मुम्बई

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(मुम्बयी इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मुम्बईमहानगरम्
मुम्बई
Mumbai
मुम्बईमहानगरम्
मुम्बईमहानगरम् (वामतः दक्षिणं प्रति) काफीपरेड्, गेटवे ओफ् इण्डिया, नरिमन् पोइण्ट्, राजाभाईचौक-चतुष्पथे टवर्, ताजमहल-प्रासादः & ताजमहल् वसतिगृहम्
देशः भारतम्
राज्यम् महाराष्ट्रराज्यम्
मण्डलम् मुम्बईमण्डलम्, मुम्बई-उपनगर-मण्डलम्
महानगरविस्तारः ६०३ च.कि.मी.
जनसङ्ख्या(२०११) १,८४,१४,२८८
सर्वकारः
 • प्रकारः महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • अङ्गः बृहन्मुम्बई म्युनिसिपल् कोर्पोरेशन्,
 • महापौरः सुनील प्रभू[१]
भारतीयमानसमयः(IST) (UTC+५:३०)
पिनकोड
क्षेत्रसूचीसङ्ख्या ०२२
वाहनपञ्जीकरणम् एम् एच् १ – १०
साक्षरता ९०.७८%
भाषाः मराठी, हिन्दी, आङ्ग्लं
जालस्थानम् [www.mcgm.gov.in]
मुम्बईनगरम्-प्राकृतिकम्
बॉम्बे स्टाक् एक्स्चेञ्ज्
फ्लोरा फौण्टन्
मुम्बई आन्ताराष्ट्रियविमानपत्तनम्
बॉम्बे स्टाक् एक्स्चेञ्ज्
मरीन ड्राइव्, मुम्बई नगरस्य एक: सागरतट:

मुम्बई (मराठी: मुंबई, आङ्ग्ल: Mumbai Cityआङ्ग्लः) महाराष्ट्रराज्यस्य राजधानी अस्ति । एतन्नगरं भारतदेशस्य विशालं, प्रगतं च नगरम् । भारते लोकसङ्ख्यादृष्ट्या प्रथमस्थाने, पृथिव्यां द्वितीयस्थाने च वर्तते एतन्नगरम् । भारतस्य पश्चिमे, समुद्रतटे एतद् नगरं स्थितम् । अरबी-समुद्रतटे यानि नौकास्थानानि सन्ति तेषु अन्यतमं सर्वोत्कृष्टमिदम् । इदं मुम्बई महानगरं गगनस्पर्शिभवनैः आभारतम् एव अद्वितीयम् अस्ति । विश्वे २५ बृहन्नगरेषु अन्यतममिदम् । भारतदेशे वर्तमानेषु नगरेषु द्वितीयं बृहन्नगरम् । 'बोलिवुड्' नाम्ना प्रसिद्धः हिन्दी-चलच्चित्रोद्यमः इतः एव प्रवर्तते । मुम्बादेव्याः देवालयः अत्र अस्ति । अतः नगरस्य 'मुम्बापुरी' इति नाम आसीत् इति कथ्यते । आङ्गलानां प्रशासनकाले 'बॉम्बे' नाम्ना प्रख्यातम् अभवत् । लघु-’धाकटा’ कुलाबा, बृहत्-'मोठा' कुलाबा, मुम्बई, माझगाव, परळ, वरळी, माहीम इत्येतानां द्वीपानां एकत्रीकरणेन मुम्बईनगरं निर्मापितम् । इदानीं मुम्बई इति अधिकृततया नाम दत्तम् अस्ति ।


जनसङ्ख्या[सम्पादयतु]

मुम्बई नगरस्य जनसङ्ख्या (२०११) १,८४,१४,२८८ अस्ति । अत्र ९८,९४,०८८ पुरुषा:, ८,५२०,२०० महिला: च सन्ति । अत्र पुं-स्त्री अनुपातः १०००-८६१ अस्ति । अत्र साक्षरता ९०.७८% अस्ति । मुम्बई नगरस्य जनसङ्ख्या तु इदानीं जनानां चिन्ताविषय: । अस्याः समास्यायाः निवारणार्थं कार्यरतमस्ति बृहन्मुम्बईनगरप्रशासनम् ।

इतिहास:[सम्पादयतु]

टोलेमि इत्यस्य प्रवासवर्णने ‘हेप्टानेशिया’ इति यः उल्लेख: दृश्यते स: मुम्बईसम्बद्ध: इति मन्यते । अत्यन्तपुरातनानि पाषाणसाधनानि, पुरातनाः अवशेषाश्च उपलभ्यन्ते । अस्मिन् विभागे पञ्चमशतकात् आरभ्य क्रमश: आभीर-त्रैकूटक-मौर्य-चालुक्य-राष्ट्रकूट-शिलाहार-यादवराजानां च आधिपत्यमासीत् । शिलाहारराजानाम् आधिपत्ये वाळकेश्वरमन्दिरस्य स्थापना जाता इति जना: मन्यन्ते । यादवानां समनन्तरं २५ वर्षेभ्य: एव मुम्बईपरिसरे हिन्दुसाम्राज्यस्यान्त: जात: । कोळी इति अत्रस्था: मूलजना: आसन् । मच्छगाव इदानीन्तन माझगाव, कोळघाट इदानीन्तन कुलाबा, माण्डवी, माहीम, शीव इत्येतेषु स्थानेषु ’कोळीवाडे’ मत्स्यव्यवसायिकानां निवासस्थानानि आसन् । कोळीजनै: सह आगरी, भण्डारी, माध्यन्दिनी-ब्राह्मणजना: अत्रस्था: पुरातनजना: । यादवानां कालखण्डे अत्र मत्स्यव्यवसाय:, कृषि:, लवणोत्पादनं च प्रचलत् आसीत् । पञ्चदशे शतके अत्र गुजरात-सुलतान इत्यस्य आधिपत्यमासीत् । साष्टी द्वीपे अभवत् युद्धम् इतिहासे प्रसिद्धम् । तस्मिन् युद्धे पुर्तगालप्रशासका: अपि भागम् ऊढवन्त: । तदा षोडश-शतके मुम्बई, वसई च पुर्तगाल-आधिपत्ये निर्गते । अस्मिन् काले क्रैस्तधर्मप्रसार:, चर्च इत्येतानां वास्तूनां निर्माणं जातम् । सप्तदशशतकस्य प्रारम्भे आङ्ग्लजनानाम् आगमनमत्राभवत्, डचप्रशासकानां साहाय्येन आङ्ग्ला: मुम्बईप्रदेशं जेतुं इच्छां धृतवन्त: । एकवारं मुम्बईप्रदेशं लुण्ठितवन्त: अपि । अन्ते आङ्ग्लराजा द्वितीय चार्ल्स इत्येतस्य पुर्तगाल-राजकन्यया केथरिन इत्यनया सह विवाह: जात: । तस्मिन् प्रसङ्गे उपहारत्वेन मुम्बईनगरं आङ्ग्लराजाय दत्तवन्त: पुर्तगाल प्रशासका: ।
जेराल्ड आञ्जिअर(१६७२) इत्यनेन अत्र बहु सुधारणाकार्यं कृतम् । जेराल्ड इत्यनेनैव सप्तद्वीपानां योजनेन एकसन्धपरिसरः निर्मापितः । द्वीपेषु गोलनजी हिल्स(परळ), शिव इत्यत्र कोट:, कान्हेरी लयनानि इत्येतेषां स्तरा: दृश्यन्ते । आङ्ग्लप्रशासनेऽपि बहुवारं हस्तान्तरणम् अभवत् । अष्टादशशतके मराठाप्रशासनाधिपत्ये मुम्बई स्थैर्यम् अलभत् । परं १८१८ तमे वर्षे पेशवे-सत्ताधीशानां पराभवं कृत्वा आङ्ग्लप्रशासनेन आधिपत्यं संस्थापितम् । तदा 'बोम्बे प्रेसिडेन्सि' इति राज्यस्य स्थापना कृता । १८५७ तमे वर्षे आभारतं चलत्-स्वातन्त्र्य-सङ्ग्रामस्य प्रभाव: मुम्बईनगरे किञ्चिदिव आसीत् । १८५७ तमे वर्षे मुम्बई विद्यापीठस्य स्थापना जाता तत: शैक्षणिककेन्द्रत्वेन नगरस्य विकास: प्रारब्ध: । १८६५ तमे वर्षे मुम्बई-नगरपालिकाया: स्थापना कृता । अस्मिन्नेव कालखण्डे जलनिर्गमयोजना, व्यापारकेन्द्रं, रञ्जनकेन्द्रं, रक्षकदलः, न्यायव्यवस्था इत्येतेषां पुनर्रचना कृता । वस्त्रोद्यमा:, धूमशकटमार्गाश्च आरब्धा: । बहूनां प्रसिद्धानां वास्तूनां निर्माणकार्यमपि तदानीमेव जातम्, यथा - जे.जे.स्कूल औफ़् आर्ट्स्, पुरातन-सचिवालय:, मुम्बई-विद्यापीठ-वास्तु इत्यादय: । १९४७ तमे वर्षे स्वतन्त्र-भारतदेशे 'बोम्बे प्रेसिडेन्सि' इति राज्यस्य विलीनिकरणं जातम् । १९६० तमे वर्षे महाराष्ट्रराज्ये मुम्बई-नगरस्य समावेश: जात: । एवं बहुपुरातन: समृद्धश्च इतिहास: मुम्बईनगरस्य ।

भौगोलिकम्[सम्पादयतु]

मुम्बई नगरस्य विस्तार: ६०३ कि.मी. मित: अस्ति । नगरस्य पश्चिम-दक्षिण-आग्नेय-भागेषु सागरतट: अस्ति, ईशान्यदिशि ठाणेमण्डलमस्ति । इदानीमपि द्वीप-योजनस्य चिह्नानि दृश्यन्ते । मुम्बईनगरं सागरतटे अस्ति अत: साधारणतया उष्णम्, आर्द्रं च वातावरणम् अत्र भवति । जून मासत: सप्टेम्बर मासपर्यन्तं नैऋत्य-मान्सून-वायुना वृष्टिपात: भवति । १८० से.मी. वार्षिकवृष्टिपातः भवति । नगरेऽस्मिन् नारिकेल:-‘ताड’-आम्रफलं-तिन्त्रिणी-वट-वृक्षा: अधिका: सन्ति ।

प्रशासनम्[सम्पादयतु]

१९९० तमे वर्षे प्रशासनसौकर्यार्थं मुम्बईनगरस्य मण्डलद्वये विभाजनं जातम् । मुम्बईमण्डलं, मुम्बई-उपनगर-मण्डलं च इत्येतौ विभागौ स्त: । तथापि सामान्यत: मुम्बई नगरस्य केचन विभागा: भवन्ति । ते यथा - 'फोर्ट', बाजार इति क्रयविक्रयणकेन्द्रं, परळ-भायखळाविभागे धनिकानां निवासस्थानानि, 'बन्दर' नौकास्थानकविभाग:, मध्यमवर्गीयजनानां निवासस्थलं, उपनगराणि च ।

विशिष्टम्[सम्पादयतु]

आधुनिकभारतनिर्माणे मुम्बई नगरस्य सहभाग: महत्वपूर्ण: । नैकानां राजकीय-सामाजिक-सांस्कृतिक-आर्थिकान्दोलनानाम् आरम्भस्थलमिदम् । 'रॉयल एशियाटिक सोसायटी'(१८०५), 'स्ट्यूडन्ट्स लिटररी एण्ड सायण्टिफिक सोसायटी'(१८४८), 'सर जे. जे. स्कूल ऑफ आर्ट'(१८५७), 'प्रार्थना समाज:' (१८६७), 'आर्य समाज:' (१८७५), 'थिऑसॉफिकल सोसायटी'(१८७५), 'भारतीय राष्ट्रीय काङ्ग्रेस' (इण्डियन नेशनल काङ्ग्रेस) इत्यस्य प्रथमम् अधिवेशनं(१८८५), 'कामगार चळवळ'- कर्मकराणाम् आन्दोलनम्(१८८५), 'भारत छोडो आन्दोलनम्'(१९४२) इत्येतासां घटनानां प्रमुखस्थानमासीत् मुम्बई नगरम् । मुम्बई नगरे नैके राजकीय नेतारः, उद्योगपतयः, सामाजिक कार्यकर्तार:, विद्वज्जना: संशोधका:, लेखका:, कलावन्त: च आसन्, सन्त्यपि । तेषां जन्म वा कार्यस्थलमस्ति नगरमिदम् । सांस्कृतिकदृष्ट्याऽपि वैविध्यपूर्णमिदं नगरम् । भाषा-धर्म-सम्प्रदाय-आर्थिकस्तरे भिन्नता अस्ति चेदपि व्यवसायकारणात् जना: अत्र आगच्छन्ति निवसन्ति च । मुम्बई नगरे तासां सर्वासां संस्कृतीनां समाहार: दृश्यते । मराठी, हिन्दी, गुजराती, आङ्ग्ल, सिन्धी, उर्दू इत्येतासु भाषासु जनाः वदन्ति । मराठी रङ्गभूमि-हिन्दीचलच्चित्रनिर्माणव्यवसाययोः(बोलिवुड्) जनाः विशेषत्वेन कार्यरताः दृश्यन्ते ।

व्यक्तिविशेषा:[सम्पादयतु]

नैकानां विभूतिनां जन्मस्थलं, कार्यस्थलं वा नगरमिदम् । यथा राजा भीमदेव, पुर्तगालप्रशासक: फ्रान्सिस् अल्मेडा, जेराल्ड आञ्जियर्, डा हाफकिन्, रुदियार्ड् किप्लिङ्ग, फिरोजशहा मेहता, दादाभाई नौरोजी, महादेव रानडे, डेविड् ससून, जगन्नाथ शङ्कर शेठ, जमशेठजी टाटा, होमी भाभा, मादाम कामा च ।

मुम्बईनगरस्य प्रेक्षणीयस्थानानि[सम्पादयतु]

'गेटवे ऑफ इण्डिया'[सम्पादयतु]

भारतस्य प्रवेशद्वारत्वात् अस्य नाम 'गेटवे ऑफ इण्डिया' इति । पूर्वं विदेशेभ्यः जनाः नौकायानेन अत्रैव आगच्छन्ति स्म । विशेषतः आङ्ग्लाः मुम्बईनगरम् आगत्य भारतदेशे कार्यप्रवृत्ताः भवन्ति स्म । अतः एव एतत् स्मारकम् अतीव विशिष्टं सञ्जातम् इति मन्यते । पीतवर्णयुक्तैः 'बेसाल्ट्' शिलाभिः एतत् महाद्वारम् 'अपोलो' नौकास्थानकसमीपे निर्मापितम् अस्ति । द्वारं परितः विशालप्राङ्गणम् अस्ति । सागरतीरसमीपे अस्मिन् स्थले प्रातः सायं च विहाराय बहवः जनाः आगच्छन्ति ।

छत्रपति-शिवाजी-महाराज-सङ्ग्रहालय:[सम्पादयतु]

अयं सङ्ग्रहालयः पूर्वम् 'प्रिन्सवेल्स् म्यूजियम्' इति नाम्ना प्रसिद्ध: आसीत् । मुम्बईनगरे कोलाबाप्रदेशे एषः वस्तुसङ्ग्रहालयः अस्ति । क्रिस्ताब्दे १९०५ तमे वर्षे पञ्चमः जोर्ज भारतम् आगतवान् । एतत्स्मरणार्थम् 'इण्डो-सार्सेनिक' शैल्या विशिष्टं भवनं निर्मापितम् आसीत् । अत्र एलिफण्टा गुहागतवास्तुकृतयः प्राच्यवस्तूनि च सङ्गृहीतानि सन्ति । गौतमबुद्धस्य अपूर्वः विग्रहः अत्र अस्ति । अत्र आवरणे ’जहाङ्गीर आर्ट ग्यालरि' नामकः कलासङ्ग्रहालयः अस्ति । अत्र कलाप्रदर्शनानि वर्तन्ते ।

फ्लोरा फौण्टन्[सम्पादयतु]

हुतात्मा चतुष्पथ: इत्यपि अस्य अपरनाम । मुम्बईनगरस्य एकं जनभरितं वाणिज्यकेन्द्रस्थानम् एतत् । क्रिस्ताब्दे १८६२ तः १८६७ पर्यन्तं बॉम्बे प्रान्तस्य अधिकारी सर् बार्टल् फ्रियर अस्य प्रशासकः आसीत् । तस्य स्मरणार्थम् अस्य निर्माणम् कृतम् । फ्लोरामूर्तेः वैभवः दर्शनीयः अस्ति ।

तारापोरवाला अक्वेरियम्[सम्पादयतु]

एषः कश्चन मत्स्यागारः । मुम्बईनगरे मरीन ड्राइव इति सागरतीरसमीपे एषः विशिष्टः मत्स्यागारः अस्ति । अत्र विविधजातीयाः वर्णमयाः मत्स्याः सङ्गृहीताः सन्ति । अत्र मीनाः उत्तमतया संरक्षिताः सन्ति ।

मलबारहिल्स्[सम्पादयतु]

मलबारहिल्स् पर्वतप्रदेशः मुम्बईनगरसमीपे अस्ति । शीतलः अयं प्रदेशः मुम्बईनगरवासिनां विहारस्थलमस्ति । वाळकेश्वर-महालक्ष्मीदेवालयौ अपि अत्रैव स्तः । मलबारपर्वताग्रे ‘हेङ्गिङ्ग गार्डन्’ क्रिस्ताब्दे १८८१ तमे वर्षे निर्मापितम् । वाळकेश्वरमन्दिरस्य स्थापना श्रीरामेण एव कृतम् इति जनानाम् अभिप्रायः । जलाशयस्य अग्रतः उद्यानं निर्मितम् अस्ति । अस्य फिरोजशाह मेहता उद्यानम् इत्यपि नाम । अत्र उद्यानवने सस्यानि प्राणिनाम् आकारैः कर्तितानि सन्ति । अधः कमलानेहरु उद्यानमपि अस्ति । एतदुद्यानं क्रिस्ताब्दे १९५२ तमे वर्षे निर्मितम् । रात्रौ मलबारहिलतः नगरदर्शनम् अतीव सुन्दरं भवति ।

विक्टोरिया गार्डन्[सम्पादयतु]

मुम्बईमहानगरे स्थितं विक्टोरिया गार्डन् वीरमाता जीजाबाई उद्यानवनम् इत्यपि प्रसिद्धम् अस्ति । अत्र सुन्दरः मृगालयः, आल्बर्ट ’म्यूसियम्’ च आकर्षणं अस्ति । वस्तुसङ्ग्रहालयस्य बाह्यप्रदेशे एलिफेण्टाद्वीपात् आनीतः बृहत्शिलागजः स्थापितः अस्ति । डा एनिबेसेन्टमार्गसमीपे नेहरू 'प्लानेटेरियम्'-ताराङ्गणम् आकर्षकम् अस्ति ।

मुंबईनगरस्य सागरतीराणि[सम्पादयतु]

मुम्बईनगरं पश्चिमसागरतीरे अस्ति । सागरतीरेषु सामान्यतः वालुकाः सन्ति । जनाः विहाराय अत्र आगच्छन्ति । राष्ट्रियनायकानां महापुरुषाणां भाषणकार्यक्रमाः अत्र भवन्ति । ’चौपाटी’ सागरतीरं वक्राकारकम् अतीवाकर्षकम् अस्ति । सायङ्काले बहुजनाः रम्यदृश्यस्य वी़क्षणार्थम् अत्र आगच्छन्ति । जुहू ’चौपाटी’ अतिप्रसिद्धम् अस्ति । ’धक्का’ प्रदेशे नौकास्थानकम् अस्ति ।


मुम्बई न केवलं महाराष्ट्रराज्यस्य राजधानी, अपि तु भारतदेशस्य वित्तराजधानी, मनोरञ्जनराजधानी च वर्तते । 'भारतीय रिजर्व बैङ्क', मुम्बई ’शेअर बाजार’, राष्ट्रीय शेअर बाजार इत्येतादृश्यः नैकाः महत्वपूर्णाः संस्थाः अत्र सन्ति । मुम्बईनगरं हिन्दीभाषायां-चलच्चित्रनिर्माणस्यापि केन्द्रम् । सञ्जय गान्धी राष्ट्रियोद्यानं, लवणक्षेत्राणि इत्यादीनि प्राकृतिकस्थलानि नगरसमीपे सन्ति । एवं समृद्धमिदम् नगरम् ।

मार्गा:[सम्पादयतु]

१. विमानमार्गा: - छत्रपति-शिवाजी-राष्ट्रिय,अन्ताराष्ट्रियविमानस्थानकम् अस्ति । सर्वेभ्य: प्रमुखविमानस्थानकेभ्य: मुम्बईनगरं प्रति विमानव्यवस्था: सन्ति । सर्वा: विमानसेवा: मुम्बईनगरं प्रति गमनार्थं सेवां यच्छन्ति ।
२. धूमशकटमार्गा: - छत्रपति-शिवाजी-’टर्मिनस्’, ’बोम्बे सेण्ट्रल्’, दादर, कल्याण इत्येनानि प्रमुखरेलस्थानकानि सन्ति । मध्य-पूर्व-पश्चिम-दक्षिणरेलयानानां स्थानकानि सन्ति । अत: कुतश्चिदपि अत्र प्राप्तुं शक्यते ।

३. भूमार्गा: - सर्वेभ्य: प्रमुखस्थलेभ्य: मुम्बई नगरं गन्तुं बसयानानि प्राप्यन्ते ।


सम्पर्कतन्तु:[सम्पादयतु]

  1. "Mayor of Mumbai". 1 January 2014. 
"http://sa.wikipedia.org/w/index.php?title=मुम्बई&oldid=268401" इत्यस्माद् पुनः प्राप्तिः