सुन्दरवनराष्ट्रीयोद्यानम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
सुन्दरवनराष्ट्रीयोद्यानम्
विश्वपरम्परास्थानानि

सुन्दरवनराष्ट्रीयोद्यानस्य कश्चनभागः
राष्ट्रम् पक्षः च भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः ९४५
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः ii, iv
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.२००४  (२८तमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

सुन्दरवनम् अथवा स्थलीयभाषया सुन्दरबन् विश्वस्य अतिविस्तृतं सम्मिश्रसामान्योन्नतवृक्षाणाम् अरण्येषु अन्यतमम् अस्ति । एतत् अन्वर्थकम् अस्ति । एतदरण्यं विशालं नयनमनोहरम् चास्ति । गङ्गानद्याः सागरमुखे शोभमानं सुन्दरवनारण्यं बाङ्ग्लादेशे भारते च व्याप्तम् अस्ति । नदीमुखजभूमौ सागरतटे विद्यमानस्य एतस्य विस्तीर्णं १०सहस्रं व.कि.मी. अस्ति । अस्य ६सहस्रं व.कि.मी. बाङ्ग्लादेशे अस्ति अवशिष्टः भागः भारते अस्ति । सा.श.१९९७तमवर्षे युनेस्कोसंस्थया एतद्वनं विश्वपरम्परास्थानमिति उद्घुष्टम् । उभयराष्ट्रयोः व्याप्तम् एतत् अरण्यम् एकमेव प्राकृतिकखण्डः चेदपि युनेस्को द्वारा भारतस्य बङ्गालस्य च विश्वपरम्परास्थानम् इति पृथक् परिगणितः । सुन्दरवनं सङ्कीर्णं सागरकुल्यायुतम् अस्ति । अपि च एतत् पङ्काङ्गणं सामान्यवृक्षाणां मिश्रारण्यं च अन्तर्गच्छति । लघुलघुद्वीपानि अत्र अधिकसङ्ख्यया सन्ति । समुद्रस्य क्षारजलमेव पिबन्तः एते वृक्षाः संवृद्धिसमर्थाः । सुन्दरवनं बङ्गालव्याघ्रस्य मूलस्थानम् । ५०० बङ्गालव्याघ्राः (रायल् बेङ्गाल् टैगर्स्) सन्तीति परिगणितम् । अपि च अत्र विविधजातीयाः मृगाः, मकराः, उरगाः, पक्षिणः च अत्र निवसन्ति ।

इतिहासः[सम्पादयतु]

मोघलवंशीयानां प्रशासनकाले (सा.श.१२०३-१५३८) राजानः अत्र सुन्दरबनस्य निर्वहणं भाटार्थं दत्तवन्तः । अयं प्रदेशः विश्वे एव प्रथमवारं वैज्ञानिकरीत्या निरूढः सामन्यवृक्षाणां मिश्रारण्यम् । सुन्दवनस्य निर्वहणं सा.श. १७५७तमवर्षे मोघलराजात् अलङ्गीरात् ईश्ट् इण्डिया इति आङ्ग्लसमवायेन भाटकर्थं स्वीकृतम् । अग्रे सा.श. १८७५-७६काले सुन्दरवनं रक्षितारण्यम् इति उद्घुष्टम्

भूरचनं परिसरः च[सम्पादयतु]

सुन्दरवनं गङ्गानद्याः मुखजभूमिः अतः अत्र अतिसङ्कीर्णपारिसरिकी व्यवस्था अस्ति । अस्य ६२%अंशः बङ्गालदेशस्य आग्नेयसागरटे अस्ति । अरण्यस्य दक्षिणदिशि गङ्गासागरः (बङ्गालकोल्ली) अस्ति । अस्य पूर्वसीमायां बालेश्वरनदी अस्ति । उत्तरे सुफलं कृषिक्षेत्रम् अस्ति । प्रमुखनदीः अतिरिच्य अन्येषु अनेकेषु निर्झरेषु जलबन्धाः निर्मिताः । अनेन जलस्य प्रवाप्रमाणः अपि कुण्ठितः । कालक्रमेण सुन्दरवनस्य विस्तारः अपि क्षयन् अस्ति । अत्र विद्यमानाः नदीकुल्याः मधुजलक्षारजलयोः सङ्गमस्थानं सन्ति । अत्र भूमिः समुद्रस्तराः ०.९मी. औन्नत्य अस्ति । सागरतटास्य भौगोलिकप्रगतिः सागरस्य तरङ्गानां चलनं, तस्य आरोहावरोहौ तीरस्य जलबलम् इत्यादिभिः अवलम्बिता भवति । सामान्यतः एते तस्य भूप्रदेशस्य क्षयं निश्चिन्वन्ति । अस्य अर्ण्यस्य वृक्षाः भूप्रदेशस्य ह्रासं नियन्त्र्यं भूस्थैर्यं रक्षन्ति । वृष्टिकाले अत्र मुखजभूमिः जलावृता भवति । अस्मिन् काले समुद्रदिशायां प्रेषितकर्दः चण्डमारुतस्य प्रक्रियया अनुप्राप्तः भवति । अनेन अस्मिन् सुन्दरवनप्रदेशे सर्वदा सुफलवती मृत् सदा समृद्धा भवति । सुन्दरवने मधुरजलस्य प्रवाहप्रमाणं कुण्ठितम् । तस्मात् वृक्षाणां प्रमाणम् अपि न्यूनं सम्भवत् अस्ति । एतस्मात् भूप्रदेशस्य क्षयः अपि सञ्जातः । क्रमेण अधिकभागः सागरे निमग्नः भविष्यति इति शङ्का अस्ति ।

सस्यवैविध्यम्[सम्पादयतु]

सुन्दरवने सामान्यतः २४५ सस्यकुलानां ३३४जातिप्रभेदाः सन्ति । सुन्दरवनम् आर्द्रयुक्तोष्णप्रदेशः इति वर्गीकृतम् । जले विद्यमनक्षारत्व परिगणय्य अरण्यं त्रिधा विभाक्तम् । सुन्दरिवृक्षाः गेवावृक्षाः च अत्र बहुधा प्ररोहन्ति । अपि डुण्डुल् काङ्क्राः वृक्षाः अपि यथेष्टं सन्ति । नैकविधस्य तृणानि तालवृक्षस्य अनेकप्रभेदाः च अत्र सन्ति । नक्षत्राङ्कितमृगानां प्रमुखः आहारः कोयोरासस्यम् अत्र अधिकप्रमाणेन रोहन्ति ।

जीविसङ्कुलम्[सम्पादयतु]

सुन्दरबनस्य प्राणिवैविध्यम् अतीव विस्तृतम् । बङ्गालस्य व्याघः डाल्फिन्मीनाः अत्र प्रसिद्धाः । अत्र नैकानि वन्यधामानि निर्मितानि । अस्मिन् प्रदेशे मृगया अरण्योत्पन्नस्य सङ्ग्रहः सम्पूर्णं निषिद्धः । अतः अत्रस्थाः जन्तवः सुरक्षिताः । अत्र ५००व्याघ्राः सन्तीति उपगतम् । विविधजातीयाः सागरकूर्माः, मानिटरगोधाः, अजगराः इत्यादयः वसन्ति ।

प्राणिगणतिकालः मृगाः रीसस् कपयः मानिटर् गोधाः वन्यसूकरः दक्षिणस्य २४विभागेषु व्याघ्रसङ्ख्या । सुन्दरवनस्य व्याघ्रसुरक्षास्थानेषु व्याघ्रसङ्ख्या ।
पुमान् स्त्रीः वत्सः आकलनम् पुमान् स्त्रीः वत्सः आकलनम् प्रायः
सा.श.१९७३ अपूर्णगणनम् । ५०+ ५०+
सा.श.१९७६ ६६ ७२ ४३ १८१ १८१
सा.श.१९७७ अज्ञातम् । २०५ २०५
सा.श.१९८३ १३७ ११५ १२ १६४ २६४
सा.श.१९८९ ३०,८८६ १२६ १०९ ३४ २६९ २६९
सा.श.१९९२ ९२ १३२ २७ २५१ २५१
सा.श.१९९३ ३०,९७८ ३७,६९१ १०,२७२ ११,८६९
सा.श.१९९६ ९५ १२६ २१ २४२ २४२
सा.श.१९९७ १३ १६ ३५ ९९ १३७ २७ २६३ २९८
सा.श.१९९९ १६ ३० ९६ १३१ २७ २५४ २८४
सा.श.२००१ १३ २६ ९३ १२९ २३ २४५ २७१
सा.श.२००४ १४ २५ ८३ १३३ ३३ २४९ २७४

बाह्यानुबन्धाः[सम्पादयतु]