ग्वालियर

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(ग्वालियर् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
ग्वालियर-महानगरम्
Gwalior
—  'Tourist Capital of Madhya Pradesh'  —
ग्वालियर-महानगरम्
ग्वालियर-महानगरस्य आकर्षणकेन्द्राणि
देशः भारतम्
राज्यम् मध्यप्रदेशराज्यम्
मण्डलम् ग्वालियरमण्डलम्
महानगरविस्तारः ३६२ च. कि. मी.
जनसङ्ख्या (२०११) ११, ०१, ९८१
संस्थापकः राजा सूरज सेन
सर्वकारः
 • प्रकारः महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • अङ्गः ग्वालियर म्युनिसिपल् कोर्पोरेशन्
 • महापौरः समीक्षा गुप्ता
 • म्युनिसिपल कमीशनर् विनोद शर्मा
भारतीयमानकसमयः (IST) (UTC+५:३०)
पिन कोड ४७४ xxx
क्षेत्रसूचीसङ्ख्या ०७५१
वाहनपञ्जीकरणम् एम पी - ०७
साक्षरता ८७.३८%
भाषाः हिन्दी, आङ्ग्लं, मराठी
लिङ्गानुपातः पु.-५०%, स्त्री.-४३.५%
जालस्थानम् Gwalior Municipal Corporation


ग्वालियर (हिन्दी: ग्वालियर, आङ्ग्ल: Gwalior) इत्येतन्नगरं मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतस्य ग्वालियरमण्डलस्य केन्द्रम् अस्ति । ग्वालियर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं प्राचीननगरेषु प्रमुखम् अस्ति । अस्य नगरस्य दुर्गाः अपि प्रसिद्धाः सन्ति । इदं नगरं गुर्जर, प्रतिहार, तोमर, कछवाडा इत्येतेषां राजवंशानां केन्द्रमासीत् । अस्मिन् नगरे विद्यमानाः स्मारकाः, दुर्गाः, भवनानि च प्रसिद्धानि सन्ति । अत्र सङ्ग्रहालये बहूनि स्मृतिचिह्नानि सङ्गृहीतानि सन्ति । एतानि स्मृतिचिह्नानि अस्य नगरस्य पर्यटनदृष्ट्या महत्वपूर्णानि मन्यन्ते ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं ग्वालियर-महानगरस्य जनसङ्ख्या ११,०१,९८१ अस्ति । अत्र ५,८८,७५२ पुरुषाः, ५,१३,२२९ महिलाः च सन्ति । भारतस्य प्रमुखनगरेषु ग्वालियर-महानगरस्य एकादशक्रमाङ्कः अस्ति । अत्र पुं-स्त्री अनुपातः १०००-८७२ अस्ति । अत्र साक्षरता ८७.३८% अस्ति ।

भौगोलिकी स्थितिः[सम्पादयतु]

ग्वालियर-महानगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २६ º २२ उ., ७८ º १७ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं १९६ मी. अस्ति । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं १५ oC भवति । अस्मिन् नगरे अप्रैल-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ३१ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति ।

इतिहासः[सम्पादयतु]

अष्टमशताब्द्याम् अत्रत्यः राजा सूरज सेन इत्याख्यः आसीत् । सः एकस्मात् अज्ञातरोगात् ग्रस्तः आसीत् । तदा ग्वालिप इत्याख्यः तपस्वी आगतः । तेन तपस्विना सूरज सेन इत्यस्मै जीवनदानं प्रदत्तम् । अतः राजा सूरज सेन इत्याख्यः तपस्विनः सम्माने अस्य नगरस्य ग्वालियर इति नामकरणं कृतवान् । ततः परं इदं नगरं राजवंशानां राजधानी अभवत् । अस्मिन् प्रान्ते महान्तः योद्धारः, राजानः, कवयः, सङ्गीतज्ञाः अभवन् । एतैः सर्वैः अस्मै नगराय महत्वपूर्णं योगदानं प्रदत्तम् । इदानीं ग्वालियर एकम् आधुनिकं महानगरम् अस्ति ।

प्रमुखकला[सम्पादयतु]

इदं नगरं मृद्शिल्पकलाभ्यः प्रसिद्धमस्ति । अत्र बहवः कुम्भकाराः सन्ति । ते मृत्तिकाभिः पात्राणि, क्रीडनकानि निर्मान्ति । नगरेऽस्मिन् उत्सवदिनेषु कुम्भकाराः एतेषां अधिकमात्रायां व्यापारं कुर्वन्ति । इदानीं कुम्भकाराः मृत्तिकायाः क्रीडनकानि न निर्मान्ति । कर्गदैः क्रीडनकानि निर्मान्ति । तेषामुपरि चकास्तिकार्यं (polish) कुर्वन्ति ।

शिक्षा, शिक्षणसंस्थानानि च[सम्पादयतु]

ग्वालियर-महानगरे जीवाजी विश्वविद्यालयः स्थितः अस्ति । एतेन विश्वविद्यालयेन सह अनेकाः महाविद्यालयाः संलग्नाः सन्ति । कला, विज्ञानं, वाणिज्यं, चिकित्साविज्ञानं, कृषिः इत्यादीनां विषयाणां महाविद्यालयाः नगरेऽस्मिन् सन्ति । अस्य नगरस्य साक्षरतास्तरम् उच्चतरम् अस्ति । नगरेऽस्मिन् सङ्गीतकलायाः विशिष्टा परम्परा अस्ति ।

ग्वालियर-महानगरस्य प्रमुखानि शिक्षणसंस्थानानि -

  • मिस हिल विद्यालय
  • गजरा राजा चिकित्सा महाविद्यालय
  • कमला राजा महिला महाविद्यालय
  • सिन्धिया स्कूल
  • सिन्धिया कन्या विद्यालय
  • माधव प्रौद्योगिकी एवं विज्ञान संस्थान

वीक्षणीयस्थलानि[सम्पादयतु]

ग्वालियर-दुर्गम्[सम्पादयतु]

ग्वालियर-दुर्गं ग्वालियर-महानगरस्य प्रमुखं पर्यटनं स्थलमस्ति । अस्य दुर्गस्य निर्माणं ’सेन्ड’ पाषाणैः कृतम् अस्ति । इदं दुर्गम् एकस्मिन् शैलप्रस्थे स्थितमस्ति । अस्य दुर्गस्य औन्नत्यं ३५ फीट् अस्ति । अतः केनापि इदं दुर्गं जेतुं न शक्यते इति स्पष्टम् ।

मान मन्दिर महल[सम्पादयतु]

अस्य दुर्गस्य निर्माणं राज्ञा मान सिंह इत्याख्येन कारितम् । अस्मिन् दुर्गे भव्यकलाकृतीनाम् अवशेषाः मिलन्ति । अस्मिन् दुर्गे एकः सङ्गीतप्रकोष्ठः अस्ति । तस्य प्रकोष्ठस्य भित्तयः जालयुताः सन्ति । अस्मिन् प्रकोष्ठे राजपरिवारस्य स्त्रियः सङ्गीतस्य आनन्दं प्राप्नुवन्ति स्म । दुर्गेऽस्मिन् एकः कारागारः अपि अस्ति । उच्यते औरङ्गजेब इत्याख्येन स्वस्य भ्राता मुराद इत्ययं कारागारे पूरितः । ततः परं तेन स्वस्य भ्रात्रे मृत्युदण्डः अपि प्रदत्तः आसीत् । अस्मिन् दुर्गे एकः कुण्डः अपि अस्ति । अस्य कुण्डस्य नाम सूरज कुण्ड इति । नवमशताब्द्यां गुर्जर प्रतिहार वंशजैः अद्वितीयवास्तुकलायुतं विष्णुमन्दिरं निर्मापितम् । तस्य मन्दिरस्य उच्चता १०० फीट् अस्ति । अस्य मन्दिरस्य निर्माणं द्रविड-वास्तुकलायाम्, आर्य-वास्तुकलायां च कृतम् अस्ति ।

ग्वालियर-महानगरस्थं दुर्गम्

जयविलास महल एवं सङ्ग्रहालय[सम्पादयतु]

इदं भवनं सिन्धिया-वंशजानां निवासस्थलम् अस्ति । अत्र एकः भव्यः सङ्ग्रहालयः अपि अस्ति । अस्मिन् भवने पञ्चत्रिंशत्प्रकोष्ठाः सन्ति । अस्य भवनस्य अधिकतरः भागः इटालियन् इत्यनया वास्तुकलया निर्मितम् अस्ति । अस्मिन् सङ्ग्रहालये एकं रजतमयं रेलयानम् अस्ति । इदं रेलयानं भोजनपीठस्योपरि उपयुज्यते । कस्मिंश्चित् सम्भोजने इदं रेलयानं भोजनं परिवेषयति । अत्र इटली, फ्रान्स्, चीन इत्यादीनां देशानां दुर्लभाः कलाकृतयः सन्ति ।

तानसेन स्मारक[सम्पादयतु]

तानसेन इत्याख्यः भारतस्य शास्त्रीयसङ्गीतस्य सङ्गीतज्ञः आसीत् । तानसेन इत्ययं अक्बर् इत्याख्यस्य राज्ञः आस्थाने विद्यमानेषु नवरत्नेषु एकः आसीत् । तस्य स्मारकः अत्र स्थितः अस्ति । अयं मुगल-वास्तुकलायाः एकं प्रतिरूपम् अस्ति । तानसेन इत्याख्यस्य स्मृतौ ग्वालियर-महानगरे प्रतिवर्षं तानसेन-समारोहः आयोज्यते ।

विवस्वान सूर्य मन्दिर[सम्पादयतु]

अस्य मन्दिरस्य निर्माणं बिरला इत्यनेन कारितम् । अस्य निर्माणकार्यस्य प्रेरणा कोणार्कस्थात् सूर्यमन्दिरात् सम्प्राप्ता अस्ति ।

रानी लक्ष्मीबाई स्मारक[सम्पादयतु]

रानी लक्ष्मीबाई स्मारक अपि अस्मिन् नगरे स्थितमस्ति । उच्यते यदा रानी लक्ष्मीबाई इत्यस्याः ब्रिटिश इत्येतैः सह युद्धं प्रचलति स्म, तदा रानी लक्ष्मीबाई इत्यनया स्वस्याः सेनाभिः सह अत्र विश्रामः कृतः । तत्कालीनस्य ग्वालियर-प्रान्तस्य शासकात् रानी लक्ष्मीबाई इतीयं साहाय्यम् अयाचत किन्तु तत्रत्यः राजा सदैव मुगल-ब्रिटिश इत्येतयोः अधीनस्थः आसीत् । अतः सः राजा किमपि साहाय्यं कर्तुम् असमर्थः आसीत् । तदा रानी लक्ष्मीबाई वीरगतिं प्राप्तवती । तेन अत्रत्यानां राजवंशजानां गौरवं सन्देहयुक्तं जातम् । अत्र तात्या टोपे इत्यस्य अपि स्मारकः अस्ति ।

ग्वालियर-महानगरस्य प्रसिद्धाः व्यक्तयः[सम्पादयतु]

मार्गाः[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

ग्वालियर-नगरे राजमाता विजया राजे सिन्धिया-विमानस्थानकम् अस्ति । देहली, मुम्बई, भोपाल, इन्दौर, जबलपुर इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगराय विमानयानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

मुम्बई, देहली, बेङ्गळूरु, चेन्नै, हैदराबाद्, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगरं प्रति रेलयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

मध्यप्रदेशस्य सर्वेभ्यः नगरेभ्यः, ग्रामेभ्यः च ग्वालियर-नगराय बस्-यानानि सन्ति ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.census2011.co.in/census/city/284-gwalior.html
http://gwaliormunicipalcorporation.org

"http://sa.wikipedia.org/w/index.php?title=ग्वालियर&oldid=279082" इत्यस्माद् पुनः प्राप्तिः