मुम्बई

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(मुम्बयी इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
मुम्बयी
बाम्बे
—  नगरम्  —
Skyscrapers lit up at night. A clock tower with a square base and an octagonal top. A wide building with central and surrounding domes. Wide skyscrapers at night. A brown arch with boats nearby.
वामतः दक्षिणं प्रति: कफीपरेड्, राजाभायीचौक् टवर् , ताजमहलप्रासादः & ताजमहल् वसतिगृहम् , नारिमन् पायिण्ट् तथा गेट् वे आफ् इन्डिया
Coordinates: 18°58′30″N 72°49′33″E / 18.975°N 72.82583°E / 18.975; 72.82583Coordinates: 18°58′30″N 72°49′33″E / 18.975°N 72.82583°E / 18.975; 72.82583
Country भारतम्
State महाराष्ट्रम्
District मुम्बयीनगरमण्डलम्
Mumbai Suburban
First settled 1507
सर्वकारः
 • प्रकारः Mayor–Council
 • अङ्गः BMC
 • Mayor Sunil Prabhu (फलकम्:Polparty)
 • Municipal commissioner Sitaram Kunte
विस्तीर्णम्
 • नगरम् ६०३ Square km (२३२.८ Square mile)
औन्नत्यम्
मुम्बई
जनसङ्ख्या (2011)
 • नगरम् १२
 • श्रेणी 1st
 • महानगरम् १८
 • Metro rank [
 • Metropolitan २०
देशीयता Mumbaikar
IST (UTC+5:30)
ZIP code(s) 400 xxx
Area code(s) 9122-XXXX XXXX
वाहनपञ्जीकरणम् MH 01—03
Spoken languages मराठी
Ethnicity मराठी, मारवाडी, बिहारी and others
जालस्थानम् www.mcgm.gov.in
मुम्बयीनगरस्य सायङ्कालीनं दृश्यम्
बाम्बे स्टाक् एक्स्चेञ्ज्

मुम्बई भारतस्‍य महाराष्ट्रप्रान्‍तस्‍य राजधानी अस्‍ति। एतद् नगरं भारतदेशस्य विशालं नगरम्। भारते लोकसंख्यया प्रथमं, पृथिव्यां द्वितीयं च एतन्नगरं वर्तते। भारतस्य पश्चिमे समुद्रतटे एतद् नगरं स्थितम्। महाराष्ट्रराज्यस्य राजधानीरुपेण ख्यातं महानगरं मुम्बयी । गगनचुम्बिभवनैः देशे एव अद्वितीयम् अस्ति । चलचित्रनिर्माणस्य आधारस्थानम् इत्यतह् बालिवुड इति प्रसिद्धम् अस्ति । मुम्बादेव्याः देवालयः अत्र अस्ति । अतः नगरस्य मुम्बापुरी इति नाम आसीत् । आङ्गलानां प्रशासनकाले बाम्बे बोम्बायी बम्बै इत्यादि नामभिः प्रख्यातम् अभवत् । इदानीं मुम्बयी इति अधिकृततया नाम दत्तम् अस्ति । मुम्बयीनगरे अनेकानि प्रेक्षणीयस्थलानि सन्ति ।

अन्तर्विषयाः

मुम्बयीनगरस्य प्रेक्षणीयस्थानानि [सम्पादयतु]

गेट्वे आफ् इण्डिया [सम्पादयतु]

भारतस्य महाद्वारम् इत्यर्थः अस्य भवनस्य । पूर्वं विदेशेभ्यः जनाः नौकायानेन अत्रैव आगच्छन्ति स्म । विशेषतः आङ्गलाः बोम्बायी नगरम् आगत्य भारतदेशे कार्यप्रवृत्ताः भवन्ति स्म । अतः एव एतत् स्मारकम् अतीव विशिष्टं सञ्जातम् अस्ति । पीतवर्णयुक्तैः बेसाल्ट् शिलाभिः एतत् महाद्वारम् अपोलोनौकानिस्थानसमीपे अस्ति । विशालप्राङ्गणं परितः अस्ति । समीपे छत्रपतिशिवाजीमहाराजस्य स्वामिविवेकानन्दस्य च विग्रहाः सन्ति । सागरतीरसमीपे अस्मिन् स्थले प्रातः सायं च विहाराय बहवः जनाः आगच्छन्ति ।

छत्रपतिशिवाजिमहाराजम्यूसियम् [सम्पादयतु]

पूर्वम् एतत् प्रिन्सवेल्स् म्यूसियम् इति ख्यातम् आसीत् । कोलाबा प्रदेशे मुम्बयीनगरे एषः वस्तुसङ्ग्रहालयः अस्ति । क्रिस्ताब्दे १९०५ तमे वर्षे पञ्चमः जार्जः भारतम् आगतवान् । एतत्स्मरणार्थम् इण्डो-सार्सेनिकशैल्या विशिष्टं भवनम् एतत् निर्मितम् अस्ति । अत्र वर्णचित्राणि एलिफेण्टा गुहागतवास्तुकृतयः प्राच्यवस्तूनि च सङ्गृहीतानि सन्ति । गौतमबुध्दस्य अपूर्वः विग्रहः अत्र अस्ति । अत्र आवरणे ’जहाङ्गीर आर्ट ग्यालरि नामकः कलासङ्ग्रहालयः अस्ति । अत्र कलाप्रदर्शनानि भवन्ति ।

फ्लोरा फौण्टन् [सम्पादयतु]

हुतात्मा चौक् इत्यपि अस्य अपरम् नाम ।मुम्बयीनगरे एकं जनभरितं वाणिज्यकेन्द्रस्थानम् एतत् । क्रिस्ताब्दे १८६२ तः १८६७ पर्यन्त बोम्बायीप्रान्तस्याधिकारी सर् बार्टल् फ्रियर अत्र प्रशासनं कृतवान् । तस्य स्मरणार्थम् अस्य निर्माणमभवत् । समीपे सेण्ट् थामस् केथेड्राल् अस्ति । फ्लोरा मूर्तेः वैभवः दर्शनीयः अस्ति ।

तारापोरवाला आक्वेरियम् [सम्पादयतु]

एषः कश्चन मत्स्यागारः । मुम्बयीनगरे मेरिन् ड्रैव सागरतीरसमीपे एषः विशिष्टः मत्स्यागारः अस्ति । अत्र विविधजातीयाः वर्णमयाः मत्स्याः सङ्गृहीताः सन्ति । अत्र मीनाः उत्तमतया संस्थापिताः सन्ति ।

मलबारहिल् [सम्पादयतु]

मलबारहिल् पर्वतप्रदेशः मुम्बयीनगरसमीपे अस्ति । शीतलः अय प्रदेशः मुम्बयीनगरवासिनां विहारस्थलमस्ति । वाल्केश्वरमहालक्ष्मीदेवालयौ अपि अत्र एव स्तः । मलबारपर्वताग्रे ‘ह्याङ्गिङ्ग गार्डन्’ क्रिस्ताब्दे १८८१ तमे वर्षे निर्मितम् । वालकेश्वरं श्रीरामः एव स्थापितवान् इति जनानाम् अभिप्रायः अस्ति । जलाशयस्य अग्रतः उद्यानं निर्मितम् अस्ति । अस्य फिरोजषा मेहता उद्यानमिति च कथयन्ति । अत्र उद्यानवने सस्यानि प्राणिनाम् आकारैः कर्तितानि सन्ति । अधः कमलानेहरु उद्यानमप्यस्ति । एतदुद्यानं क्रिस्ताब्दे १९५२ तमे वर्षे निर्मितम् । रात्रौ मलबारहिलतः नगरदर्शनम् अतीव सुन्दरं भवति ।

विक्टोरिया गार्डन् [सम्पादयतु]

मुम्बयीमहानगरे स्थितं विक्टोरिया गार्डन् वीरमाता जीजाबायी भोसले उद्यानवनमिति च प्रसिद्धम् अस्ति । अत्र सुन्दरः मृगालयः, आल्बर्ट म्यूसियं च आकर्षकाणि सन्ति । वस्तुसङ्ग्रहालयस्य बाह्यप्रदेशे एलिफेण्टाद्वीपतः आनीतं बृहत्शिलागजं स्थापितवन्तः सन्ति। डा अनिबेसेन्टमार्गसमीपे नेहरुप्लानिटोरियम् आकर्षकम् अस्ति ।

मुम्बयीनगरस्य सागरतीराणि [सम्पादयतु]

मुम्बयीनगरं पश्चिमसागरतीरे अस्ति । अरब्बीसागरस्य दर्शनम् अत्र बहुसरलम् । सागरतीरेषु सामान्यतः वालुकाः सन्ति । जनाः विहाराय अत्र आगच्छन्ति । राष्ट्रियनायकानां महापुरुषाणां भाषणकार्यक्रमाः अत्र भवन्ति । चौपाटी सागरतीरं वक्राकारकम् अतीवाकर्षकम् अस्ति । सायङ्काले अत्र बहुजनाः भवन्ति । जुहुबीच् अपि अतिप्रसिद्धम् अस्ति । धक्काप्रदेशे नौकानिस्थानम् अस्ति । विदेशेभ्यः अत्र नौकाः आगच्छन्ति ।


मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तीयमनोरञ्जनस्य राजधानी अपि वर्तते। भारतीय आरक्षितः अधिकोषः, मुम्बई शेर बाजार, राष्ट्रीय शेर बाजार इत्येतादृशाः नैके महत्वपूर्णाः संस्थाः अत्र सन्ति । अपि अत्र अनेकेषां सङ्घटनानां मुख्यकर्यालयाः सन्ति। मुम्बईनगरं हिन्दीभाषायां-चलचित्रस्यापि केन्द्रं। संजयगांधीराष्ट्रीयोद्यानं, लवणक्षेत्राणि, मैंग्रोववनानि आदि प्राकृतिकस्थलानि एतस्य नगरस्य समीपे वर्तते।


भगिनीनगराणि [सम्पादयतु]

नगर राष्त्र
बर्लिन जर्मनी
लंदन सयुक्त राज्य
लॉस एंजिल्स सयुक्त राष्ट्र अमेरिका
योकोहमा जापान
सैंट पेटेर्स्बुर्ग रूस
स्तुत्त्गर्ट जर्मनी
"http://sa.wikipedia.org/w/index.php?title=मुम्बई&oldid=229232" इत्यस्माद् उद्धृतम्