महाबलिपुरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

महाबलिपुरम् तमिळ्नाडुप्रदेशस्य काञ्चीपुरमण्डले एकम् नगरम् अस्ति । महाबलिपुरम्चेन्नैतः दक्षिणभागे ५० कि.मी दूरे वङ्गसागरस्य पार्श्वे स्थितम् । जनाः एतत् स्थलं मामल्लपुरमिति कथयन्ति । एतन्नगरम् पौराणिक ऐतिहासिकस्थलम् अस्ति । प्रथमे शतके प्टोलमीनामयवनलेखकस्य काले महाबलिपुरम् प्रमुखम् नौकश्रयपट्टनम् आसीत् । पेरिप्लस् नाम लेखनात् अस्य स्थलस्य महत्त्वं न ज्ञातमासीत् । भारतियवणिकाः अस्मात् नौकासु विदेशान् प्राप्तवन्तः । क्रिस्ताब्दे ६-७ शतके पल्लवराजैः अत्र समुद्रवाणिज्यं कृतम् आसीत् । अस्मिन् क्षेत्रे पल्लवराजैः स्थितानि बहूनि अश्मशिल्पकानि सन्ति । अस्मिन् रथमन्दिरमण्डपमूर्तिषु पल्लवशिल्पीनाम् कुशलता दृश्यते । इदम् क्षेत्रम् UNESCO विश्वपरम्परास्थानम् अस्ति।

इतिहासः[सम्पादयतु]

अस्मिन् क्षेत्रे अतिपुरातनानि अस्थिकुम्भाः प्रकाशिताः । पेरुम्पाणारुपट्टै नाम सङ्गकाल तमिळ् काव्ये निरुपेयरुनगरस्य तोण्डैमान् राज्ञः चरितम् वर्णितम् । चतुर्थशतकस्य चीनरोमकसिकाः अत्र उद्भिन्नाः । ६-९ शतके एतन्नगरम् पल्लवराज्ये आसीत् । पल्लवराजैः लङ्कामलयकम्बुजादि देशान् प्रति राजदूताः प्रेशितवन्तः । तिरुमङै आळ्वार् अस्यकाव्ये महाबलिपुरस्य महत्त्वम् वर्णितवान् । मार्को पोलो एतत् नगरम् सप्तमन्दिरम् इति अकथयत् । नरसिंहवर्मा महाबलिपुरम् व्यभावयत् । अस्य स्मृतौ एतन्नगरम् महामल्लपुरम् इति कथ्यते। मण्डपानि रथाः च ग्रावायाः वितष्टाः। अर्धशतकम् पश्चात् राजसिंहवर्मा स्मुद्रतटमन्दिरम् अश्मभित्तिभिः अरचयत् । नरसिंहवर्मा पुलकेशिनम् विजित्य वाताप्याः शिल्पिनः स्वराज्यम् आहुतवान्।

शिल्पाः[सम्पादयतु]

सागरतीरस्थमन्दिरम्[सम्पादयतु]

प्राणिनां सुन्दरशिल्पानि

सागरतीरे अद्भुतम् मन्दिरम् अस्ति । एतत् सोमस्कन्दशिवस्य शेषशयनविष्णोः च मन्दिरम् अस्ति। एतस्य विमानम् अति सुन्दरम् अस्ति। मन्दिरे अष्टासहस्रवृष्भप्रथिमाः सन्ति।

गङ्गावतरणम्[सम्पादयतु]

अत्र गङ्गावतरणशिल्पम् अतीव सुन्दरम् अस्ति । ९६x४० विस्तारयुते शिलाप्रदेशे अनेकशिल्पानि उत्कीर्णानि सन्ति । जगतः विविधजीविनां, मानवस्य च विविधाः विकासावस्थाः, जीवविकासवैविध्यानि शिल्परूपेण सन्ति । अत्र महाराजस्य भगीरथस्य एकपादेन स्थितवतः शिल्पम् अस्ति । हृदयभागगतास्थीनि स्पष्टतया श्वासोच्छ्वासस्य प्रदर्शनं कुर्वन्तीव निर्मितानि । पार्श्वे नागाः यक्षाः गन्धर्वाः आकाशे डयमानाः सन्ति । कपयः मृगाः च सुन्दरतया उत्कीर्णाः सन्ति । एतत्सर्वं गङ्गानद्यां स्पष्टतया जले प्रतिबिम्बरूपेण गोचरीभवति ।शिल्पिनः एतादृशं कलाकौशलम् अत्र द्रष्टुं शक्यम् ।

पञ्चरथाः[सम्पादयतु]

पञ्चरथाः

अत्र स्थिताः पञ्चरथाः पाण्डवरथाः इति ख्याताः सन्ति । समीपे गृहायां शिल्पानि सन्ति । ९ शिलागुहाः अत्र सन्ति । गुहां निर्माय शिल्पानि स्थापितवन्तः । एतासु गुहासु महिषमर्दिनी गुहा अद्भुता अस्ति ।

कृष्णमण्डपम्[सम्पादयतु]

कृष्णमण्डपे श्रीकृष्णस्य बाललीलायाः सुन्दराणि शिल्पानि सन्ति ।

महाबलिपुरस्य समीपे विद्यमानानि इतरप्रेक्षणीयस्थानानि[सम्पादयतु]

वेदान्ताङ्गल्[सम्पादयतु]

पक्षिधामनि पक्षिणः

एतत् स्थलं प्रसिद्धं पक्षिधाम अस्ति । प्रायः ६० हेक्टर् प्रदेशे व्याप्ते अस्मिन् पक्षिधामनि पक्षिणः नवम्बरमासतः फेब्रवरीमासपर्यन्तं भवन्ति । अत्र वासाय वसतिसौकर्यम् अस्ति ।

भूमार्गः[सम्पादयतु]

महाबलीपुरतः ५३ कि.मी । मधुरान्तकतः पश्चिमे १० कि.मी चङ्गलपट्टुतः ३५ कि.मी चैन्नैतः ५२ कि.मी ।

बास् रिलीफ्[सम्पादयतु]

अत्रैव समीपे बास् रिलीफ् इति तिमिङ्गिलाकारकः शिला पर्वतः अस्ति ।

क्रोकडैल् ब्याङ्क्[सम्पादयतु]

मकरतीरे मकराः

क्रोकडैलब्याङ्क स्थले पञ्चसहस्रमकराः सन्ति । प्रातः ८.३० वादनतः सायङ्काले ५.३० वादनपर्यन्तम् एतेषां दर्शनं कर्तुं शक्यते ।

मुत्तुकाट्टु स्थलम्[सम्पादयतु]

अत्र जलक्रीडाविहारः नौकायानं विश्रान्तिधाम इत्यादिकम् अस्ति ।

भूमार्गः[सम्पादयतु]

चैन्नैतः ६० कि.मी, काञ्चीकाञ्चितः ६५ कि.मी, तिरुप्पूरुतः १६ कि.मी.

"http://sa.wikipedia.org/w/index.php?title=महाबलिपुरम्&oldid=285408" इत्यस्माद् पुनः प्राप्तिः