ओडिशाराज्यम्
| ओडिशाराज्यम् ଓଡ଼ିଶା |
|||
|---|---|---|---|
| — State — | |||
|
|||
| भारतस्य भूपटे ओडिशाराज्यम् | |||
| ओडिशाराज्यस्य भूपटः | |||
| Coordinates (Bhubaneswar): 20°09′N 85°30′E / 20.15°N 85.50°ECoordinates: 20°09′N 85°30′E / 20.15°N 85.50°E | |||
| Country | भारतम् | ||
| Established | १ एप्रिल् १९३६ | ||
| Capital | भुवनेश्वरम् | ||
| Largest city | भुवनेश्वरम् | ||
| Districts | 30 | ||
| Government | |||
| • Governor | एस् सि जमीर् | ||
| • Chief Minister | नवीनः पट्नैक् (BJD) | ||
| • Legislature | Unicameral (147 seats) | ||
| • Parliamentary constituency | 21 | ||
| • High Court | Orissa High Court, Cuttack | ||
| विस्तीर्णता | |||
| • संहतिः | १,५५,८२० Square km (६०,१६२.४ Square mile) | ||
| क्षेत्रस्तरः | 9th | ||
| Population (2011) | |||
| • संहतिः | ४,१९,४७,३५८ | ||
| • Rank | 11th | ||
| IST (UTC+05:30) | |||
| ISO 3166 code | IN-OR | ||
| HDI | |||
| HDI rank | 27th (2005) | ||
| Literacy | 73.45% | ||
| Official languages | ओडियाभाषा | ||
| जालस्थानम् | odisha.gov.in | ||
ओडिशाराज्यं (Odisha) (ओडिया: ଓଡ଼ିଶା [oˑɽisaˑ]) भारतस्य आग्नेयतीरे विद्यमानं राज्यम् । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कळिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं १९३६ तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् उत्कलदिनत्वेन आचर्यते ।
ओरिस्सा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति ओडियाभाषा । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं १६७२ मीटर्मितोन्नतं डियोमलिपर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते ।
जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरप्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः च प्रसिद्धस्थानानि सन्ति ।
इतिहासः [सम्पादयतु]
प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । महाभारतस्य कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति ।
जनपदानि [सम्पादयतु]
ओरिस्साराज्ये ३० जनपदानि सन्ति - अङ्गुल्, बौध्, भद्रक्, बोलन्ङ्गिर्, बर्गर्, बलसोर्, कटक्, देबगर्, धेन्कनल्, गञ्जम्, गज्पति, झर्सुगुड, जयपुर्, जगत्सिङ्गपुर्, खोर्ध, कियोञ्जर्, कलहन्डि, कन्धमाल्, कोरापुट्, केन्द्रपर, मल्कञ्जिरि, मयूर्भञ्ज्, नबरङ्गपुर्, नौपद, नयागर्, पुरि, रायगढ्, सम्बाल्पुर्, सुबर्णपुर्, सुन्दर्गर् च । राज्यस्य महानगरं राजधानी च वर्तते भुवनेश्वरनगरम् । इदं मन्दिरनगरम् /देवालयनगरम् इत्येव प्रसिद्धम् अस्ति । अस्मिन् राज्ये विद्यमानानि अन्यानि महानगराणि सन्ति - कटक्, ब्रह्मपुरम्, बरिपद, रूर्केल, सम्बाल्पुर्, बोलङ्गिर्, बलसूर्, केन्द्रपर, पुरी च ।
सम्बद्धाः विषया:
भाषा - ओडिया
नगरम् - कटक
- राजधानी -- भुवनेश्वरम्
बाह्यानुबन्धः [सम्पादयतु]
- Official Website of the State Government of Odisha
- Official Website of Odisha Tourism
- Odisha Diary
- Odia Live