सिन्धुखातसंस्कृतिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।



सिन्धुखातसंस्कृतिः

सिन्धुखातसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि संस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा । अतः एव सिन्धुखातसंस्कृतिः हरप्पासंस्कृतिः इति ख्याता।

अन्तर्विषयाः

नगराणि [सम्पादयतु]

मोहेञ्जोदारोपुरी

सिन्धुसंस्कृतेः नगराणि अत्युत्कृष्टाः आसन्। पथाः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिकाभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि स्नानगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः। नगरेषु दुर्गाः अपि अवर्तन्त। तेषु जलनिर्गमः अपि आसीत्। पुरीषु अनेके चित्रकाराः शिलपकाराः कुम्भकाराः वणिजः पुरोहिताः च अवसन्।

कला धर्मश्च [सम्पादयतु]

नृत्यन्ती बालिका
सिन्धुखातमुद्रिकाः

ते अनेकानि सुन्दराणि शिल्पानि निर्मितवन्तः। ते मुद्राः आभरणानि च अरचयन्। ललनाः नेत्राञ्जनं, सिन्दूरं, कङ्कणानि च धारयन्ति स्म। शिशवः क्रीडनकैः क्रीडिन्ति स्म । ते पशुपतिं शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः आसन्।

लिपिः [सम्पादयतु]

दश सिन्धु-अक्षराणि. 2000 BCE

इदमपि दृश्यताम् [सम्पादयतु]

कांस्यकालम्