महबूबनगरमण्डलम्
| महबूबनगरमण्डलम् | |||||||
| 'रुक्मम्मपेटा' 'पलामूर् | |||||||
| — मण्डलम् — | |||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| राज्यम् | आन्ध्रप्रदेशराज्यम् | ||||||
| मण्डलानि | महबूबनगरमण्डलम् | ||||||
| MLA | येन्नम् श्रीनिवास रेड्डी | ||||||
| MP | के चन्द्रशेखरराव् | ||||||
| सांसदक्षेत्रम् | Mahabubnagar Lok Sabha | ||||||
| योजनायोगः | Mahabubnagar Municipal Corporation | ||||||
| जनसङ्ख्या |
३,५१३ (2001[update]) • १६७ /km2 ( /sq mi) |
||||||
| लिङ्गानुपातः | 0.973 ♂/♀ | ||||||
| व्यावहारिकभाषा(ः) | हिन्दीभाषा, तेलुगुभाषा, उर्दूभाषा | ||||||
|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||
| विस्तीर्णम् • औन्नत्यम् |
१८,४३२ square kilometres ( sq mi) • ४९८ metres ( ft) |
||||||
| वायुमण्डलम् • तलस्पर्षी |
उष्णवातावरणम् (कॊप्पेन्) • ८०३ mm (. in) |
||||||
|
सङ्केताः
|
|||||||
| जालस्थानम् | www.mahabubnagar.nic.in/ | ||||||
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
१८७० तमे वर्षे नागरकर्नूल् इति नाम्ना आविर्भूतं महबूबनगरमण्डलम् । १८८३ तमे वर्षे मण्डल- केन्द्रं नागरकर्नूल् तः महबूबनगरं प्रति परिवर्तितम् । ततः पूर्वं चोलैः, काकतीयैः, बहमनीसुल्तानजनैः, कुतुब्शाहीसुल्तानजनैः, मोघल्-चक्रवर्तिभिः नैजां-नवाब-पालकैः च चिरं परिपालितम् । १९०५ तमे वर्षे आन्ध्रराज्ये संयोजितम् इदं मण्डलम् ।
भौगोलिकम् [सम्पादयतु]
अस्य मण्डलस्य प्राच्यां दिशि नल्गोण्डा – प्रकाशमण्डले , पश्चिमदिशि कर्णाटकराज्यम् उत्तरे भाग्यनगरम्, दक्षिणे च कृष्णा- तुङ्गभद्रानद्यौ च सीमायां वर्तन्ते । राज्यविस्तीर्णे ६.७% भूम्यां मण्डलम् इदं विस्तृतम् । १६.४% भूमिः अरण्येन विस्तृता । मक्तल्-प्रान्ते कृष्णानद्याः प्रवेशः अस्मिन् मण्डले । क्वार्टस्, आसबेस्टास्, फेलस्पर्, सुधाशिलाः, इत्यादयः खनिजाः उपलभ्यन्ते । गद्वाल्-आलम्पूर्-प्रान्तयोः तुङ्गभद्रानदी- प्रवाहः वर्तते । कलवकुर्ति-अच्चम्पेटा-प्रान्तयोः “ दिण्डी नदी प्रवहन्ती, चन्द्रगिरिप्रान्ते कृष्णानद्या सम्मिलति ।
कृषिः वणिज्यं च [सम्पादयतु]
कलायः, एरण्डः इत्यादीनां धान्यानां सेद्यं क्रियते कृषकैः । रायचूर – चेन्नै, सिकिन्दराबाद्- मुम्बै, सिकिन्दराबाद्- गुन्तकल् रैल्मार्गाः मण्डलेस्मिन् वर्तन्ते ।
वीक्षणीयस्थलानि [सम्पादयतु]
आलम्पूर-जोगुलाम्बादेवीपीठम्, गद्वाल-दुर्गम्, तुङ्गभद्रानदीतीरस्थः नवब्राह्मालयः च पर्याटकानां मनोल्लासं जनयन्ति ।