गुप्त-साम्राज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
गुप्तसाम्राज्यम्
{{{मानचित्रः}}}
कालक्रमः
कालः क्रि.पू. २४०-५५०
पूर्ववम्शः {{{पूर्ववम्शः}}}
आगमिवम्शः {{{आगमिवम्शः}}}
प्रस्थापकः {{{प्रस्थापकः}}}
राज्यम्
शासनप्रकारः राज्यम्
प्रधानपुरी पाटलिपुत्रः
मुख्यभाषाः {{{मुख्यभाषाः}}}
मताः वैदिकधर्मः, बौद्धधर्मः च
गुप्तसाम्राज्यकालस्य अयस्तम्भः

गुप्तराज्यकालः भारतस्य सुवर्णकालः इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टविष्णुशर्मवराहमिहिरादयः विद्वांसः अवसन्। मध्य-एशियहूणाः एतद् राज्यं नाशितवन्तः ।

गुप्तवंशस्योद्भवनम्[सम्पादयतु]

एस्.अल्टेकरः नामकः ऐतिहासकः गुप्तवंशिनः वैश्याः इति मन्यते यथा स्मृतिषु 'गुप्त'इति शब्दः वैश्याणां नामन्तरे एव उपयुक्तः इति कथ्यते।

श्रीगुप्तघटोत्कचौ[सम्पादयतु]

श्रीगुप्तः(२४०-२८०) घटोत्कचः(२८०-३१९) च मगधायाः राजानौ आस्ताम्।

चन्द्र्गुप्तःI (३१९-३३५)[सम्पादयतु]

चन्द्रगुप्तःI एव प्रथमः गुप्तमहाराजः आसीत्। सः कुमारदेवी नाम लीच्चवीराजपुत्रीं परिणीय तेषाम् उपकारेण प्रयागं साकेथपुरीं च अजयत्। सः राजाधिराजः इति अभिधानं प्राप्तवान्।

समुद्रगुप्तः (३३५-३८०)[सम्पादयतु]

समुद्रगुप्तःII

समुद्रगुप्तः सः महान् सेनापतिः आसीत्। सः पाञ्चलान् मालवान् यौधेयान् अभिरान् च अजयत्। तस्य साम्राज्यस्य सीमाः उत्तरदिशि हिमालयः दक्षिणे नर्मदा पुर्वस्यां दिशि लौहित्य पश्चिम्याम् च यमुना अभवन्। सः अश्वमेधयज्ञम् अकरोत्। तस्य सभायां हरिशेना वसुबन्धुः अर्यसङ्गादयः पण्डिताः अवसन्। सः विष्णुभक्तः आसीत्।


रामगुप्तः[सम्पादयतु]

रामगुप्तः समुद्रगुप्तस्य पुत्रः आसीत्। सः देवीचन्द्रगुप्तनाट्ये वर्णितः। तस्य केचन सिकाः अपि सन्ति।

चन्द्रगुप्तःII-विक्रमादित्यः(३८०-४१३)[सम्पादयतु]

चन्द्रगुप्तःII

चन्द्रगुप्तविक्रमादित्यः दत्तदेव्याः पुत्रः आसीत्। सः कुन्तलदेशस्य (द्रुवस्वामिनी) नागदेशस्य (कुभेरनागा) च राजकुमार्यौ परिणीतवान्। तस्य दुहिता प्रभावती गुप्ता वाकाटक राजानम् रुद्रसेनम् विवाहम् अकरोत्।

सः रुद्रसिंहविराजितान् शकान् विजित्य सौराष्ट्रम् अन्तर्गतवान्। सः वङ्गान् च अजयत्। ततः सः पश्चिमोत्तरदिशि वक्षुतीरे वसतः परसिकान् कम्बोजान् हूणान् पुर्वस्यां दिशि च किराटान् किन्नरान् च अभिभवति स्म। सः देवगरपुरे दशावतारमन्दिरम् अस्थापयत्। तस्य शासने चित्रकला शिल्पकला साहित्यम् च् अवर्धन्त। तस्य सभायां नवरत्नानि अवसन् तेषु कालिदासः एकः

कुमारगुप्तःI (४२३-४५५)[सम्पादयतु]

कुमारगुप्तःI विक्रमादित्यस्य द्वितीयः पुत्रः आसीत्। सः महेन्द्रादित्यः इति संज्ञाम् उरीकृतवान्।

स्कन्दगुप्तः(४५५-४६७)[सम्पादयतु]

स्कन्दगुप्तः गुप्तवंशस्य अन्तिमः महान् राजा आसीत्। सः विक्रमादित्यः इति अभिधानम् उरीकृतवान्। तेन पश्चिमोत्तरदिशायाः पराक्रमन्तः हूणाः जिताः।

साम्राज्यस्य अन्तः[सम्पादयतु]

ओप्रटोरमानमिहिरकुलैः नेतारः हूणाः निर्बलान् गुप्तराजान् अजयन्।

अन्तिमगुप्तराजाः[सम्पादयतु]

सेना[सम्पादयतु]

गुप्तराज्ञां सेना सम्यक्प्रणिहिता वीर्यवती चासीत्। सेनायां बहवः धन्विनः पादसैनिकाः च अवर्तन्त। धनाः अयसा अथवा वेणुना निर्मिताः आसन्। शूलकवचखङ्गयुक्ताः सैनिकाः ताम् अपालयन्। ते सकवचान् गजान् उपायुजन्। तेषां सेनायां बहवः रथिनः आसन्। ते नगरनाशकाणि शस्त्राणि बिन्दिपालन् च उपायुजन्। तेषाम् नौसेना अपि आसीत्।

राजनीतिः[सम्पादयतु]

राष्ट्रं षड्विंशति प्रदेशरूपेण विभक्तम् आसीत्। एवं प्रदेशाः विषयरूपेण विभक्ताः आसन्। विषयपतिः अधिकरणसङ्गसहितः विषयं समधितिष्ठति स्म। सङ्गे नगरश्रेष्ठी सार्थवाहः प्रथमकुलिका प्रथमकायस्था चाभवन्। विषयस्य खण्डः वीथी इति कथ्यते।

दायम्[सम्पादयतु]

अजन्तागुहबौद्धचित्रम्
  • गणितविज्ञानादि क्षेत्रेषु च अवर्धन्त। अस्मिन् काले एव आर्यभटः वराहमिहिर: ब्रह्मगुप्त: इत्यादयः गणितज्ञाः अवसन्।
  • बहूनि काव्यानि नाटकानि च रचिताः। कालिदासः अपि अस्मिन् काले एव अवसत्।
  • नालन्दादयः विश्वविद्यालयाः स्थापितानि।
  • अस्मिन् काले राजानः अनेके देवालयान् स्तूपान् च अमिन्वन्। तेषु गुप्तलिप्याम् अनेकानि अभिलेखनानि कृतानि।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गुप्त-साम्राज्यम्&oldid=231680" इत्यस्माद् पुनः प्राप्तिः