चन्द्रगुप्तमौर्यः
| चन्द्रगुप्तमौर्यः | ||||||||||
| {{{भावचित्रः}}} | ||||||||||
| {{{राज्यः}}} | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
|
||||||||||
| वंशः | ||||||||||
|
||||||||||
| परिवारः | ||||||||||
|
||||||||||
चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्योक्त्या सकलं भारतवर्षम् अजयत्। सः शाक्यकुले क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिम् विजित्य तक्षशीलायाम् अभिषिक्तः। अतः सः भारतस्य एकीकर्ता इति मन्यते।
तस्य शासनात् प्राक् पश्चिमोत्तरभारते चत्वारि लघुराज्यानि गङ्गातीरे नन्दराज्यम् च आसन्। परन्तु तस्य साम्राज्यम् समस्तम् भारतम् आसीत्।
अन्तर्विषयाः |
[सम्पादयतु] कुलम्
चन्द्रगुप्तमौर्यः नन्दराजकुमारस्य मुरा नामिकाया: चेटिकायाः पुत्रः आसीत् इति केचन इतिहासकाराः मन्यन्ते। अन्ये सः मयुरपोषककुले एकः इति कथयन्ति।
[सम्पादयतु] मौर्यसाम्राज्यस्य प्रस्थापनम्
धननन्दः चन्द्रगुप्तमौर्यस्य पितरं कारागरे अक्षिपत्। चाणक्यः तक्षशीलायाम् आचार्यः आसीत्। सः अपि नन्दमहाराजेन अपमानित:। सः प्रतिक्रियाम् अवाञ्छत्। सः वैदेशिकान् यवनान् जेतुं भारतं मोचयितुम् च अपि ऐच्छत्। चन्द्रगुप्तमौर्यः तक्षशीलाम् अगच्छत्। केचन यवनाः सः अलेक्सान्द्रम् तत्र अपश्यत् इति अकथयन्। तत्र सः कौटिल्ल्येन अपि अमिलत्। धीमान् चाणक्यः चन्द्रगुप्तम् सैन्यरचनाविद्यायाम् अबोधयत्। तौ नन्दराज्यं जेतुम् चिन्तनम् अकुरुताम्। चन्द्रगुप्तमौर्यः कौटिल्योक्त्या सेनाम् नयति स्म। सः पर्वतकस्य साहय्येन चाणक्यस्य धूर्तयोजनाभिः च धननन्दम् जितवान्। इयं कथा विशाखदत्तस्य मुद्ररक्षसनाम नाटके कथिता।
[सम्पादयतु] यवनराजानाम् निग्रह:
चन्द्रगुप्तमौर्यः पश्चिमोत्तरभारते युडामास्-फिलिप्-पैतोनादयः यवनक्षत्रपान् जितवान्।
[सम्पादयतु] सेल्युकनिग्रह:
सेल्युकस् एकः यवनराजः आसीत्। सः पारसिक-अरबिक-बह्लिकादीन् देशान् जितवान्। पूर्वस्याम् दिशि तस्य राज्यस्य सीमा सिन्धुनदी आसीत्। चन्द्रगुप्तमौर्यः तम् जित्वा तस्य पुत्रीं परिणीतवान्। सेल्युकस् तस्मै बह्लिककम्बोजगन्धारसिन्धुबालोचिस्थानादिदेशान् अददात्। तौ मित्रे अभवताम्। मेगस्थेनीस् मौर्यराजसभायाम् उषित्वा इन्डिका नाम ग्रन्थे भारतसंस्कृतिम् अवर्णयत्। चन्द्रगुप्तमौर्यः अपि तस्मै पञ्चशतगजान् दत्तवान्।
[सम्पादयतु] दक्षिणविजयाः
सः स्वविशालसेनया दक्षिणभारतम् अपि जितवान्।
[सम्पादयतु] सेना
स्त्राबो नामकः यवनेतिहासज्ञः चन्द्रगुप्तमौर्यस्य सेनायाम् चतुर्लक्षसैनिकाः आसन् इति उक्तवान्। प्लिनी नाम रोमकेतिहासज्ञः मौर्यसेनायां षड्लक्षपादसैनिकाः त्र्ययुताश्वाः नवसहस्रगजाः च आसन् इति अकथयत्।