सिन्धुखातसंस्कृतिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।



सिन्धुखातसंस्कृतिः

सिन्धुखातसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि संस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा । अतः एव सिन्धुखातसंस्कृतिः हरप्पासंस्कृतिः इति ख्याता।

नगराणि[सम्पादयतु]

मोहेञ्जोदारोपुरी

सिन्धुसंस्कृतेः नगराणि अत्युत्कृष्टाः आसन्। पथाः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिकाभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि स्नानगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः। नगरेषु दुर्गाः अपि अवर्तन्त। तेषु जलनिर्गमः अपि आसीत्। पुरीषु अनेके चित्रकाराः शिलपकाराः कुम्भकाराः वणिजः पुरोहिताः च अवसन्।

कला धर्मश्च[सम्पादयतु]

नृत्यन्ती बालिका
सिन्धुखातमुद्रिकाः

ते अनेकानि सुन्दराणि शिल्पानि निर्मितवन्तः। ते मुद्राः आभरणानि च अरचयन्। ललनाः नेत्राञ्जनं, सिन्दूरं, कङ्कणानि च धारयन्ति स्म। शिशवः क्रीडनकैः क्रीडिन्ति स्म । ते पशुपतिं शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः आसन्।

लिपिः[सम्पादयतु]

दश सिन्धु-अक्षराणि. 2000 BCE

कालः[सम्पादयतु]

सिन्धुसभ्यतायाः कालः मिश्रदेशस्य प्राचीनसभ्यतावत् अनिश्चिताऽस्ति । मिश्रदेशस्य सुमेरप्रदेशीय वा सभ्यतायाः कालनिर्णये तत्र प्राप्ताः लेखनसामग्राद्याः बहुसहायकाः अभवन् । इदनीमवधिः सिन्धुलिपेः आविष्कारं न अभूत् । प्रसिद्ध'मेसोपटेमिया'सभ्यतायाः खननसमये तत्र सिन्धुप्रदेशस्य मुद्राः अलभन् । अर्थ्यात् सिन्धुजनानां वाणिज्यं क्रैस्तपूर्वं २६००-२००० शताब्द्यां मेसोपटेमियापर्यन्तं विस्तृतमासीत् । तस्मात् बुधैः अनुमीयते यत् सिन्धुलिपेः कालः ३५००-३००० क्रैस्तपूर्वमस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

सिन्धुप्रदेशतः प्राप्तेषु निदर्शनेषु एकत्र २६ अधिकसांकेतिकाक्षराणि न लब्धानि । अस्याः लिपेः आविष्कारनिमित्तं बहुशोधकार्याणि अभवन् । परन्तु विद्वत्सु लिपेः आविष्करणविषये मतैक्यताऽभावः एव दृश्यते । १८७३ तमे वर्षे अलेक्जन्डर कानिंहाम् प्रथमवारं सिन्धुलिप्यां उत्कलितमुद्रां प्रकाशितवान् । तदनन्तरं प्रायः ४००० सांकेतिकचिह्नसमन्वितानि वस्तुनि शोधखननात् प्राप्तानि । सिन्धुलिपेः लेखनगतिः वामतः, दक्षिणतः तथा उभयतः (boustrophedonic style) आसीत् । सिन्धुलिपेः प्रायः ४००-६०० मौलिकसांकेतिकचिह्नानि सन्ति (Wells 1999)। अनेके लिपिविशेषज्ञाः मन्यन्ते यत्- लिपेः स्वरूपम् संश्लेषात्मकभाषां सूचयति इति ।

इदमपि दृश्यताम्[सम्पादयतु]

कांस्यकालम्

"http://sa.wikipedia.org/w/index.php?title=सिन्धुखातसंस्कृतिः&oldid=270374" इत्यस्माद् पुनः प्राप्तिः