ईश्वरचन्द्र विद्यासागर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ईश्वरचन्द्र विद्यासागरः इत्यस्मात् पुनर्निर्दिष्टम्)
ईश्वरचन्द्र विद्यासागरः
ঈশ্বরচন্দ্র বিদ্যাসাগর
ईश्वरचन्द्र विद्यासागरः
जननम् ईश्वरचन्द्र बन्दोपाध्याय
(१८२०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२६)२६ १८२०
बीरसिंहग्रामः,पश्चिममेदिनीपुरमण्डलम् पश्चिमवङ्गराज्यम्, भारतम्
मरणम् २९ १८९१(१८९१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-२९) (आयुः ७०)
कोलकाता, पश्चिमवङ्गराज्यम्, भारतम्
वृत्तिः लेखकः, समाजसंस्कारकः, प्राध्यापकः
भाषा बाङ्गला
राष्ट्रीयता भारतीयः
परम्परा बाङ्गाली
प्रकारः दार्शनिकः, शिक्षाविद्, अनुवादकः, समाजसंस्कारकः, प्रकाशकः, सम्पादकः, संस्कृतज्ञः, भाषाविद्
साहित्यकान्दोलनम् बङ्गनवजागरणम्

ईश्वरचन्द्र विद्यासागरः (वङ्ग: ঈশ্বরচন্দ্র বিদ্যাসাগর Ishshor Chôndro Biddashagor २६ सेप्टेम्बर् १८२०-२९ जुलै १८९१) एकः विशिष्टबाङ्गाली-शिक्षाविद् समाजसंस्कारकः गद्यकारश्च आसीत् । तस्य प्रकृतनाम ईश्वरचन्द्र बन्द्योपाध्याय(वङ्ग: ঈশ্বরচন্দ্র বন্দ্যোপাধ্যায়, Ishshor Chôndro Bôndopaddhae) इति आसीत् । संस्कृतभाषायाः तथा साहित्यस्य अगाधपाण्डित्यनिमित्तं विद्यासागरः इति उपाधिं प्राप्तवान् आसीत् । संस्कृतं व्यतिरिच्य बाङ्गला-आङ्ग्लभाषयोः अपि विशेषवुत्पत्तिः आसीत् तस्य । ईश्वरचन्द्रः एव प्रथमबाङ्गलालिपेः संस्कारकः आसीत् ।[१] सः महान् समाजसेवी अपि आसीत् । विधवायाः विवाहः, स्त्रीशिक्षायाः प्रचलनेद्यादि समाजसंस्कारकानि कार्याणि तेन कृतानि । बहुविवाहः, बाल्यविवाहसदृशस्य सामाजिकाभिशापस्य दूरीकरणेऽपि कृतभूरिपरिश्रमः ईश्वरचन्द्रः । बङ्गनवजागरणस्य अयं अग्रणी महापुरुषः दयासागरः नाम्नाऽपि ख्यातः ।[२][३] दरिद्रार्तपीडितजनानां साहाय्यं कर्तुं सः सर्वदा तत्परः आसीत् । तस्य आर्थिकसङ्कटसमयेऽपि ऋणं स्वीकृत्य परोपकारम् अकरोत् । ईश्वरचन्द्रस्य वज्रकठिनं चरित्रम् समग्रदेशे विख्यातम् आसीत् । मधुसुदन दत्त महोदयस्य मतानुसारं ईश्वरचन्द्रस्य ऋषिणां सदृशी प्रज्ञा, आङ्ग्लजनानां सदृशी कार्यशक्तिः, एवञ्च वङ्गमातुः सदृशी हृदयवृत्तिः आसीत् ।

जीवनी[सम्पादयतु]

शैशवकालः[सम्पादयतु]

ईश्वरचन्द्र विद्यासागरः १८२० वर्षस्य सेप्टेम्बर्-मासस्य २६ तमे दिनाङ्के (वङ्गाब्दः-१२२७; १२ आश्विनमासः) जनिमलभवत । पश्चिमवङ्गराज्ये वर्तमानस्य पश्चिममेदिनीपुर-मण्डलस्य वीरसिंहग्रामे तस्य जन्म अभवत् [४] । पूर्वं अयं ग्रामः हुगलिमण्डलस्य अंशः आसीत् । ईश्वरचन्द्रस्य पितामहः रामजय तर्कभूषण दृढचेता व्यक्तिः आसीत् । तेनैव ईश्वचन्द्रस्य नामकरणं कृतम् आसीत् । कोलकातायां ईश्वरचन्द्रस्य पिता ठाकुरदास कार्यं करोति स्म । सपरिवारं कोलकातायां निवासः तस्य साध्यस्यः अतीतः आसीत् । एतस्मात् बालकः ईश्वरचन्द्रः वीरसिंहग्रामेव माता भगवती देव्या सह वसति स्म ।

शिक्षाजीवनम्[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. "BANGLAPEDIA: Vidyasagar, Pundit Iswar Chandra". banglapedia.search.com.bd. आह्रियत 2008-12-20. 
  2. "Ishwar Chandra Vidyasagar". www.whereincity.com. आह्रियत 2008-12-20. 
  3. "Ishwar Chandra Vidyasagar: A Profile of the Philanthropic Protagonist". www.americanchronicle.com. आह्रियत 2008-12-20. 
  4. Lal, Mohan (2006). "Ishvarchandra Vidyasagar". The Encyclopaedia Of Indian Literature. Sahitya Akademi. pp. 4567–4569. ISBN 9788126012213.