बाङ्गला भाषा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(वङ्ग भाषा इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बाङ्गला भाषा
বাংলা Bangla
Bangla Script.svg
बङ्गाली लिप्या बाङ्गला शब्दः
विस्तारः बाङ्गलादेशः, भारतम् (प्रधानतया पश्चिमबङ्गः, त्रिपुरा, झारखण्डः, अण्डमाननिकोबारद्वीपसमूहः तथा असमराज्यस्य बराकप्रदेशः);
स्थानीय वक्तारः १९३ मिलियन्
आहत्य २३० मिलियन् (२००३)[१]
भाषाकुटुम्बः
इन्दो-यूरोपीयन्
लिपिः बाङ्गला लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा  बाङ्गलादेशः

,
 भारतम्

(पश्चिमबङ्गः, त्रिपुरा)
नियन्त्रणम् बाङ्गला एकाडेमी (बाङ्गलादेशः)
पश्चिमबङ्ग बाङ्गला एकाडेमी (पश्चिमबङ्गः)
भाषा कोड्
ISO 639-1 bn
ISO 639-2 ben
ISO 639-3 ben
Linguasphere 59-AAF-u 59-AAF-ua...59-AAF-uk
Bengalispeaking region.png
विश्वे बाङ्गलाभाषायाः विस्तारः

बाङ्गला भाषा (/bɛŋˈɡɔːli/[२] or बेङ्गली /bɑːŋlɑː/ (বাংলা) एका आर्यभाषा अस्‍ति । बाङ्ग्लादेशे, भारतस्य पश्चिमवङ्गराज्ये, त्रिपुरा-असमराज्ययोः केषुचित् मण्डलेषु च जनाः वङ्गभाषया व्यवहरन्ति । भाषापरिवारदृष्ट्या इयं हिन्द्-युरोपीयभाषापरिवारस्य सदस्यः । अस्मिन् परिवारे विद्यमानाः अन्याः भाषाः - हिन्दी, नेपाली, पञ्जाबी, गुजराती, असमीया, ओडिया, मैथिली इत्यादयः । वङ्गभाषया सम्भाषणकर्तॄणां सङ्ख्या अस्ति २३ कोटिपरिमितम् । विश्वस्य अधिकैः जनैः भास्यमाणासु भाषासु वङ्गभाषा षष्ठे स्थाने विद्यते । बाङ्ग्लादेशं भारतञ्च विहाय विश्वस्य अन्येषु भगेषु अपि अनया भाषया सम्भाषणकर्तारः अधिकाः सन्ति ।

उद्भवः[सम्पादयतु]

भारतस्य अन्याः भाषाः इव वङ्गभाषायाः अपि उत्पत्तिकालः सामान्यतः १० शतकम् । मगधभाषातः पृथग्रूपस्य प्राप्तेः अनन्तरम् एव अनया भाषया गीतादीनां रचनस्य आरम्भः जातः । इयं भाषा जनानां भावानां विचाराणाम् अभिव्यक्तेः साधनं जातम् । कालक्रमेण काव्यग्रन्थानां धर्मदर्शनादीनां विषये कृतयः रचिताः जाताः । अद्यत्वे भारतीयभाषासु इयं भाषा उन्नतस्थाने विद्यते ।

भारते अधिकैः जनैः भाषमाणासु भाषासु द्वितीयस्थाने वर्तते वङ्गभाषा । भारतस्य राष्ट्रगीतं राष्ट्रगानञ्च वङ्गभाषया एव रचितमस्ति । राष्ट्रगीतं 'वन्दे मातरम्' बङ्किमचन्द्रचटर्जिवर्येण राष्ट्रगानं 'जनगणमन' रबीन्द्रनाथठाकूरेण रचितम् ।

इतिहासः[सम्पादयतु]

बुद्धस्य काले उपयुज्यमानाः मागधी-प्राकृत-पालीभाषाः अग्रे जैनप्राकृत-अर्धमागधिरूपेण विकसिताः जाताः । अर्धमागधिभाषातः अपभ्रंशभाषाः उत्पन्नाः । एताः त्रिधा विभक्ताः - बिहारिभाषाः, ओरियाभाषाः, अस्सामी-बेङ्गालीभाषाः चेति ।

वङ्गभाषायाः इतिहासे त्रयः कालघट्टाः निर्दिष्टाः -
प्राचीनवङ्गभाषा (९००/१०००-१४०० )

प्राचीनवङ्गभाषायाः साहित्ये चर्यपदम्, भक्तिगीतानि, अमि-तुमि इत्यादीनां सर्वनामानाम् उगमः च दृश्यते । तदानीन्तनी लिपिः भाषा च अधिकतया कामरूपिभाषातः प्रभाविता आसीत्, यतः एते प्रदेशाः कामरूपसाम्राज्यस्य आधीन्ये आसीत् ।

मध्यकालीनवङ्गभाषा (१४००-१८००)

अस्य कालस्य प्रमुखा कृतिः चण्डिदासस्य 'श्रीकृष्णकीर्तन' । संयुक्तक्रियापदानां प्रसारः, पर्शियन्प्रभावः च तदा दृश्यते ।

नवीनवङ्गभाषा (१८०० तः) - अन्यभाषातः क्रियापदानां सर्वनाम्नां च ह्रस्वीकरणम् (उदा - तहार् - तार् (तस्य/तस्याः), कोरियाचिलो - कोरेचिलो (सः/सा कृतवान्/कृतवती)

पालीभाषायाः साम्यतां भजन्ती वङ्गभाषा संस्कृतभाषातः प्रभाविता जाता अस्ति चैतन्यप्रभोः युगे, वङ्गनवोदयकाले च । तुर्किभाषाणां प्रभावश्च दृश्यते ।

टिप्पणी[सम्पादयतु]

  1. Bengali language in {{#ifeq:|none |Asiatic Society of Bangladesh 2003 | [[#CITEREFAsiatic Society of Bangladesh2003|Asiatic Society of Bangladesh 2003
  2. Laurie Bauer, 2007, The Linguistics Student’s Handbook, Edinburgh

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बाङ्गला_भाषा&oldid=281096" इत्यस्माद् पुनः प्राप्तिः