भारतस्य सूर्यमन्दिराणि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

उन्नावस्य सूर्यदेवालयस्य नाम बह्यन्यदेवमन्दिरम् इति । एतत् भारतस्य मध्यप्रदेशराज्यस्य उन्नाव इति ग्रामे अस्ति । अस्मिन् मन्दिरे भगवतः सूर्यस्य शिलामूर्तिः इष्टिकापीठे विराजते । २१कलानां प्रातिनिधिकरूपेण २१त्रिकोणाकारस्य सूर्यस्य मन्दिरं निर्मितम् अस्ति ।

अन्तर्विषयाः

उलार्कसूर्यमदिर[सम्पादयतु]

उलार्कस्य सूर्यमन्दिरम् इदानीम् उलार इति नाम्ना प्रसिद्धम् अस्ति । भगवतः कृष्णस्य वंशजः साम्बः कुष्टरोगेण पीडितः मुक्तिप्राप्तये भारतदेशस्य १२ स्थानेषु भव्यानि सूर्यमन्दिराणि निर्मीय सूर्याराधनं कृतवान् । अनेन साम्बस्य कुष्ठव्याधिः निवृत्तः इति लोकाः वदन्ति । तादृशेषु १२सूर्यमन्दिरेषु उलारसूर्यमन्दिरम् अन्यतमम् । देवार्कः, लोलार्कः, पूण्यार्कः, औंगार्कः, कोणार्कः, चाणार्कः च अन्यमन्दिराणि । पालकालीना अत्रत्या मूर्तिः कृष्णशिलया निर्मिता । पूर्वम् आक्रमणशीलाः मोघल् सुल्तानाः यथा देशे मन्दिरभञ्जनं कृतवन्तः तथैव एतन्मन्दिरमपि आक्रम्य क्षतिं कृतवन्तः । कालन्तरेण भरतपुरस्य नृपस्य वंशजाः पौराणिकमन्द्रिराणां जीर्णोद्धारावसरे अस्य विषये अपि वार्तालापं कृतवन्तः इति लोकवादः । स्वामी अलबेला बाबा इति कश्चित् सन्न्यासी क्रि.श. १८५२तः १८५४कालांशे उलार्कनगरम् आगत्य जनसहयोगेन मन्दिरस्य जीर्णोद्धारं कारितवान् । अत्र उत्खननकाले शिवस्य पार्वत्यः गणेशस्य चेत्यादीनां देवतानां दशाधिकाः भग्नमूर्तयः पालकालीनाः अतिविरलशिल्पाकृतयः च प्राप्ताः । अस्मिन् उलारसूर्यमन्दिरे नेटुवा इति जातीयानां नर्तनस्य प्रथा इदानीमपि प्रचलति इति अस्य मन्दिरस्य वैशिष्ट्यम् । महिलाः स्वावगुण्ठनं भूमौ विस्तारयन्ति तेषु नेटुवाजनाः वाद्यं वादयन्तः नर्तनं कुर्वन्ति । अनेन सूर्यदेवः प्रसन्नः भवति इति स्थलीयभक्तानां विश्वासः । अत्र स्थलीयभक्तान् अतिरिच्य दूरदूरादपि नैके श्रद्धायुतमहिलाः आगत्य विशेषरूपेण पूजां कुर्वन्ति । वर्षे एकवारं महामेला अपि सम्भवति ।

मोडेरा सूर्यमन्दिरम्[सम्पादयतु]

मोदेरासूर्यमन्दिरम् भारतस्य गुजरातराज्यस्य पाटण इति प्रदेशतः ३०कि.मी. दूरे दक्षिणदिशि मोडेरा इति ग्रामः अस्ति । तत्र अयं मोडेरासूर्यदेवालयः अस्ति । एतत् सूर्यमन्दिरं स्थापत्यकलायः शिल्पकलायाः च विशिष्टं संयोजनम् । क्रि.शा. १०२३तमवर्षे सोलङ्कीवंशस्य राजा प्रथमः भीमदेवः एतन्मन्दिरस्य निर्माणं कृतवान् । वर्तमाने काले अस्मिन् मन्दिरे पूजा निषिद्धा अस्ति ।

रणकपुरस्य सूर्यमदिरम्[सम्पादयतु]

रणकपुरस्य सूर्यमन्दिरं भारतस्य राजस्थानराज्यस्य रणकपुरम् इति स्थाने शोभते । नागशैल्या श्वेतामृतशिलया निर्मितम् अस्ति । भारतीयवास्तुकलायाः अनुपमः दृष्टान्तः अयं सूर्यदेवालयः । जैनमतीयैः निर्मितम् एतन्मन्दिरम् उअदयपुरतः ९८कि.मी. दूरे अस्ति ।

सूर्यपहरमन्दिरम्[सम्पादयतु]

सूर्यपहरमन्दिरं भारतस्य असमराज्यस्य गुवाहटीसमीपस्य गोलपाडा इति स्थाने सूर्यपहरः इति पर्वते एतत् सूयमन्दिरम् अस्ति । भगवन्तं सूर्यम् अतिरिच्य अत्र नवशिवलिङ्गानि अपि सन्ति ।

दक्षिणार्कसूर्यमन्दिरम्[सम्पादयतु]

दक्षिणार्कः अथवा दक्षिणारका सूर्यमन्दिरं भारतस्य, बिहारराज्यस्य गयामण्डले अस्ति । सावित्रीदेव्यै समर्पिते एतन्मन्दिरे अनेकदेवीनां प्रतिमाः अपि सन्ति । अस्य मन्दिरस्य निर्माणं मौर्याणां राज्ञः चन्द्रगुप्तमौर्यस्य जन्मनः पूर्वमेव अभवत् ।

देवसूर्यमन्दिरम्[सम्पादयतु]

देवसूर्यमन्दिरं भारतस्य, बिहारराज्यस्य औरङ्गाबादमण्डले स्थितम् । अन्यसूर्यमन्दिराणि पूर्वाभिमुखानि सन्ति किन्तु एतन्मन्दिरं पश्चिमाभिमुखमस्तीति विशेषः । अयं देवालयः अनुपमशिल्पकलया प्रसिद्धः अस्ति । शिलाः उत्कीर्य निर्मितस्य मन्दिरस्य सूक्ष्मशिल्पविन्यासाः आदर्शाः सन्ति । अत्र षष्ट्युत्सवकाले अत्र महान् भक्तसम्मर्दः भवति ।

मन्दिरस्य निर्माणम्[सम्पादयतु]

प्रचलितविश्वासानुगुणम् अस्य मन्दिरस्य निर्माणं विश्वकर्मा कृतवान् । अस्य मन्दिरस्य बहिर्भागे लिखितसंस्कृतश्लोकानुणं १२-१६लक्षवर्षेभ्यः पूर्वं त्रेतायुगस्य समाप्तेः पश्चात् राजा इलापुत्रः पुरूरवः अस्य मन्दिरस्य निर्माणम् आरब्धवान् इति ज्ञायते । शिलाभिलेखेन ज्ञायते यत् क्रि.पू. २००७तमे वर्षे अस्य मन्दिरस्य निर्माणं पञ्चाषदुत्तरद्विलक्षवर्षेभ्यः पूर्वमेव अभवत् इति । पुरातत्त्वविभागः अस्य मन्दिरस्य निर्माणम् अष्टमनवमशतकस्य मध्यभागे अभवत् इति विश्वसिति ।

स्थापत्यम्[सम्पादयतु]

अस्य सूर्यमन्दिरस्य शिलासु कलशानां विजयचिह्नानि सन्ति । अस्य निर्माता शिल्पकावित् एतत् सूर्यमन्दिरं निर्मीय एव शिल्पकलायां विजयं प्राप्तवान् इति अनेन ज्ञायते । देवसूर्यमन्दिरस्य स्थापत्येन एतत् प्रतीयते यत् मन्दिरस्य निर्माणे ओडिसानागरशैल्याः समायोजनम् अस्ति इति । सूक्ष्मशिल्पकलाविन्यस्तशिलाः दृष्ट्वा पुरातत्त्वविभागस्य जनाः अस्य मन्दिरस्य निर्माणे नागरस्य द्रविडस्य च सम्मिश्रशैली अस्ति इति वदन्ति ।

प्रतिमाः[सम्पादयतु]

मन्दिरस्य प्राङ्गणे सप्ताश्वैः सहित्यस्य सूर्यरथस्य प्रस्तरोत्कीर्णाः सूर्यस्य उदयाचलस्य मध्याचलस्य अस्ताचलस्य च मूर्तयः शोभन्ते । अनेन सह अद्भुतशिल्पकलाविन्यस्ताः दशाधिकाः मूर्तयः सन्ति । मन्दिरे शिवस्य ऊरौ उपविष्टाः पार्वत्याः प्रतिमा राजते । सामान्यतः अन्येषु सर्वमन्द्रिरेषु शिवलिङ्गानां पूजा भवति । किन्तु अत्र शिवपार्वत्योः मूर्तिरूपदर्शनं शक्यते । एतदेव यात्रिकानां विशेषाकर्णम् ।

मन्दिरस्य स्वरूपम्[सम्पादयतु]

मन्दिरस्य अस्य शिल्पशैली ओडिशायाः कोणार्कदेवालयस्य शिलीसदृशी अस्ति । देवसूर्यमन्दिरम् उद्याने निर्मितम् अस्ति । गर्भगृहस्य उपरि कमलाकारेण सुवर्णकलशान्तं शिखरं निर्मितम् । अन्यस्मिन् भागे मुखमण्डपे शङ्क्वाकारेण चालः निर्मितः। चालस्य आधारभूताः सुन्दरशिल्पविन्यस्ताः स्तम्भाः। सर्वसनातनधर्मस्य मन्दिराणां विरुद्धं पूर्वाभिमुखं देवसूर्यमन्दिर अस्ति । अतः अत्र भक्तानां मनोकामनाः पूर्णाः भवन्ति इति भावेन अधिकाः श्रद्धालवः अत्र आगच्छन्ति ।

औङ्गारीसूर्यमन्दिरम्[सम्पादयतु]

औङ्गारीसूर्यमन्दिरस्य निर्माणं क्रिस्तपूर्वे तृतीयशतके अभवत् । भारतस्य, बिहारराज्यस्य नालन्दामण्डले औङ्गारीनामके स्थाने एतत् मन्दिरं शोभते । सुन्दरस्य सरसः तटे स्थितः अयं सूर्यदेवालयः बिहारस्य कलासंस्कृतेः परिचयात्मकः अस्ति । अत्र भक्ताः स्वमनोकामनायाः पूर्णार्थे विशेषमुद्रायां सूर्यभगवते अर्घ्यं समर्पयन्ति ।

बेलार्कसूर्यमन्दिरम्[सम्पादयतु]

बेलार्कसूर्यमन्दिरं राजा सूबा निर्मितवान् । पश्चात् बेलावूरग्रामे ५२ सरांसि निर्मितवान् राजा द्विपञ्चाशत् सरसः राजा इत्येव सम्बोधयन्ति स्म । भारतस्य, बिहारराज्यस्य भोजपुरमण्डले बेलावूरग्रामे वायव्यदिशि एतत् मन्दिरं शोभते । षष्ठीमहपर्वणि अत्र प्रतिवर्षं लक्षाधिकाः भक्ताः आगत्य सूर्यमाराधयन्ति । एतेषु उत्तरप्रदेशराज्यस्य, मध्यप्रदेशराज्यस्य च श्रद्धालवः अधिकाः भवन्ति । अत्र शुद्धमनसा षष्ठिव्रतं ये आचारन्ति तेषां मनोकामनाः पूर्णिताः भवन्ति इति साधकानां दृढविश्वासः अस्ति । अपि च अत्र सूर्योपसनेन नैके रोगाः निवृत्ताः भवन्ति इति भक्तभावः ।

हण्डियासूर्यमन्दिरम्[सम्पादयतु]

भारतस्य, बिहारराज्यस्य नवादामण्डले नारदीगञ्जोपमण्डलस्य हण्डियाग्रामे सूर्यनारायणधाम इति प्राचीनसूर्यमन्दिरम् अस्ति । प्राचीनलोकानाम् आस्थायाः प्रतीकत्वेन एतत् मन्दिरम् अस्ति । मन्दिरस्य परिसरे उत्खननेन शिलासु रथचलनचिह्नानि प्राप्तानि । अत्र एषः विश्वासः यत् एतत् मन्दिरं द्वापरयुगेन सह सम्बद्धम् इति । मन्दिरस्य समीपं किञ्चित् सुन्दरं सरः अस्ति । अस्मिन् जले स्नानेन कुष्टरोतात् मुक्तिः मिलति इति विश्वासः अस्ति । अनेकसङ्ख्याकाः भक्ताः प्रत्येकं रविवासरे अत्रागत्य पुण्यस्नानं कृत्वा सूर्योपासनां कुर्वन्ति ।

गयासूर्यमन्दिरम्[सम्पादयतु]

भारतस्य, बिहारराज्यस्य गयानगरस्य प्रसिद्धविष्णुपदमन्दिरात् २०कि.मी. दूरे उत्तरभागे रेल्वेनिस्थानस्य ३कि.मी. दूरे गयासूर्यमन्दिरम् अस्ति । दीपावल्याः षड्दिनानां पश्चात् बिहारस्य षष्ठ्युत्सवावसरे अत्र तीर्थयात्रार्थीनां महासम्मर्दः भवति । अस्मिन् काले अत्र मेला अपि प्रचलति ।

रहलीसूर्यमन्दिरम्[सम्पादयतु]

रहलीसागरमण्डलस्य आग्नेयदिशायां ४५कि.मी.दूरे सुनारनद्याः देहारनद्याः च सङ्गमस्थाने अयं सूर्यदेवालयः अस्ति । बुन्देलखण्डे प्राचीनमन्दिराणि सामूकरूपेण भवन्ति । रहली अपि अपवादः न अत्रापि देवालयसमूहः अस्ति । सूर्यमन्दिरं परितः सुन्दराणि मन्दिराणि सन्ति । एतस्मात् २कि.मी. दूरे पण्डलपुरे २५०वर्षपुरातनं पण्डरीनाथस्य मन्दिरम् । इतः ५कि.मी.दूरे गोपालपुरे टिकीटोरिया मन्दिरम् अस्ति । वास्तुकलायाः दृष्टौ रहलीसूर्यमन्दिरम् एकमात्रं महत्वपूर्णं भवति ।

झालावाडस्य सूर्यमन्दिरम्[सम्पादयतु]

झालवाडस्य यमलनगरं झालरापाटन इति नगरस्य घट्टानां नगरम् इति कथयन्ति । नगरस्य मध्ये स्थितं सूर्यमन्दिरं झलरापाटन नगरस्य दर्शनीयं स्थानम् । बास्तुकलायाः दृष्टौ एतत् मन्दिरं विशिष्टम् अस्ति । अस्य निर्माणं दशमशतके मालवानां परमारवंशीयाः राजानः कारितवन्तः । मन्दिरस्य गृर्भगृहे भगवतः विष्णोः प्रतिमा विराजमाना अस्ति । एतस्य पद्मनाभमन्दिरम् इति नाम ।

राञ्चीसूर्यमन्दिरम्[सम्पादयतु]

रञ्चीतः ३९कि.मी. दूरे राञ्चीटाटायोः मध्यमार्गं बुण्डूसमीपे सूर्यमन्दिरम् अस्ति । अमृतशिलारचितस्य अस्य मन्दिरस्य निर्माणं १८सोपानानां ७अश्वानां रथे विद्यमानः भगवातः सूर्यस्य प्रतिमा शोभते । जनवरी मासस्य २५दिनाङ्के टुसू मेलायाः अवसरे अत्र विशेषमेला आयोजिता भवति । श्रद्धालूनां विश्रान्तिनिमित्तं काचित् धर्मशालायाः निर्माणम् अभवत् ।

जम्मूसूर्यमन्दिरम्[सम्पादयतु]

दक्षिणकाश्मीरस्य मार्तण्डस्य प्रसिद्धसूर्यमन्दिरस्य प्रतिरूपं सूर्यमन्दिरं जम्मू नगरे अपि निर्मितम् । वसन्तनगरस्य पालौरा इति स्थाने स्थितस्य मन्दिरस्य परिसरे अधिकसङ्ख्याकाः यात्रिकाः सम्मिलनन्ति । मार्ताण्डविश्वस्थमण्डल्याः अध्यक्षः कुमारः सिद्धानुसारं मन्दिरं प्रधानतया भागत्रये निर्मितमस्ति । प्रथमभागे भगवान् सूर्यः रथारूढः रथं सप्ताश्वाः कर्षन्तः सन्ति । द्वितीये भागे दुर्गायाः, गणेशस्य कार्तिकेयस्य पार्वत्याः शिवस्य च प्रतिमाः सन्ति । अपि च तृतीये भागे यज्ञशाला व्यवस्थिता । सनातनधर्मस्य विश्वासानुगुणं मार्तण्डमहर्षेः तृतीयपुत्रस्य जन्मस्थानमेतत् ।

कश्मीरस्य मार्तण्डमन्दिरम्[सम्पादयतु]

मार्तण्डमन्दिरं भारतस्य, जम्मुकाश्मीरस्य दक्षिणभागे अनन्तनाग इति स्थानस्य पहलगाम इति ग्रामे मार्तण्डनामकं स्थाने अस्ति । अस्य मन्दिरस्य पार्श्वे एकं महत् सरः अस्ति यस्मिन् असङ्ख्याः मीनाः सन्ति । अस्य निर्माणं सामान्यतः क्रि.श. ४९०-५५५वर्षमध्ये अभवत् ।

गर्भगृहम्

कोणार्कमन्दिरम्[सम्पादयतु]

मन्दिरस्य आकृतिः[सम्पादयतु]

ओरिस्साराज्ये जगन्नाथपुर्यां विद्यमानम् इदं मन्दिरं सप्तभिः अश्वैः चतुर्विंशत्या मनोहरचक्रैश्च युक्तमस्ति । अश्वानाम् इमाः मूर्तयः विश्वस्य उत्कृष्टतममूर्तिषु अन्यतमाः इति मूर्तिकलाविदाम् अभिमतम् । युगयुगान्तरेभ्यः इदं मन्दिरं सुविख्यातम् । अकबरस्य प्रसिद्धमन्त्री अबुलफजलः स्वीये आइनेकबरीति ग्रन्थे अलिखत्, "अस्ति जगन्नाथपुर्याः समीपे सूर्यमन्दिरम् । कलिङ्गराजस्य द्वादशवर्षाणां राजस्वं तस्य निर्माणे व्यतितम् । दुष्प्रसाद्याः कलाविशारदाः अधुनापि तद् दृष्ट्वा विस्मयविमूढा भवन्ति । तस्य प्राचीराणाम् उच्चता सार्धशतहस्तमिता स्थूलता च नवदशहस्तमिता । तस्य त्रीणि द्वाराणि सन्ति । पूर्वद्वारे कारुकलया सम्यक् उत्कीर्णे गजमूर्ती स्तः । ते शुण्डेन एकैकं मनुष्यं धरतः । पश्चिमद्वारे सकलशस्त्रास्त्रैः सुसज्जितयोः उपरि सविक्रमं स्थितयोः सिंहयोः मूर्ती स्तः, सम्मुखे कृष्णप्रस्तरनिर्मितः अष्टकोणः, पञ्चाशद्गजोच्चः स्तम्भः वर्तते । नव सोपानानि आरुह्य शिलामयं विशालायतनं द्रष्टुं शक्यते यत्र सूर्येण सह अन्ये ग्रहाः समुत्कीर्णाः । ...सप्तशतप्रायवर्षेभ्यः प्राक् नृपः नरसिंहदेवः अस्य भव्यभवनस्य निर्माणं समापयत् इति कथ्यते..."

कालः[सम्पादयतु]

अबुलफजलः षोडशशताब्द्याः उत्तरार्धे विवरणम् इदं लिपिबद्धम् अकरोत् । यदि वयं तन्निरूपितं नरसिंहदेवस्य कालं स्वीकुर्मः तर्हि अभ्युपगन्तव्यं यत् कोणार्कनिर्माणं नवमशताब्द्यां समाप्तम् । किन्तु ऐतिहासिकाः अन्यथा चिन्तयन्ति । तेषु बहवः विश्वसन्ति यत् मन्दिरमिदं त्रयोदशशताब्द्यां निर्मितम् ।

विनाशस्य कथा[सम्पादयतु]

कोणार्कस्य मुख्यमन्दिरं भारतवर्षे उच्चतमम् आसीत् । अस्ति एका प्रचलिता कथा-मन्दिरस्य चूडायां विशालः चुम्बकखण्डः आसीत् यः पोतान् तटं प्रति आकर्षति स्म । केचित् क्रूराः, विदेशीयाः वणिजः तम् अपहृतवन्तः येन विशालं मन्दिरं विध्वस्तम् अभवत् । अपरे कथयन्ति--हिन्दुस्मृतिशिलानां विध्वंसकेन कलापाहाडेन तन्मन्दिरं विध्वंसितम् । अन्ये चिन्तयन्ति तद् भूमिकम्पेन विध्वस्तम् इति ।

विस्मयस्य कारणानि[सम्पादयतु]

आधुनिकाः वास्तुविद्याविशेषज्ञाः स्थपतयश्च विस्मयं यान्ति यत् कथम् इयन्तः विशालप्रस्तरखण्डाः दूरस्थपर्वतात् आनीय द्विशतपादोच्चतायां स्थापिताः, यतो हि तेषु केचित् द्विसहस्रटनमिताः सन्ति । अस्याः शताब्द्याः प्रथमदशके विध्वस्तमन्दिरस्य केचित् विक्षिप्तप्रस्तराः यदा स्थानान्तरं नेतव्याः अभवन् तदा तान् खण्डशः कर्तुम् आग्नेयचूर्णं प्रयुक्तम् आसीत् । कश्चिद् ऐतिहासिकः परिहासेन उक्तवान्, "यदा प्रस्तराः मन्दिरे स्थापिताः तदा ते अल्पभाराः आसन् । सप्तश्तवर्षेभ्यः नितरां वर्षाजलक्लिन्नाः ते अधुना भारिणः सञ्जाताः !"

मन्दिरनिर्माणविषयिणी कथा[सम्पादयतु]

कोणार्क् सूर्यमन्दिरम्

परःशतवर्षेभ्यः पुर्वम् एकदा प्राचीनकलिङ्गसाम्राज्यस्य कस्यचित् लघुग्रामस्य उपान्ते कश्चित् स्फूर्तिमान् बालकः स्वमातरम् आपृच्छय प्रस्थानम् अकरोत् । साश्रुकपोला माता वप्रस्य पार्श्वतः वङ्किलमार्गेण तिरोभवन्तं स्वपुत्रं निर्निमेषम् अपश्यत् । बालकः अविरतम् अचलत् । कतिपय-होरानन्तरं तस्मै स्वग्रामः, तस्य मन्दिरचूडा उतुङ्गतरुशिखरावलिश्च क्षितिजे तिमिररेखा इव अदृश्यन्त । सः कदापि एकाकि तावद् दूरं न अगच्छत् । तथापि तेन दीर्घमार्गः अतिक्रमणीयः आसीत् ।

बहून् ग्रामान् पृष्ठतः परित्यज्य सः कस्याश्चित् पान्थशालायाः अलिन्दे रात्रिम् अयापयत् प्रातश्च पुनः यात्राम् आरभत । अन्ते, सम्मुखस्थ-हरिद्वनस्य सीमायां सः कस्यचित् विशालभवनस्य सूर्यदीप्तं शिखरम् अपश्यत् । हर्षेण उल्लसितं तस्य मुखमण्डलम् । अग्रे सरतः तस्य दृष्टिपथम् आगताः कार्यरताः शतशः मनुष्याः । दूरत्वात् ते पिपीलिका इव क्षुद्राः दृश्यन्ते स्म । ते एकं मन्दिरं निर्मान्ति स्म यत् देशस्य सर्वाणि मन्दिराणि आकारेण उत्कर्षेण च अतिक्रमितुं शक्नुयात् । निर्मातृषु एकतमस्य दर्शनं बालकस्य यात्रायाः उद्देश्यम् ।

अचिरं तेन स्वाभीष्टजनः लब्धः यतो हि स एव निर्मातॄणां नायकः तस्य अनुपमसौधस्य स्थपतिश्च आसीत् । विख्यातशिल्पिनः सम्मुखे तिष्ठन् रुद्धवाक्, गद्गदहृदयः बालः अश्रुधारां रोद्धुं न अशक्नोत् । किन्तु सः कथमपि स्वमात्रा प्रेषितं वस्तु शिल्पिने अददात् । स एव बालकस्य शिल्पिनश्च परमानन्दमुहूर्तः आसीत् । आश्चर्याभिभूताः शतशः जनाः बालकं चुम्बन्तम् आलिङ्गन्तं च स्वनायकम् अपश्यन् । अचिरमेव बालकः सर्वपरिचितः सञ्जातः । सर्वेऽपि कर्मिण: स्वबालातिथिम्, प्रधानस्थपते: विशुमहारणा-महोदयस्य अनन्यसुतं धर्मपदम् अभ्यनन्दन् । यदा विशुमहोदयः गृहात् प्रस्थितः तदा धर्मपदः दुग्धपोष्यः शिशुः आसीत् । द्वादश वर्षाणि व्यतीतानि । इदानीं किशोरः सः पितरं विस्मापयितुम् आगतः ।

मन्दिरस्य अपरंदृश्यम्

धर्मपदः प्रफुल्लमनसा तत् सुन्दरं स्थानं न्यरूपयत् यत्र विशालमन्दिरं निर्मीयते स्म । समुद्रस्य उत्तालतरङ्गाः मन्दिरप्राचीरं परितः सततं क्रीडन्ति स्म । उद्गतायां वेलायां मन्दिरं समुद्रेण परिवेष्ट्यते स्म । तस्य पश्चिमदिशिकलकलनादिनी, पुण्यसलिला चन्द्रभागा प्रवहति स्म । तीर्थभूतं तत् स्थानं स्मरणातीतकालात् सूर्यदेवस्य अधिष्ठानम् आसीत् । तत्त्वविदः मुनयः श्रीकृष्णस्य कालात् इमां भूमिम् अजानन् । भगवतः श्रीकृष्णस्य पुत्रः साम्बः असाध्यचर्मरोगग्रस्तः तत्र सूर्योपासनाय उपदिष्टः आसीत् । तथा कृत्वा सः रोगमुक्तः अजायत । तेन तत् स्थानं सुविख्यातम् अभवत् । तत्र निर्मीयमाणं भव्यमन्दिरं सूर्यदेवाय निवेदनीयम् आसीत् । प्रतापशाली, दूरदर्शी कलिङ्गाधिपतिः नरसिंहदेवः स्वराज्यस्य सर्वभागेभ्यः द्विशताधिकं सहस्रं सुदक्षान् स्थपतीन्, शिल्पिनः तक्षकान् च आहूय मन्दिरस्य निर्माणे न्ययोजयत् । सः स्वस्य निपुणं मन्त्रिणं शिवेई-सामन्तरायम् अस्य कार्यस्य पर्यवेक्षकम् अकरोत् । किशोरस्य धर्मपदस्य सम्मुखे स्वपितुः तस्य समर्थसहायकानां च भव्यकृतिः विराजते स्म । केवलं मन्दिरस्य चूडा प्रतिष्ठापनीया आसीत् ।

बालवयसि धर्मपदः विद्याभ्यासम् अकरोत् । गृहे पित्रा त्यक्तान् तालपत्रग्रन्थान् सः सुगभीरम् अपठत् । ते ग्रन्थाः सौधनिर्माणकलाविज्ञानस्य आधारभूता आसन् । धर्मपदः बहून् सिद्धान्तान् अजानात् । सः विशालमन्दिरे अनेक-जटिल-सिद्धान्तान् कार्यान्वितान् दृष्ट्वा पुलकितः अभवत् । दर्शनेन उत्फुल्लोऽपि सः तत्र वर्तमानां कामपि विषादच्छायाम् अन्वभवत् । द्वादशवर्षमिते अविश्रान्तपरिश्रमे समाप्तप्राये यैः स्थपतिभिः प्रफुल्लितैः भाव्यं ते विषण्णाः अदृश्यन्त । तेषां विषादस्य कारणं सः स्वपितरम् अपृच्छत् । विशुमहारणा प्रथमम् अस्मिन् विषये किमपि वदितुम् अनिच्छन् अपि आत्मानम् अधिककालं नियन्त्रयितुं न अशक्नोत् । सः भग्नहृदयेन अवदत्, "वत्स, विकटं सङ्कटमेकम् अस्मासु आपतितम् । मन्दिरस्य चूडाप्रतिष्ठायाः समस्या सा । तां समाधातुम् अनेकदिवसेभ्यः प्रयतमानाः अपि वयम् असफलाः । तेन विमूढा वयम् आत्मानं कुशलशिल्पिनं कीर्तयन्तः लज्जामहे । "किञ्च, क्षते क्षारमिव, राज्ञा वयम् आज्ञप्ताः आगामि-सूर्योदयात् पूर्वम् इदं कार्यं सम्पादयितुम् अशक्तानां युष्माकं वधः सुनिश्चितः इति ।"

तदा प्रदोषः पदं करोति स्म । तथापि मन्दिरम् अस्तमितसूर्यस्य सुखद-मरीचि-मालया सुशोभितम् आसीत् । अचिरात् उदधिगर्मात् निर्गतेन पूर्णचन्द्रेण निखिलं जगत् आह्लादितम् अभवत् । समस्यासमाधानाय सभासदने समवेतानां स्थपतीनाम् अलक्षितः धर्मपदः मन्दिरम् आरोहत् । शिखरस्य स्थितिं निरूप्य सः समस्यां पर्यालोचयत् । सहसा स्फुरितं किमपि समाधानम् । तदानीं तस्य मनसि सकलसिद्धान्ताः प्रत्यग्राः आसन् । बहुवर्षव्यापि-कठिनश्रमकारणात् मन्ये तस्य पितुः अन्येषां च परिश्रान्त-मनःसु तत् समाधानं न स्फुरितम् ।

कोणार्क् सूर्यमन्दिरस्य चक्रम्

धर्मपदः आगत्य सभाकक्षं प्राविशत् । सः सविनयं स्वमतं गुरुजनेभ्यः न्यवेदयत् । तस्य समाधानं समीचीनम् इति ते सपदि अवाबोधन् । आनन्दोल्लासभरितेषु तेषु केचन मन्दिरम् आरुह्य धर्मपदस्य निर्देशानुसारेण शिखरकिरीटं यथास्थानम् अस्थापयन् । अनेन धर्मपदः नायकः सञ्जातः । मन्दिरात् अवतीर्णं तम् सर्वे आनन्दातिशयेन अभ्यनन्दन् भूरि भूरि प्राशंसन् च ।

किन्तु प्रत्येकयुगे परेषां साफल्ये ईर्षापरायणाः भवन्ति केचन । अचिरं धर्मपदः कांश्चित् जनान् एवं वदतः अशृणोत्, "द्वादशशतं कुशलस्थपतयः यत् कर्तुम् अशक्ताः तत् कोऽपि बालकः अकरोत् इति श्रुत्वा राजा किं कथयेत् ? एषः धर्मपदः अस्माकं कीर्तिं कलङ्कयिष्यति !" धर्मपदः मर्माहतः अभवत् । निर्जनस्थानं गत्वा सः अचिन्तयत्, "अहम् एषां प्रख्यातकर्मिणां कीर्तौ अन्तरायः भवितुं न इच्छामि । यदा सर्वे सुप्ताः चन्द्रश्च पूर्णप्रभया शोभते स्म तदा सः किरीटशोभितं मन्दिरशिखरं पुनः आरोहत् । उद्वेलसमुद्रस्य स्वर्णभतरङ्गाः मन्दिरं परितः उन्मत्तवत् नृत्यन्ति स्म । धर्मपदः अधः स्वपतः जनान् पश्यन् प्रार्थयत भवतां कीर्तिः चिरभास्वरा तिष्ठेत् इति । ततः सः ऊनसप्ततिमानोच्चतायाः आत्मानम् अधः समुद्रे न्यक्षिपत् ।

परेद्युः प्रभाते राजा शिखरकिरीटं दृष्ट्वा प्रसन्नः अभवत् । सः सर्वान् स्थपतीन् अभ्यनन्दत् । विशुमहारणा हृदये वेदनां नियम्य मौनम् अधारयत् । सेयं शर्मपदस्य कथा । कोणार्कमन्दिरस्य उद्यापनकर्मणि धर्मपदस्य उदारा दुःखदा च भूमिका अचिरं प्रकाशम् आगता अधुनावधि च न विस्मृता ।

विगतानि शरदां शतानि । उत्कलप्रदेशस्य निर्जनसमुद्रप्रान्ते कोणार्कस्य भग्नावशेषः साम्प्रतम् अपि विश्वस्य आश्चर्यजनकवस्तुषु परिगण्यते । सूर्यमूर्तिः विलुप्ता अधुना । मुख्यं मन्दिरम् अपि सम्पूर्णतया विध्वस्तम् । केवलम् अवर्णनीय-सुषमामण्डिता मुखशाला अवशिष्टा । इतः पूर्वं प्रस्तराः शिल्पिनां भावम् इत्थं सुभव्यं कदापि न प्राकाशयन् । कोणार्कस्थः सूर्यदेवालयः ओरिस्साराज्यस्य सुप्रसिद्धः कोणार्कदेवालयः १३ शतके निर्मितः । अयं अद्वितीयः सूर्यदेवालयः । अस्माकं देशे विद्यमानेषु उन्नतेषु देवालयेषु कोणार्क देवालयोऽपि अन्यतमः । एतस्य प्रवेशद्वारे स्थितानि सोपानानि उभयतः अश्वानां शिल्पानि निर्मितानि सन्ति । अयं देवालयः रथस्य आकारेण निर्मितः अस्ति । सूर्यनारायणः सप्ताश्चान् संयोज्य रथेन आकाशमार्गेण सञ्चररि इति अस्माकं पुराणानि वदन्ति । गङ्गवंशस्य राजा नरसिंगदेवराजः एतं देवालयं निर्मपितवान् । १२०० सिल्पिनः १६ वर्षाणि यावत् निरन्तरं कार्यं कृत्वा एतां देवालयं निर्मितवन्तः इति श्रूयते । अस्य् निर्माणार्थं ४० कोटिरुप्यकाणि व्ययितानि सन्ति । कोणार्कदेवालयस्य शिल्पानि अद्यापि द्रष्ट्टुणां ह्रुदयानि अपह्रन्ति । रमणीयैः ओडिस्सिनाट्यभङ्गिभिः, कलाविदां पदविन्यासैः च् अयुक्तानि सूर्यदेवालये विद्यमानानि शोल्पानि सहृदयानां प्रेक्षकाणां नेत्रयोः पुरतः अद्यापि नृत्यन्ति ।