एलिफेण्टागुहाः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
एलिफेण्टागुहा
Elephanta Caves Trimurti.jpg
गुहागतं गुप्तकालीनं त्रिमूर्तिशिल्पम् ।
Map showing the location of एलिफेण्टागुहा
मानचित्रे एलिफेण्टागुहास्थानम् ।
स्थानम् भारतम्भारतम्
समीपस्थं  नगरम् मुम्बैनगरम्
प्रदेशः फलकम्:Convinfobox/2फलकम्:Convinfobox/2
Official website

एलिफेण्टागुहाः भारतस्य मुम्बयीनगरस्य समीपे एलिफेण्टा इति द्वीपे सन्ति । अस्य द्वीपस्य प्राचीनं नाम मराठीभाषया घारापुरि इति । पोर्चुगीस् जनाः एलिफेण्टा इति परिवर्तितवन्तः । क्रि.श. १९८७तमे वर्षे युनेस्कोसङ्घटनेन एतत् स्थानं विश्वपरम्पारास्थानम् इति उद्घुष्टम् । एलिफेण्टागुहासु विद्यमानाः शिलामूर्तीः पोर्चुगीस् जनाः विकारितवन्तः । ते क्रि.श. १७तमे शतके पोर्चुगीस् जनाः भुषुण्डिगोलिकाप्रयोगस्य लक्ष्यमिव उपयुज्य मूर्तीः भञ्जितवन्तः । एलिफण्टागुहायाः इतिहासः क्रि.श.नवमशतकः १३तमशतकपर्यन्तं प्रशासितुः सिल्हणराजानां कालस्य इति विश्वसितम् । किन्तु अत्र विद्यमानाः काश्चन मूर्तयः मन्यखेटस्य राष्ट्रकूटानां कालस्य इति केषाञ्चन अभिप्रायः। अत्र शिवस्य त्रिमुखस्य सदाशिवमूर्तिः ब्रह्माविष्णुमहेश्वरैः सदृशास्ति । इयं सदाशिवमूर्तिः एव राष्ट्रकूटवंशीयानां लाञ्छनम् आसीत् । सुन्दरी नटराजमूर्तिः आकर्षका अर्धनारीश्वरमूर्तिः अपि राष्ट्रकूटशैल्या अस्ति इति अभिप्रायः । शिलाः उत्कीर्य निर्मिताः एलिफेण्टागुहाः बहुशः ६०सहस्रवर्गपादपरिमिताः विस्तृताः सन्ति । अत्र नैके प्राङ्गणाः, मन्दिराणि, सन्ति । विविधविन्यस्तमण्डपेषु विविधाः देवतामूर्तयः सन्ति । मध्ये कश्चन प्रधानः शिवालयः शोभते । अत्र सदाशिवः सदा निवसति इति भजकानाम् दृढविश्वासः । एलिफेण्टागुहाः मुम्बयीसागर तीरे स्थितात् अपोलोनौकानिस्थानतः ११ कि.मी दूरे द्वीपे सन्ति । अत्र दर्शनीयाः गुहादेवालयाः मुम्बयीनगरमागतानां प्रमुखाकर्षणकेन्द्राणि सन्ति । प्रायशः अष्टचतुरस्रकिलोमीटर् विस्तारे प्रदेशे आरम्भे १३ पादमितदीर्घं शिलानिर्मितं गजं दृष्ट्वा पाश्चात्याः एतं द्वीपम् एलिफेण्टा इति उक्तवन्तः । एलिफेण्टागुहाः प्रायशः क्रिस्ताब्दस्य तृतीयशतकतः एकादशशतकपर्यन्तं राजमहाराजाना विहारस्थानम् आसीत् । सुन्दरवनैः पर्वतशिखरैः पूर्णं सुन्दरं स्थलमासीत् । घटपुरी इति अस्य नाम आसीत् । पोर्तुगीस् देशीयाः एतत् स्थानं एलिफेण्टा इति उक्तवन्तः। त्रिमूर्तिगुहा अतीव बृहदस्ति । अत्र ब्रह्मविष्णुमहेश्वराणां मूर्तयः सन्ति । शिलासु रचिताः मूर्तयः एताः । अत्रत्यौ द्वारपालकौ एव १३ पादमितोन्नतौ स्तः । अन्यस्मिन् प्रकोष्ठे १६ पादमितोन्नतः अर्धनारीश्वरविग्रहः अस्ति । मूर्तेः प्रसन्नभावः सर्वेषाम् आनन्दाय भवति । अजन्ताएल्लोराप्रदेशे स्थिताः मूर्तयः इव एताः अपि शैवमतसम्बन्धिन्यः । त्रिमुखः महेश्वरमूर्तिः आकर्षकालङ्कारयुक्ता अस्ति । मूर्तीनां कर्णे सुन्दराणि कर्णकुण्डलानि, किरीटम् इतरालङ्काराः च सुन्दराणि सन्ति । शिल्पेषु सूर्यस्य किरणानां स्पर्शः अतीवाकर्षकः भवति । सर्वत्र छायाप्रकाशयोजना सुन्दरी अस्ति । एकस्मिन् प्रकोष्ठे शिवपार्वत्योः विवाहसमयसम्बन्धिन्यः मूर्तयः सन्ति । नटराजविग्रहः अपूर्वः अस्ति । तस्य पुरतः शिवकैलासमूर्तिः अस्ति । रावणः यदा कैलासपर्वतमेव कम्पितवान् पार्वती शिवमालिङ्गितवती । एतं विषयं अधिकृत्य रचितं शिल्पम् अतीवचमत्कारि अस्ति । एलिफेण्टागुहानां दर्शनार्थं द्वीपं गन्तुं अपोलोनौकानिस्थानतः नौकायानसम्पर्कव्यवस्था अस्ति । प्रतिदिनम् अनेके जनाः गुहानां दर्शनार्थ अत्र आगच्छन्ति । पर्वतप्रदेशं गन्तुं पादचारिमार्गः अस्ति । १२० सोपानानि सन्ति । शिबिकया अपि गन्तुं शक्यते । यदा गुहास्थलं प्रविशामः तदा मायालोकं प्रविष्टवन्तः इव आनन्दमनुभवामः । त्रिमूर्तिरुपः १८ पादमितोन्नतः विग्रहः अतीवाकर्षकः अस्ति ।

मार्गः[सम्पादयतु]

मुम्बयीनगरस्य चर्चगेट् धूमशकटनिस्थानतः अपोलोनौकानिस्थानतः यान्त्रिकनौकाः सन्ति ।

एलिफेण्टागुहाद्वीपं गन्तुं मुम्बैनगरस्य गेट् वे आफ् इण्डिया इति प्रदेशात् यान्त्रीकृतनौकया (मोटार् लाञ्च्) प्रवासः कार्यः । पर्यटकानां कृते अत्र न कापि व्यवस्था कल्पिता अस्ति । अस्य स्थानस्य पावित्र्यं सौन्दर्यं नैर्मल्यं च रक्षितुं महाराष्ट्रसर्वकारेण अयं निर्धारः कृतः ।

बाह्नानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=एलिफेण्टागुहाः&oldid=271367" इत्यस्माद् पुनः प्राप्तिः