ग्वालियर्
| ग्वालियर् ग्वालियर |
|||
|---|---|---|---|
| — नगरम् — | |||
| ग्वालियर् दुर्गम् | |||
| विकटनाम(नि): सिन्धियानगरम् | |||
| Coordinates: 26°13′17″N 78°10′41″E / 26.221521°N 78.178024°ECoordinates: 26°13′17″N 78°10′41″E / 26.221521°N 78.178024°E | |||
| देशः | भारतम् | ||
| राज्यम् | मध्यप्रदेशः | ||
| वलयः | Gird | ||
| मण्डलम् | ग्वालियर् | ||
| संस्थापकः | Raja Suraj Sen | ||
| Named for | Saint Gwalipa | ||
| सर्वकारः | |||
| • Mayor | Mrs. Sameeksha Gupta (elected 15 December 2009) | ||
| विस्तीर्णम् | |||
| • Total | ३६२ Square km (१३९.८ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2011) | |||
| • Total | १ | ||
| • श्रेणी | 40th among Indian Cities | ||
| भाषाः | |||
| • अधिक्रुताः | हिन्दी तथा आङ्ग्लभाषा | ||
| IST (UTC+5:30) | |||
| PIN | 474001 (HPO) | ||
| वाहनपञ्जीकरणम् | MP-07 | ||
| जालस्थानम् | City's Website | ||
भारतदेशस्य पुरातननगरमिदं ३०० पादोन्नते स्थले व्याप्तम् अस्ति । दक्षिणोत्तरराजमार्गस्य प्रमुखभागः अस्ति । सहस्रशः वर्षेभ्यः गङ्गायमुनादो-अब् प्रदेशानां तथा दक्खन् प्रस्थभूमेः च मध्ये चम्बलमार्गे विद्यमानं सूक्ष्मस्थानम् आसीत् । नगरस्य नाम ग्वालिप् नामकस्य सज्जनस्य कारणतः आगतम् । अस्य नगरस्य राजा कुष्टरोगेण पीडितः आसीत् ।ग्वालिपमुनिः जलाशयात् आनीतेन जलेन रोगं दूरीकृतवान् । अष्टमशताकात् एतत् सूरजकुण्डसरोवरं प्रसिद्धम् अस्ति ।
अन्तर्विषयाः |
पौराणिकमहत्वम् [सम्पादयतु]
महाभारते प्रसिद्धा नलदमयन्तीकथा अस्मिन् विदर्भप्रदेशे सर्वजनप्रिया अस्ति । मध्यप्रदेशराज्ये ग्वालियरनगरस्य समीपस्थानमेव दमयन्त्याः पितुः भीमराजस्य राज्यमासीत् ।
ऐतिहासिकमहत्वम् [सम्पादयतु]
मोगलबादषाहः अक्बरस्य आस्थाने विद्यमानः महान् सङ्गीतज्ञः तानसेनः अत्रैवासीत् । दुर्गस्य समीपे तानसेनमहोदयस्य स्मारकम् अस्ति । सङ्गीतक्षेत्रे ग्वालियरघराना इति पद्धति विशिष्टा अस्ति ।
ग्वालियरदुर्गम् [सम्पादयतु]
एतत् दुर्गं भारतीयदुर्गेषु सुभद्रम् इति ख्यातम् अस्ति । कण्ठहारस्था मुक्तामणिः इति वर्णितवन्तः । आग्रानगरस्य समीपे एव ग्वालियर् नगरमस्ति । दुर्ग- देवालय-सरोवर-भवनानां कारणतः एतत् नगरं प्रसिद्धं जातम् अस्ति । दुर्गस्य सहस्रवर्षानाम् इतिहासः अस्ति । पूर्वं हूणवंशीयाः अत्र शासनं कृतवन्तः । दुर्गस्य त्रयः पार्श्वभागाः पर्वतप्रदेशे सन्ति । मुसल्मान् बादशाहः इल्तमषः अत्र शासनं कृतवान् । क्रिस्ताब्दे ११९८ तमे वर्षे तोमाररजपूतवंशीयानां वशे आगतम् एतत् दुर्गं प्रशासनकेन्द्रमपि आसीत् ।
मानमन्दिरम् [सम्पादयतु]
राजा मानसिङ्गः स्वप्रियायै मृगनयन्यै क्रिस्ताब्दे १५ शतके भवननिर्माणं कारितवान् । एतत् मानमन्दिरम् इति प्रसिद्धम् अस्ति । मानमन्दिरं चतुस्तरीयं, वर्णचित्राणां छदयुक्क्तं च अस्ति । छद्यां कपोतानां मयूराणां गजानां च चित्राणि सन्ति ।
दुर्गस्य महाद्वाराणि [सम्पादयतु]
दुर्गं प्रवेष्टुम् उर्वाहीगेट् द्वारा अथवा अलङ्गीरगेटद्वारा आगन्तव्यं भवति । मानसिङ्गराजगृहमेव दुर्गस्य प्रवेशद्वारमिवास्ति । अलङ्गीरद्वारं क्रिस्ताब्दे १६६० तमे वर्षे निर्मितम्। एतत् औरङ्गजेबस्य द्वारमिति प्रसिद्धमस्ति । राजगृहे अनेकानि द्वाराणि सन्ति । द्वितीयं द्वारं मानसिङ्गस्य कनिष्ठपितृव्यस्य बादलसिङ्गस्य स्मरणार्थं बादलघर इत्यस्ति । चतुर्थं गणेशद्वारमस्ति ।
दुर्गे दर्शनीयानि इतरस्थानानि [सम्पादयतु]
कीर्तिमन्दिरं जहाङ्गीरराजगृहं, षाहजहान् राजगृहं, तेलि का मन्दिरं च दुर्गे दर्शनीयानि सन्ति । दुर्गस्य पूर्वभागे सासबहूमन्दिरं ११ शतके निर्मितम् अस्ति । अत्र विष्णुः आराध्यः अस्ति । एतानि गुर्जरदेशस्य प्रतिहारैः निर्मितानि सन्ति । लष्करप्रदेशे विद्यमानं जयविलास् भवनम् अतीव सुन्दरम् अस्ति । अत्र स्फटिकशिलया सोपानानि अट्टाः च निर्मिताः सन्ति । विशालाः ३२ प्रकोष्ठाः अत्र सन्ति । राजगृहस्य भोजनोत्पीठिकायां रजतस्य धूमशकटानि सन्ति । दुर्गतः प्राचीनग्रामः नवनगरं च दृश्यन्ते । दुर्गे जैनतीर्थङ्कराणाम् अदिनाथ-नेमिनाथादीनां विग्रहाः सन्ति । ग्वालियर् दुर्गं ३० पादमितोन्नतं २ कि.मी दीर्घं चास्ति । क्रिस्ताब्दे १८०९ तमे वर्षे निर्मितं जलविलासराजगृहम् इदानीं वस्तुसङ्ग्रहालयः अस्ति । पूर्वं सिन्धियावंशीयानां राजगृहमासीत् । मोतिमहल् राजगृहस्य वस्तुसङ्ग्रहालयः दर्शनीयः अस्ति । एतेषु अपूर्वाणि सुन्दराणि वस्तूनि सन्ति । ग्वालियर् नगरस्य इतिहासे क्रिस्ताब्दे १८५७ तमे वर्षे १८,००० भारतीयाः सैनिकाः श्री तात्याटोपेमहोदयस्य नायकत्वे स्वातन्त्र्यादोलने भागं स्वीकृतवन्तः । भारते प्रथमस्वातन्त्र्यसङ्ग्रामः अत्रैव अभवत् । ग्वालियरनगरस्य धूमशकटनिस्थानस्य समीपे कश्चन वस्तुसङ्ग्रहालयः अस्ति । अत्र मोगल-रजपूत- मराठा-वंशीयानां कालीनानि वस्तूनि नाणकानि च सन्ति । अत्र मोगलगार्डन् उद्यानमस्ति । तत्र महाराज्ञ्याः प्रतिमायाः प्रतिदिनं नूतनवस्त्रधारणं भवति । आहारमपि यच्छन्ति ।
वाहनमार्गः [सम्पादयतु]
आग्रामुम्बयीमार्गे ग्वालियरपत्तनमस्ति ।
धूमशकटमार्गः [सम्पादयतु]
दोलपुरझान्सीधूमशकटमार्गे ग्वालियर् प्रमुखं निस्थानमस्ति ।