क्रैस्तमतम्
क्रिस्तीय (gr. - Xριστός) विश्वस्य विस्तृतः धर्मः अस्ति । अस्य संस्थापकः प्रभुः यीशु अस्ति | अमेरिकायां यूरोपे च इदं मतं प्रबलम् अस्ति। क्रैस्तमतस्य १∙३ कोटिपरिमिताः अनुयायिनः सन्ति। क्रैस्तमते अनेके विभागाः सन्ति। परन्तु सर्वे एकस्मिन् प्रभौ परमेश्वरे येशुक्रिस्ते विश्वासं कुर्वन्ति । क्रैस्तमतस्य प्रधानग्रन्थः बैबल् अस्ति। अस्मिन् मते प्रधानविभागः क्याथोलिक् अस्ति। क्रैस्तमतस्य अनुयायिनः ‘क्रैस्तवाः’ इति कथ्यन्ते । क्रैस्त–उत्सवाः विविधाः भवन्ति‚क्रिस्मस्‚ ईस्टर्‚ इत्यादीनि । क्रैस्तमतम् एकैश्वरविश्वासवत् मतम् अस्ति।
विश्वासाः[सम्पादयतु]
ईश्वरः एकः अस्ति। परन्तु तस्मिन् त्रयः व्यक्तयः सन्ति–ते पिता‚ पुत्रः, पवित्रात्मा च। पिता किम् अस्ति तदेव पुत्रः पवित्रात्मा च। परन्तु ते व्यतिरिक्ताः सन्ति।अतःक्रैस्तवेभ्यः ईश्वऱः त्रियेकः अस्ति। ईश्वरः प्रपञ्चम् असृजत्। मनुष्यः एव प्रपञ्चस्य केन्द्रम् आसीत्। परन्तु मनुष्याः पापं कृतवन्तः। अतः पुत्रः(ईश्वरस्य द्वितीया व्यक्तिः) मनुष्याणां पापपरिहारार्थं भूमिम् आगच्छत्। सः पुरुषसंसर्गं विना पवित्रात्मना मेरी नाम्नः कन्यकायाः जातः। सः येशुक्रिस्तुः इति ज्ञातम्। सः मनुष्याणां पापपरिहारार्थं क्रूशे यहूदैः हतः। परन्तु त्रयाणां दिवसानां पश्चात् तेन उत्थितम्। ४० दिवसानां पश्चात् सः स्वर्गं प्राविशत्। मनुष्यान् विधिं कर्तुम् सः पुनः आगमिष्यति।
क्रैस्तमते पापं द्विविधे भवतः - उद्भवपापं कर्मपापं च l येशुक्रिस्तुः तस्य रक्षां प्रदानं कर्तुं एकां सभाम् अस्थापयत्। इयं सभा पश्चात् क्याथोलिक् सभा इति ज्ञाता। इयं सभा एका, विशुद्धा, सार्वत्रिका श्ळैहिका च अस्ति। अस्यै सभायै एकविश्वासः एकज्ञानस्नानम् एकाधिकारी च सन्ति। अतः सा एका अस्ति। अस्याः स्थापकः शुद्धः, अस्याः अनेके विशुद्धाः सन्ति; अतः सा विशुद्धा अस्ति। इयं सभा भूमौ व्यापिता अस्ति। अतः सा सार्वत्रिका अस्ति। इयं सभा श्ळीहैः (येशुक्रिस्तोः शिष्यैः) स्थापिता अस्ति। अतः सा श्ळैहिका अस्ति।
येशुक्रिस्तुः[सम्पादयतु]
येशुक्रिस्तुः अथवा ईशोमिशिहा क्रैस्तमतस्य स्थापकः अस्ति। तस्य जन्मः क्रिस्तोः प्राक् ७–६ तमे अभवत् इति अनेके पण्डिताः कथयन्ति। सः एव त्रियेकैश्वरस्य द्वितीयः व्यक्तिः। सः पूर्णमनुष्यः पूर्णैश्वरः चासीत् (अस्ति)। सः कालस्य पूर्णतायां कन्यामेरीतः पवित्रात्मना पुरुषसंसर्गं विना बेत्लेहेमे जातः। मेर्याः भर्ता जोसफः आसीत्। सः मनुष्यरक्षार्थं भूमिं आगच्छत् । तस्य बल्यकलः नस्रेते आसीत् l येशोः बल्यकालः ज्ञाने प्राये ईश्वरमनुष्यप्रीतौ आसीत् l त्रिंशत् वयसि सः सुविशेषप्रघोषणार्थम् गच्छत् l सः नीतिमान् सत्यसन्धः च आसीत् l सः अनेकानि अद्भुतानि अकरोत् l सः अन्धेभ्यः दृष्टिः , बधिरेभ्यः श्रवणशक्तिः, विकलाङ्गेभ्यः चलनशक्तिः ददात् l सः यहूदमतस्य अन्धविश्वासाः त्यक्तवान् l सः अकथयत् "शत्रुषु अपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् "l परन्तु यहूदमतस्य पुरोहितप्रमुखाः तं व्याजः इति उक्त्वा क्रूसे अमारयत् l परन्तु सः त्रयदिवसाः पश्चात् उत्थानं अकरोत् l अतः सः अद्यापि जीवति l ४० दिनाः पश्चात् सः स्वर्गारोहणं अकरोत् l अन्तिमदिवसे सः मनुष्याणां विध्यर्थं आगमिष्यति l तस्य उत्थानम् ख्रिस्ताब्दे ३३ अभवत् इति अधिकतमः पण्डिताः कथयन्ति l सः एव सत्यमार्गं l
कूदाशाः[सम्पादयतु]
क्रैस्तमते सप्तकूदाशाः भवन्ति
१. ज्ञानस्नानं-अस्मिन कूदाशे एकः व्यक्तिः क्रैस्तवः भवति l यदि कर्मपापं अस्ति तदा