मौलाना अबुल कलाम आजाद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मौलाना अबुल् कलाम् आजाद् इत्यस्मात् पुनर्निर्दिष्टम्)
मौलाना अबुल् कलाम् आजाद्
Abul Kalam Azad
Minister of Education, India
In office
15 August 1947 – 2 February 1958
Prime Minister Jawaharlal Nehru
व्यैय्यक्तिकसूचना
Born (१८८८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-११)११ १८८८
Mecca, Hejaz Vilayet, Ottoman Empire (now Saudi Arabia)
Died २२ १९५८(१९५८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-२२) (आयुः ६९)
Delhi, India
Signature

मौलाना अबुल् कलाम् आज़ादः अथवा अबुल् कलाम् गुलम् मुहियुद्दीन् (बाङ्गला: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ) कश्चित् भारतीयः मुसल्मानविद्वान् । एषः कविः लेखकः पत्रकर्ता भारतस्वातन्त्र्यस्य योद्धा अपि आसीत् । भारतस्य स्वातन्त्र्योत्तरं महत्वपूर्णः राजनीतिज्ञः अभवत् । एषः महात्मनः गान्धेः सिद्धान्तान् अनुमोदयन्ति स्म । हिन्दुमुसल्मानयोः एकतार्थं कार्याणि कृतवान् । पृथक् मुसल्मानराष्ट्रनिर्माणस्य विषयस्य विरोधिषु महम्मदीयजनेषु अन्यतमः आसीत् । खिलापत् आन्दोलने अस्य भूमिका महत्वपूर्णा आसीत् । धरासन् सत्याग्रहस्य क्रान्तिकारी प्रतिनिधिः आसित् । क्रि.श. १९४०तमे वर्षे कङ्ग्रेस् अध्यक्षः सन् भारतं त्यजतु आन्दोलनं चालितवान् । कङ्ग्रेस् सङ्घटनस्य अन्यनायकाः इव अस्यापि वर्षत्रयस्य कारागारबन्धनम् अभवत् । क्रि.श.१९२३तमे वर्षे युवा मौलाना भारतीयन्याषनल् कङ्ग्रेस् सङ्घटनस्य अध्यक्षः अभवत् । क्रि.श. १९४०तमवर्षतः क्रि.श. १९४५पर्यन्तं पुनः काङ्ग्रेस् अध्यक्षः अभवत् । भारतस्य स्वातन्त्र्योत्तरं सांसदरूपेण निर्वाचितः भारतस्य प्रथमविद्यामन्त्री अभवत् । विद्यायानुदानायगोस्य रचनम् अस्य अविस्मरणीयकार्येषु अन्यतमम् ।

जीवनम्[सम्पादयतु]

मौलाना अज़ादः अफघानिस्तानस्य उलेमा वंशेन सम्बद्धः अस्ति । बाबरस्य काले भारतम् आगतः । अस्य माता अरबीमूलस्य पिता मौहम्मदकैरुद्दीन् फारसीजनः आस्ताम् । मोहम्मद कैबुद्दीनः तथा परिवारः भारतस्य स्वातन्त्र्यस्य प्रथामान्दोलनकाले क्रि.श. १८५७तमे वर्षे कलकतानगरं त्यक्त्वा मक्का गतः । तत्र मोहम्मदकैरुद्दीनस्य भविन्याः भार्ययाः दर्शनम् अभवत् । सः क्रि.श. १८९०तमे वर्षे भारतम् आगतवान् । मोहम्मदखैरुद्दिनः कलकतायां मुसल्मानविद्वान् इति ख्यातिं प्राप्तवान् । तदा अस्य पुत्रः मौलाना आज़ादः एकादासवर्षीयः आसीत् । तदा आजादस्य माता दिवङ्गता । अस्य आरम्भिकी शिक्षा इस्लामरीत्या अभवत् । गृहे मस्जिदेषु च पिता तथा अन्यविद्वांसः एतं बोधितवान्तः । महम्मदीयशिक्षाम् अतिरिच्य दर्शनशास्त्रम्, इतिहासः, गणितम् इत्यादीनि अपि अन्यगुरवः पाठितन्तः । अज़ादः उर्दू, फारसी, [[हिन्दीभाषा |हिन्दीभाषां]], अरबी, अङ्ग्लभाषां च पाण्डित्यं सम्पादितवान् । सामन्यतः २५वर्षेषु या विद्या सम्पाद्यते तादृशी विद्या अनेन सप्तदशवर्षे वयसि प्राप्तः । अस्य तत्रयोदशे वयसि जुलैका बेगम् इति कन्यया सह विवाहः अभवत् । एषः कुरान् ग्रन्थस्य अन्यभाषारूपाणि लिखितवान् । आज़ादः समर्पितस्वाध्यायेन आङ्ग्लभाषाम् अधीतवान् । पश्चात् विविधदर्शनानि पठितवान् । मुसल्मानपारम्परिकशिक्षायाम् अस्य रुचिः नासीत् । एषः अधुनिकशिक्षावादी सर् सैय्यद अहमद् खान् इत्यस्य विचारैः सहमतः च आसीत् ।

क्रान्तिकारी पत्रकर्ता च[सम्पादयतु]

आज़ादः आङ्ग्लशासस्य विरुद्धः आसीत् । आङ्ग्लसर्वकारः सामन्यजनस्य शोषणं करोति । एषः तस्य कालस्य मुसल्माननेतॄन् अपि समालोचितवान् ये केवलं मुसल्मानानाम् आद्यहितचिन्तनं कुर्वन्ति स्म । क्रि.श. १९०५तमे वर्षे बङ्गालस्य विभाजनेन कारणेन अन्यमुसल्माननायकैः सह विरोधमपि प्रकटित्वान् । एषः ईरान् इराक् मिस्र् तथा सीइया इत्यादीनां देशानां प्रवासं कृतवान् । अज़ादः क्रान्तिकारिणः गतिविधिषु सक्रियः अभवत् । अस्य कार्यस्य समर्थनं श्यामसुन्दरचक्रवर्ती श्री अरबिन्दो इत्यादयः अकुर्वान् । अस्य शिक्षा एतं लिपिकारं कर्तुं शक्नोति स्म । किन्तु एषः राजनितेः विषये अस्य आदरयुक्तः एषः पत्रकर्ता अभवत् । क्रि.श. १९१२तमे वर्षे एषः अल् हिलाल् इति उर्दूभाषापत्रिकायाः निदेशनम् अकरोत् । अस्य उद्देशः तु मुसल्मानयूवानः क्रान्तिकारिषु आन्दोलनेषु उत्साहिताः करणियाः, हिन्दुमुसल्मानयोः एकता साधनीया इति । मुसल्मानाः चेदपि युवानः तस्मिन् काले क्रान्तिकारिणां गतिविधीन् पालयन्तः सन्तीति उक्त्वा तत्कालीन मुसल्मानेतृन् विस्मितान् अकरोत् । बङ्गालस्य बिहारस्य मुम्बैनगरस्य च क्रान्तिकारिगतिविधिभिः काङ्ग्रेस् नायकानां विश्वासं सम्पदितवान् । क्रि.श. १९२०तमे वर्षे राञ्चीनगरे कारागारवसस्य दण्डनम् अपि अनुभूतवान् ।

असहयोग आन्दोलन[सम्पादयतु]

AbulkalamAzad

कारागारात् निर्गमात् परं जलियानावाला बाग हत्याकण्डस्य विरोधिषु नेतृषु अन्यतमः अभवत् । एतदतिरिच्य खिलापत् आन्दोलनस्यापि प्रमुखः अभवत् । खिलापतस्य तुर्कीनगरस्य उस्मानी साम्राज्यस्य प्रथमविश्वयुद्धे पराजयप्राप्तेः पश्चात् एषः तस्मिन् आरोपितां हानिं तिरस्कृतवान् । तस्मिन् काले आटोमन (उस्मानी तुर्कः) मक्कायां निवसति स्म । इस्मामस्य खलीफा तत्रैव आसीत् । एतेन कारणेन विश्वस्य मुसल्मानेषु रोषः आसीत् । अयं रोषः भारते खिलापत् आन्दोलनरूपेण उद्गतः । अत्र उस्मानानां पराजयार्थं ब्रिटेन्, फ्रान्स्, इटली इत्यादीनि मित्रराष्ट्रानि अपि विरोधः असीत् । माहात्मनः गान्धेः असहकारान्दोलने मौलाना आज़ादः सक्रियः आसीत् ।

भारतरत्नम्[सम्पादयतु]

क्रि.श. १९९२तमे वर्षे मरणोत्तरम् भारतसर्वकारस्य सर्वोच्चपुरस्कारः भारतरत्नप्रशस्तिः अस्य कुतुम्बसदस्येभ्यः प्रदत्ता ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=मौलाना_अबुल_कलाम_आजाद&oldid=484053" इत्यस्माद् प्रतिप्राप्तम्