वास्तुशास्त्रम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

वास्तुविज्ञानं सर्वकालोपयोगि[सम्पादयतु]

सहस्रसहस्रवर्षेभ्यः प्राक्तनाः देवालयाः राजमन्दिराणि गृहाणि चास्मिन् भारते देशे बहोः कालादविनष्टा एव विलसन्तीत्यानुभविकम् । न चैतद् यादृच्छिकं भवतुमर्हति । अत्र वास्तुतत्त्वशास्त्रानुसारेण निबध्दानि गृहाणि देवालयाश्च भूकम्पादावप्रणष्टाः वास्तुविज्ञानस्य सार्वकालिकतामावेदयन्ति । वास्तुशास्त्रमवश्याध्येयं, विज्ञेयं च सर्वैरपि । वास्तुशास्त्रग्रन्थाः सन्त्यनेकेऽस्मिन् देशे । अत्र तु प्राधान्येन सनत्कुमारप्रणीतगृहवास्तुग्रन्थमवलम्ब्य विशयवैमर्शः कृतः ।

गृहनिर्माणप्रशस्ताः मासाः[सम्पादयतु]

चैत्रमासे गृहनिर्माणे द्रव्यनाशः भयं च । वैशाखे शुभम् । ज्येष्ठे मृतिः । आषाढे पशुनाशः । श्रावणे पुत्रर्ध्दिः । भाद्रपदे पुत्रादीनां रोगभीः । आश्वयुजे कलहः । कार्तिके द्रव्यलाभः । मार्गशीर्षे भयम् । पुष्ये अग्निदाहः । माघे सन्ततिवृध्दिः । फाल्गुने रत्नलाभः । तदुक्तम् –

गृहसंस्थापनं चैत्रे धनहानिर्महाभयम् ।

वैशाखे शुभदं विद्यात् ज्येष्ठे तु मरणं ध्रुवम् ॥

आषाढे गोकुलं हन्ति श्रावणे पुत्रवर्धनम् ।

प्रजारोगं भाद्रपदे कलहो अश्चयुजे तथा ॥

कार्तिके धनलाभः स्यात् मार्गशीर्षे महाभयम् ।

पुष्ये चाग्निभयं विद्यात् माघे तु बहुपुत्रवान् ।

फाल्गुने रत्नलाभः स्यात् मासानां च शुभाशुभम् [१]

गृहनिर्माणं शुभवासरे कार्यम्[सम्पादयतु]

न यस्मिन् कस्मिन् वासरे गृहनिर्माणं कर्तव्यम्, अपि तु प्रशस्त एव । तथा हि- भानुवासरे गृहारम्भे अह्निदाहः शुक्लपक्षे सोमवासरे गृहारम्भे वृध्दिः । कृष्णपक्षे सोमवासरे कलहः नाशश्च । कुजवासरे तदंशे, तल्लग्ने स्तम्भप्रतिष्ठादिकरणे गृहदाहः यजमानस्य मृतिश्च । बुधवासरे ऎश्वर्यवृध्दिः । गुरुवासरे सवार्थसिध्दिः । शुक्रे बहुसुखम् । मन्दवासरे चोरभयम् । तस्मात् विहितदिने विहितवासर एव गृहारम्भः कार्यः । तदुक्तम् –

भानुवारे कृतं वेश्म वह्निना दह्यते चिरात् ।

चान्द्रे च वर्धते शुक्ले क्षीयते कृष्णपक्षके ॥

भौमवासरे तदंशे वा तल्लग्ने सप्तमेऽपि वा ।

दह्यते (तद् गृहं) शून्यं कर्तुर्मरणमेव च ॥

बुधवारे धनैश्वर्यं सुखपुत्रसमन्वितम् ।

भृत्यवाहनधान्यानि धनान्याङ्गिरसे दिने ॥

भृगुवारे चिरं तिष्ठेत् कर्ता च सुखसम्पदा ।

चिरं तिष्ठेन्मन्दवारे तस्कराणां भयावहः ॥ [२]

योग्यनक्षत्राणि[सम्पादयतु]

मृगशीर्षक- हस्ता –रेवती-चित्ता अनुराधा –उत्तराषाढा – उत्तराभाद्रा –श्रवण पुनर्वसु –शतभिषा- धनिष्ठा –अश्विनीनक्षत्राणि गृहारम्भाय सुखदानि च । तदुक्तम्

वास्तुपुरुषपूजा[सम्पादयतु]

शैववैष्णवतन्त्रागमग्रन्थेषु वास्तुपुरुषकथा भिन्नैव श्रूयते । वैष्णवतन्त्ररीत्या वास्तुर्वराहरुपिणो हरेः सुतः । देवतैः भूमौ पातितः । चतुरस्राकृतिः स्थितश्च । तदुपरि ब्रह्मादयः देवाः सन्निहिताः । तान् यथाविधि सम्पूज्य गृहादि निर्मेयम् । तदुक्तम् –

पूजयेद् वास्तुपुरुषस्योपरिस्थांस्तु सर्वदा ।

देवान् ब्रह्मादिकान् वास्तुर्वराहस्य हरेः सुतः ।

पातितो देवतैर्भूमौ चतुरस्राकृतिः स्थितः ॥[३]

शैवग्रन्थेष्वन्यैव कथा श्रूयते – अन्धकासुरसंहारे क्रुध्दस्य शूलिनः स्वेदबिन्दुः भूमौ पतितः । स्वेदबिन्दुरेव द्यावापृथिवीमभिव्याप्य वास्तुपुरुषरुपेणोदतिष्ठत् सर्वभयङ्करः । ततश्च देवतैर्भूमौ पातितः । मन्दिरादिनिर्माणकाले तत्पूजनाय वरश्च देवैः प्रदत्तः । तदुक्तम् –

सङ्ग्रामेऽन्धकरुद्रयोश्च पतितः स्वेदो महेशात् क्षितौ

तस्माद् भूटमभूच्च भीतिजननं द्यावापृथिव्योर्महत् ।

तद्देवैः सहसा निगृह्य भूमावधोवक्तृकं

देवानां वचनाच्च वास्तुपुरुषस्तेनैव पूज्यो बुधैः[४] ॥ इति

गृहनिर्माणक्रमः[सम्पादयतु]

भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य लोष्टाश्मास्थिविवर्जिते देशे गृहं निर्मेयम् । पूर्वस्यां दिशि स्नानगृहं कार्यम् । आग्नेये पाकशाला विधेया । दक्षिणस्यां दिशि स्वापशाला । नैऋत्यां दिशि आयुधशाला । पश्चिमे भोजनशाला । वायव्ये पशुशाला । उत्तरस्यां दिशि द्रव्यनिक्षेपगृहं कार्यम् । ईशान्ये देवमन्दिरम् । तदुक्तम् –

स्नानागारं दिशि प्राच्याम् आग्नेय्यां पचनालयम् ।

दक्षिणे शयनागारं नैऋत्यां शस्त्रमन्दिरम् ॥

पश्चिमे भोजनागारं वायव्ये पशुमन्दिरम् ।

भण्डारं चोत्तरस्यां तु ईशान्यां देवमन्दिरम् ॥[५]

उक्तं चान्यत्र –

स्नाताम्मि पाकशयनास्रभुजेश्च

धान्यभाण्डारदैवतगृहाणि च पूर्वतः स्युः ।

तन्मध्यतोऽथ मथनाज्यपुरीष-

विद्याभ्यासाख्यरोदनरतौषधसर्वधाम ॥ [६]

वापीकूपतटाकनिर्माणम्[सम्पादयतु]

कूपादिनिर्माणं उत्तरस्यां पूर्वपश्चिमदिशि च प्रशस्तम् । द्वारहीनो जलाशयः कूपशब्देन व्यपदिश्यते । द्वारेणैकेन भूषितः वापिसंज्ञकः । अनेकद्वारविशिष्टा पुष्कलजलाधारा पुष्करिणीत्युच्यते । तदुक्तम् –

द्वारहीनौ भवेत्कूपः द्वारेणैकैन वापिका ।

नैकद्वारा पुष्करिणी दीर्घाकारा तु दीर्धिका ।

कुल्या विधूततोयाश्च तटाकाः परिकीर्तिताः ॥

कूपादिनिर्माणम् आग्नेय नैऋत्य-वायव्यदिशि परित्याज्यम् । उत्तर –पूर्व –पश्चिमदिशि शस्तम् । तदुक्तं वराहमिहिरेण

आग्नेये यदि कोणे ग्रामस्य गृहस्य वा भवति कूपः ।

नित्यं करोति दाहं जलमपि तत्रैव चञ्चलप्रायम् ।

नैऋते कोणे बालक्षयं च वनिताक्षयं वायव्ये ।

दिक्त्रयमेतत्त्यक्त्वा शेषास्तु शुभावहाः प्रोक्ताः ॥ इति

एवं अन्यत्र च –

स्नानाग्निस्वपिवभोजनपशुद्रव्यामरोकस्थितिं

पूर्वादौ जलमीशितुर्दिशि परं वायोरपाङ्मूत्रकम् ।

आल्पे शक्तिभुवो यथारुचि परे गेहस्य दक्षे घट-

द्दाम्बूलूखलचुल्लिकापितृपदप्रक्षालनान्यूचिरे ॥

गृहलक्षणम्[सम्पादयतु]

भूपरीक्षां कृत्वा सार्धपुंमानतस्त्वधः भुवं संशोध्य शुचिप्रदेशे गृहादिकं निर्मेयम् । सनत्कुमारवास्तुशास्त्रोक्तदिशा वक्ष्यमाणक्रमानुरोधेन गृहं निर्मेयं भवति ।

टिप्पणी[सम्पादयतु]

  1. सनत्कुमारवास्तुशास्त्रम्. पृष्ठसंख्या- 7
  2. स.वा.शा.p.7
  3. तं.सा.सं III.67.p.77
  4. वा.र.p.38
  5. स.वा.शा.p.69
  6. मु.चि. १२.२०
"http://sa.wikipedia.org/w/index.php?title=वास्तुशास्त्रम्&oldid=256418" इत्यस्माद् पुनः प्राप्तिः