेन्सन्' अनुसारं इयं जलभूमिः अन्ताराष्ट्रिय-गुरुत्वसम्पन्ना[२०]

सिन्धु-गाङ्गेय समभूमेः सदृशः अयं प्रदेशोऽपि पलिजया(alluvial) मृत्तिकया निर्मिता । अस्मिन् प्रदेशे कोवाटारनारियुगस्य मृत्तिकास्तरः दृश्यते । मृत्तिकास्तरे कर्दमास्तरद्वयम् अस्ति । अधस्तनस्य कर्दमास्तरस्य गहनता २५० मीटर्-तः (८२० फूट्) ६५० मीटर् (२,१३३ फूट्) पर्यन्तम् । तथा उपरितनस्य स्तरस्य गहनता १० मीटर्-तः (१३१ फूट्) ४० मीटर् (१३१ फूट्)-पर्यन्तम् [२१]ब्युरो इण्डियन् स्ट्यान्डार्स् संस्थायाः अभिलेखनुसारं कोलकाता तृतीयस्तरीया भू-कम्पनक्षेत्रम् [२२]


टिप्पणी[सम्पादयतु]

  1. "शोभन च्याटर्जी कोलकातायाः मेयर् भविष्यति", ६ जुन् २०१०. Retrieved on २६ एप्रिल् २०११. 
  2. "New CP reaches slain cop's house with job letter", 16 February 2013. Retrieved on 17 February 2013. 
  3. "Doctor to be next sheriff", 5 January 2011. Retrieved on 27 January 2012. 
  4. The Monthly Repository and Library of Entertaining Knowledge. 1833. p. 338. http://books.google.com/?id=F8URAAAAYAAJ&dq=Kolkata+east+bank+of+river+Hooghly. 
  5. "World Urbanization Prospects: The 2005 revision" (PDF). 
  6. Calcutta Travel Advice
  7. (Mukherjee 1991)
  8. ८.० ८.१ "Kolkata: History" (in Bangla). Calcuttaweb.com. Retrieved 2007-02-18. 
  9. Nair, P. Thankappan. "Calcutta in the 17th century", Firma KLM Private Limited. 
  10. Easwaran, Kenny. "The Politics of Name Changes in India". OCF, UC Berkeley. Retrieved 2007-08-12. 
  11. "Arrests linked to Mumbai attacks". BBC. Retrieved 2008-12-06. 
  12. "Weather forecast". BBC. Retrieved 2009-09-01. 
  13. "History". Yahoo! Pte Ltd. Retrieved 2006-05-08. 
  14. Das S. "Pre-Raj crown on Clive House- Abode of historical riches to be museum", The Telegraph, Kolkata, India, 2003-01-15. Retrieved on 2006-04-26. 
  15. १५.० १५.१ कलकाता विचित्रा, राधारमण राय, देव साहित्य कुटिर्, कोलकाता, २००६, पृ- २-५
  16. १६.० १६.१ कोलकाता : एक् पूर्णाङ्ग इतिहास्, अतुल् सुर्, जेनारेल् प्रिण्टर्स् एण्ड् पाब्लिशार्स्, कोलकाता, १९८१, पृ- १२-१३
  17. Gupta, Subhrangshu. "Job Charnock not Kolkata founder: HC Says city has no foundation day", Nation, The Tribune, 18 May 2003. Retrieved on 2006-12-07. 
  18. NASA image.
  19. "An Introduction". History of Kolkata. Catchcal.com. Retrieved 2007-08-29. 
  20. Roy Chadhuri, S.; Thakur, A. R. (2006-07-25). "Microbial genetic resource mapping of East Calcutta wetlands" (PDF). Current Science (Indian Academy of Sciences) 91 (2): 212–217. http://www.ias.ac.in/currsci/jul252006/212.pdf. Retrieved 2007-09-02. 
  21. Bunting SW, Kundu N, Mukherjee M. "Situation Analysis. Production Systems and Natural Resources Use in PU Kolkata" (PDF). Institute of Aquaculture, University of Stirling, Stirling, UK. p. 3. Retrieved 2006-04-26. 
  22. "Hazard profiles of Indian districts" (PDF). National Capacity Building Project in Disaster Management. UNDP. Archived from the original on 2006-05-19. Retrieved 2006-08-23. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=कोलकाता&oldid=269287" इत्यस्माद् पुनः प्राप्तिः