कोणार्कमन्दिरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कोणार्क् सूर्यमन्दिरम्

Sun Temple, Konârak

विश्वपरम्परास्थानानि

कोणार्क् सूर्यमन्दिरम्
राष्ट्रम्  भारतम्
प्रकारः सांस्कृतिकमन्दिरम्
मानदण्डः i, iii, vi
अनुबन्धाः 246
क्षेत्रम् Asia-Pacific
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः १९८४  (अष्टम सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

कोनार्कसूर्यदेवालयः (०६७५८) बङ्गालोपसागरतीरे विद्यमानः सूर्यदेवालयः क्रिस्ताब्दस्य त्रयोदशशतके निर्मितः अस्ति । सूर्यरथः इव दॄश्यमानः विशिष्टः देवालयः एषः । १२ युगलचक्रयुतं रथं सप्ताश्वाः कर्षन्ती इव रचितम् अस्ति । ओरिस्साप्रदेशस्य राजा नरसिंहदेवः-१ एतत् रथमन्दिरं निर्मितवान् । विजयस्मारकरूपेण अस्य निर्माणं कृतवान् । पुरीजगन्नाथदेवालयः श्वेतवर्णः अस्ति । अत्र कृष्णशिलादेवालयः अस्ति । अतः 'ब्ल्याक पगोडा’ इति एतत् मन्दिरं निर्दिशन्ति ।

मन्दिरस्य आकृतिः[सम्पादयतु]

क्रिस्ताब्दे १८६८ तमे वर्षे मन्दिरस्य कश्चन भागः पतितः अस्ति । पद्माकारे भव्ये प्राङ्गणे देवालयः निर्मितः अस्ति । द्वारे गजसिंहानां शिल्पानि सन्ति । गजान् हन्तुं सिंहाः प्रवृत्ताः सन्ति इव शिल्पं रचितम् अस्ति । गोपुरं पूर्वं ७० पादोन्नतम् आसीत् । गर्भगृहे इदानीं सूर्यविग्रहः नास्ति । सहस्रशः जनाः निरन्तरकार्यं कृत्वा एतत् निर्मितवन्तः । इदानीमेतत् भग्नमन्दिरम् । अत्र शिल्पेषु युद्धवीराः, सैनिकाः, युद्धाश्वाः, जीवजन्तवः, महिलानामलङ्काराः, रतिक्रीडानिरतयुगलानां विशेषभङ्ग्यः च आकर्षकरूपेण रचिताः सन्ति । अस्य समीपे सूर्यदेवालयस्य म्यूसियम् (वस्तुसङ्ग्रहालयः) अस्ति । कोणार्कसागरतीरं सुन्दरम् अस्ति । अत्र सूर्योदयदर्शनम् आनन्दाय भवति । कोणार्कोत्सवः प्रतिवर्षं डिसेम्बरमासे प्रचलति । उत्कलराज्ये जगन्नाथपुर्यां विद्यमानम् इदं मन्दिरं सप्तभिः अश्वैः चतुर्विंशत्या मनोहरचक्रैश्च युक्तमस्ति । अश्वानाम् इमाः मूर्तयः विश्वस्य उत्कृष्टतममूर्तिषु अन्यतमाः इति मूर्तिकलाविदाम् अभिमतम् । युगयुगान्तरेभ्यः इदं मन्दिरं सुविख्यातम् । अकबरस्य प्रसिद्धमन्त्री अबुलफजलः स्वीये आइनेकबरीति ग्रन्थे अलिखत्, "अस्ति जगन्नाथपुर्याः समीपे सूर्यमन्दिरम् । कलिङ्गराजस्य द्वादशवर्षाणां राजस्वं तस्य निर्माणे व्यतितम् । दुष्प्रसाद्याः कलाविशारदाः अधुनापि तद् दृष्ट्वा विस्मयविमूढा भवन्ति । तस्य प्राचीराणाम् उच्चता सार्धशतहस्तमिता स्थूलता च नवदशहस्तमिता । तस्य त्रीणि द्वाराणि सन्ति । पूर्वद्वारे कारुकलया सम्यक् उत्कीर्णे गजमूर्ती स्तः । ते शुण्डेन एकैकं मनुष्यं धरतः । पश्चिमद्वारे सकलशस्त्रास्त्रैः सुसज्जितयोः उपरि सविक्रमं स्थितयोः सिंहयोः मूर्ती स्तः, सम्मुखे कृष्णप्रस्तरनिर्मितः अष्टकोणः, पञ्चाशद्गजोच्चः स्तम्भः वर्तते । नव सोपानानि आरुह्य शिलामयं विशालायतनं द्रष्टुं शक्यते यत्र सूर्येण सह अन्ये ग्रहाः समुत्कीर्णाः । ...सप्तशतप्रायवर्षेभ्यः प्राक् नृपः नरसिंहदेवः अस्य भव्यभवनस्य निर्माणं समापयत् इति कथ्यते..."

गर्भगृहम्

कालः[सम्पादयतु]

अबुलफजलः षोडशशतकस्य उत्तरार्धे विवरणम् इदं लिपिबद्धम् अकरोत् । यदि वयं तन्निरूपितं नरसिंहदेवस्य कालं स्वीकुर्मः तर्हि अभ्युपगन्तव्यं यत् कोणार्कनिर्माणं नवमशताब्द्यां समाप्तम् । किन्तु ऐतिहासिकाः अन्यथा चिन्तयन्ति । तेषु बहवः विश्वसन्ति यत् मन्दिरमिदं त्रयोदशशताब्द्यां निर्मितम् ।

विनाशस्य कथा[सम्पादयतु]

कोणार्कस्य मुख्यमन्दिरं भारतवर्षे उच्चतमम् आसीत् । अस्ति एका प्रचलिता कथा-मन्दिरस्य चूडायां विशालः चुम्बकखण्डः आसीत् यः पोतान् तटं प्रति आकर्षति स्म । केचित् क्रूराः, विदेशीयाः वणिजः तम् अपहृतवन्तः येन विशालं मन्दिरं विध्वस्तम् अभवत् । अपरे कथयन्ति--हिन्दुस्मृतिशिलानां विध्वंसकेन कलापाहाडेन तन्मन्दिरं विध्वंसितम् । अन्ये चिन्तयन्ति तद् भूमिकम्पेन विध्वस्तम् इति ।

विस्मयस्य कारणानि[सम्पादयतु]

आधुनिकाः वास्तुविद्याविशेषज्ञाः स्थपतयश्च विस्मयं यान्ति यत् कथम् इयन्तः विशालप्रस्तरखण्डाः दूरस्थपर्वतात् आनीय द्विशतपादोच्चतायां स्थापिताः, यतो हि तेषु केचित् द्विसहस्रटनमिताः सन्ति । अस्याः शताब्द्याः प्रथमदशके विध्वस्तमन्दिरस्य केचित् विक्षिप्तप्रस्तराः यदा स्थानान्तरं नेतव्याः अभवन् तदा तान् खण्डशः कर्तुम् आग्नेयचूर्णं प्रयुक्तम् आसीत् । कश्चिद् ऐतिहासिकः परिहासेन उक्तवान्, "यदा प्रस्तराः मन्दिरे स्थापिताः तदा ते अल्पभाराः आसन् । सप्तश्तवर्षेभ्यः नितरां वर्षाजलक्लिन्नाः ते अधुना भारिणः सञ्जाताः !"

मन्दिरनिर्माणविषयिनी कथा[सम्पादयतु]

परःशतवर्षेभ्यः पुर्वम् एकदा प्राचीनकलिङ्गसाम्राज्यस्य कस्यचित् लघुग्रामस्य उपान्ते कश्चित् स्फूर्तिमान् बालकः स्वमातरम् आपृच्छय प्रस्थानम् अकरोत् । साश्रुकपोला माता वप्रस्य पार्श्वतः वङ्किलमार्गेण तिरोभवन्तं स्वपुत्रं निर्निमेषम् अपश्यत् । बालकः अविरतम् अचलत् । कतिपय-होरानन्तरं तस्मै स्वग्रामः, तस्य मन्दिरचूडा उतुङ्गतरुशिखरावलिश्च क्षितिजे तिमिररेखा इव अदृश्यन्त । सः कदापि एकाकि तावद् दूरं न अगच्छत् । तथापि तेन दीर्घमार्गः अतिक्रमणीयः आसीत् ।

बहून् ग्रामान् पृष्ठतः परित्यज्य सः कस्याश्चित् पान्थशालायाः अलिन्दे रात्रिम् अयापयत् प्रातश्च पुनः यात्राम् आरभत । अन्ते, सम्मुखस्थ-हरिद्वनस्य सीमायां सः कस्यचित् विशालभवनस्य सूर्यदीप्तं शिखरम् अपश्यत् । हर्षेण उल्लसितं तस्य मुखमण्डलम् । अग्रे सरतः तस्य दृष्टिपथम् आगताः कार्यरताः शतशः मनुष्याः । दूरत्वात् ते पिपीलिका इव क्षुद्राः दृश्यन्ते स्म । ते एकं मन्दिरं निर्मान्ति स्म यत् देशस्य सर्वाणि मन्दिराणि आकारेण उत्कर्षेण च अतिक्रमितुं शक्नुयात् । निर्मातृषु एकतमस्य दर्शनं बालकस्य यात्रायाः उद्देश्यम् ।

अचिरं तेन स्वाभीष्टजनः लब्धः यतो हि स एव निर्मातॄणां नायकः तस्य अनुपमसौधस्य स्थपतिश्च आसीत् । विख्यातशिल्पिनः सम्मुखे तिष्ठन् रुद्धवाक्, गद्गदहृदयः बालः अश्रुधारां रोद्धुं न अशक्नोत् । किन्तु सः कथमपि स्वमात्रा प्रेषितं वस्तु शिल्पिने अददात् । स एव बालकस्य शिल्पिनश्च परमानन्दमुहूर्तः आसीत् । आश्चर्याभिभूताः शतशः जनाः बालकं चुम्बन्तम् आलिङ्गन्तं च स्वनायकम् अपश्यन् । अचिरमेव बालकः सर्वपरिचितः सञ्जातः । सर्वेऽपि कर्मिण: स्वबालातिथिम्, प्रधानस्थपते: विशुमहारणा-महोदयस्य अनन्यसुतं धर्मपदम् अभ्यनन्दन् । यदा विशुमहोदयः गृहात् प्रस्थितः तदा धर्मपदः दुग्धपोष्यः शिशुः आसीत् । द्वादश वर्षाणि व्यतीतानि । इदानीं किशोरः सः पितरं विस्मापयितुम् आगतः ।

मन्दिरस्य अपरं दृश्यम्

धर्मपदः प्रफुल्लमनसा तत् सुन्दरं स्थानं न्यरूपयत् यत्र विशालमन्दिरं निर्मीयते स्म । समुद्रस्य उत्तालतरङ्गाः मन्दिरप्राचीरं परितः सततं क्रीडन्ति स्म । उद्गतायां वेलायां मन्दिरं समुद्रेण परिवेष्ट्यते स्म । तस्य पश्चिमदिशिकलकलनादिनी, पुण्यसलिला चन्द्रभागा प्रवहति स्म । तीर्थभूतं तत् स्थानं स्मरणातीतकालात् सूर्यदेवस्य अधिष्ठानम् आसीत् । तत्त्वविदः मुनयः श्रीकृष्णस्य कालात् इमां भूमिम् अजानन् । भगवतः श्रीकृष्णस्य पुत्रः साम्बः असाध्यचर्मरोगग्रस्तः तत्र सूर्योपासनाय उपदिष्टः आसीत् । तथा कृत्वा सः रोगमुक्तः अजायत । तेन तत् स्थानं सुविख्यातम् अभवत् । तत्र निर्मीयमाणं भव्यमन्दिरं सूर्यदेवाय निवेदनीयम् आसीत् । प्रतापशाली, दूरदर्शी कलिङ्गाधिपतिः नरसिंहदेवः स्वराज्यस्य सर्वभागेभ्यः द्विशताधिकं सहस्रं सुदक्षान् स्थपतीन्, शिल्पिनः तक्षकान् च आहूय मन्दिरस्य निर्माणे न्ययोजयत् । सः स्वस्य निपुणं मन्त्रिणं शिवेई-सामन्तरायम् अस्य कार्यस्य पर्यवेक्षकम् अकरोत् । किशोरस्य धर्मपदस्य सम्मुखे स्वपितुः तस्य समर्थसहायकानां च भव्यकृतिः विराजते स्म । केवलं मन्दिरस्य चूडा प्रतिष्ठापनीया आसीत् ।

बालवयसि धर्मपदः विद्याभ्यासम् अकरोत् । गृहे पित्रा त्यक्तान् तालपत्रग्रन्थान् सः सुगभीरम् अपठत् । ते ग्रन्थाः सौधनिर्माणकलाविज्ञानस्य आधारभूता आसन् । धर्मपदः बहून् सिद्धान्तान् अजानात् । सः विशालमन्दिरे अनेक-जटिल-सिद्धान्तान् कार्यान्वितान् दृष्ट्वा पुलकितः अभवत् । दर्शनेन उत्फुल्लोऽपि सः तत्र वर्तमानां कामपि विषादच्छायाम् अन्वभवत् । द्वादशवर्षमिते अविश्रान्तपरिश्रमे समाप्तप्राये यैः स्थपतिभिः प्रफुल्लितैः भाव्यं ते विषण्णाः अदृश्यन्त । तेषां विषादस्य कारणं सः स्वपितरम् अपृच्छत् । विशुमहारणा प्रथमम् अस्मिन् विषये किमपि वदितुम् अनिच्छन् अपि आत्मानम् अधिककालं नियन्त्रयितुं न अशक्नोत् । सः भग्नहृदयेन अवदत्, "वत्स, विकटं सङ्कटमेकम् अस्मासु आपतितम् । मन्दिरस्य चूडाप्रतिष्ठायाः समस्या सा । तां समाधातुम् अनेकदिवसेभ्यः प्रयतमानाः अपि वयम् असफलाः । तेन विमूढा वयम् आत्मानं कुशलशिल्पिनं कीर्तयन्तः लज्जामहे । "किञ्च, क्षते क्षारमिव, राज्ञा वयम् आज्ञप्ताः आगामि-सूर्योदयात् पूर्वम् इदं कार्यं सम्पादयितुम् अशक्तानां युष्माकं वधः सुनिश्चितः इति ।"

तदा प्रदोषः पदं करोति स्म । तथापि मन्दिरम् अस्तमितसूर्यस्य सुखद-मरीचि-मालया सुशोभितम् आसीत् । अचिरात् उदधिगर्मात् निर्गतेन पूर्णचन्द्रेण निखिलं जगत् आह्लादितम् अभवत् । समस्यासमाधानाय सभासदने समवेतानां स्थपतीनाम् अलक्षितः धर्मपदः मन्दिरम् आरोहत् । शिखरस्य स्थितिं निरूप्य सः समस्यां पर्यालोचयत् । सहसा स्फुरितं किमपि समाधानम् । तदानीं तस्य मनसि सकलसिद्धान्ताः प्रत्यग्राः आसन् । बहुवर्षव्यापि-कठिनश्रमकारणात् मन्ये तस्य पितुः अन्येषां च परिश्रान्त-मनःसु तत् समाधानं न स्फुरितम् ।

कोणार्क् सूर्यमन्दिरस्य चक्रम्

धर्मपदः आगत्य सभाकक्षं प्राविशत् । सः सविनयं स्वमतं गुरुजनेभ्यः न्यवेदयत् । तस्य समाधानं समीचीनम् इति ते सपदि अवाबोधन् । आनन्दोल्लासभरितेषु तेषु केचन मन्दिरम् आरुह्य धर्मपदस्य निर्देशानुसारेण शिखरकिरीटं यथास्थानम् अस्थापयन् । अनेन धर्मपदः नायकः सञ्जातः । मन्दिरात् अवतीर्णं तम् सर्वे आनन्दातिशयेन अभ्यनन्दन् भूरि भूरि प्राशंसन् च ।

किन्तु प्रत्येकयुगे परेषां साफल्ये ईर्षापरायणाः भवन्ति केचन । अचिरं धर्मपदः कांश्चित् जनान् एवं वदतः अशृणोत्, "द्वादशशतं कुशलस्थपतयः यत् कर्तुम् अशक्ताः तत् कोऽपि बालकः अकरोत् इति श्रुत्वा राजा किं कथयेत् ? एषः धर्मपदः अस्माकं कीर्तिं कलङ्कयिष्यति !" धर्मपदः मर्माहतः अभवत् । निर्जनस्थानं गत्वा सः अचिन्तयत्, "अहम् एषां प्रख्यातकर्मिणां कीर्तौ अन्तरायः भवितुं न इच्छामि । यदा सर्वे सुप्ताः चन्द्रश्च पूर्णप्रभया शोभते स्म तदा सः किरीटशोभितं मन्दिरशिखरं पुनः आरोहत् । उद्वेलसमुद्रस्य स्वर्णभतरङ्गाः मन्दिरं परितः उन्मत्तवत् नृत्यन्ति स्म । धर्मपदः अधः स्वपतः जनान् पश्यन् प्रार्थयत भवतां कीर्तिः चिरभास्वरा तिष्ठेत् इति । ततः सः ऊनसप्ततिमानोच्चतायाः आत्मानम् अधः समुद्रे न्यक्षिपत् ।

परेद्युः प्रभाते राजा शिखरकिरीटं दृष्ट्वा प्रसन्नः अभवत् । सः सर्वान् स्थपतीन् अभ्यनन्दत् । विशुमहारणा हृदये वेदनां नियम्य मौनम् अधारयत् । सेयं शर्मपदस्य कथा । कोणार्कमन्दिरस्य उद्यापनकर्मणि धर्मपदस्य उदारा दुःखदा च भूमिका अचिरं प्रकाशम् आगता अधुनावधि च न विस्मृता ।

विगतानि शरदां शतानि । उत्कलप्रदेशस्य निर्जनसमुद्रप्रान्ते कोणार्कस्य भग्नावशेषः साम्प्रतम् अपि विश्वस्य आश्चर्यजनकवस्तुषु परिगण्यते । सूर्यमूर्तिः विलुप्ता अधुना । मुख्यं मन्दिरम् अपि सम्पूर्णतया विध्वस्तम् । केवलम् अवर्णनीय-सुषमामण्डिता मुखशाला अवशिष्टा । इतः पूर्वं प्रस्तराः शिल्पिनां भावम् इत्थं सुभव्यं कदापि न प्राकाशयन् । कोणार्कस्थः सूर्यदेवालयः ओरिस्साराज्यस्य सुप्रसिद्धः कोणार्कदेवालयः १३ शतके निर्मितः । अयं अद्वितीयः सूर्यदेवालयः । अस्माकं देशे विद्यमानेषु उन्नतेषु देवालयेषु कोणार्क देवालयोऽपि अन्यतमः । एतस्य प्रवेशद्वारे स्थितानि सोपानानि उभयतः अश्वानां शिल्पानि निर्मितानि सन्ति । अयं देवालयः रथस्य आकारेण निर्मितः अस्ति । सूर्यनारायणः सप्ताश्चान् संयोज्य रथेन आकाशमार्गेण सञ्चररि इति अस्माकं पुराणानि वदन्ति । गङ्गवंशस्य राजा नरसिंगदेवराजः एतं देवालयं निर्मपितवान् । १२०० सिल्पिनः १६ वर्षाणि यावत् निरन्तरं कार्यं कृत्वा एतां देवालयं निर्मितवन्तः इति श्रूयते । अस्य् निर्माणार्थं ४० कोटिरुप्यकाणि व्ययितानि सन्ति । कोणार्कदेवालयस्य शिल्पानि अद्यापि द्रष्ट्टुणां ह्रुदयानि अपह्रन्ति । रमणीयैः अओडिस्सिनाट्यभङ्गिभिः, कलाविदां पदविन्यासैः च् अयुक्तानि सूर्यदेवालये विद्यमानानि शोल्पानि सहृदयानां प्रेक्षकाणां नेत्रयोः पुरतः अद्यापि नृत्यन्ति ।

मार्गः[सम्पादयतु]

भुवनेश्वरतः ६५ कि.मी. । पुरीतः ३५ कि.मी पिप्पलीतः ८५ कि.मी ।

विशेषावलोकनम्[सम्पादयतु]

भारतस्य सूर्यमन्दिराणि

External links[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=कोणार्कमन्दिरम्&oldid=271563" इत्यस्माद् पुनः प्राप्तिः