कजाकस्थान

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
कझकस्थानस्य मानचित्रम्

कजाखस्थान मध्य-एशिया-महाद्वीपे विद्यमानः कश्चन यवनदेशः । जगति अयं नवमः बृहत्तमः देशः । अस्य विस्तारः अस्ति २,७२७,३०० चतुरस्र किलोमीटर्मितः । पौरात्ययुरोपदेशस्य अपेक्षया बृहत् वर्तते । अस्य प्रतिवेशिदेशाः उत्तरतः प्रदक्षिणाकारेण एवं वर्तन्ते - रषिया, चीना, किर्गिस्थान्, उझ्बेकिस्थान्, तर्क्मेनिस्थान् च । अस्मात् देशात् ३८ कि मी मिते दूरे एव मङ्गोलियादेशस्य पूर्वबिन्दुः विद्यते । जनसङ्ख्यायुक्तः अयं देशः जगति ६२ तमे स्थाने विद्यते जनसङ्ख्यानुगुणम् । १९९८ तमे वर्षे अस्य राजधानी अल्मटितः बृहत्तमं नगरम् अस्टनं प्रति परिवर्तिता जाता ।

इतिहासे अस्मिन् देशे अधिकांशाः सञ्चरणशीलाः वनवासिनः एव निवसन्ति स्म । १६ शतके कझक्जनाः विशिष्टसमूहत्वेन अभिज्ञाताः । १८ शतके रशियन्-जनाः इमं प्रदेशम् आक्रान्तुम् आरब्धवन्तः । १९ शतके सम्पूर्णः कझकस्थानं रशियन्साम्राज्यस्य भागः जातः आसीत् । १९१७ तमे वर्षे जाते रशियन्-क्रान्तेः अनन्तरम् अयं प्रदेशः कझक् सोवियत् सोशियलिस्त् रिपब्लिक् नाम्ना यु एस् एस् आर्-भागत्वेन परिगणितः ।

१९९१ तमस्य वर्षस्य डिसेम्बर्मासस्य १६ दिनाङ्के कझकस्थान् स्वतन्त्रदेशत्वेन उद्घोषितः । नर्सुल्तान् नझर्वयेव् अस्य देशस्य प्रथमः अध्यक्षः जातः । देशस्य राजनैतिकीं स्थितिं सम्पूर्णतया निगृह्णाति अयम् अध्यक्षः । स्वातन्त्र्यस्य प्राप्तेः अनन्तरं देशस्य आर्थिकस्थितेः वर्धनाय परिश्रमः क्रियमाणः अस्ति । विदेशीयव्यवहारेषु अपि प्रगतिः दृश्यते । अयं देशः विभिन्नासंस्कृतैः युक्तः अस्ति । ६३% जनाः कझक्जनाः विद्यन्ते । ७०% जनाः इस्लामधर्मस्य अनुयायिनः । अवशिष्टेषु अधिकांशाः क्रिस्तमतावलम्बिनः । कझक्भाषा एव देशस्य भाषा । कार्यालयेषु रशियन्भाषा अपि उपयुज्यते ।

कझकस्थानस्य सेना

राजनैतिकी व्यवस्था[सम्पादयतु]

कझकस्थानम् अध्यक्षशासनयुतम् । अस्य देशस्य एकमेवाद्वितीयः अध्यक्षः अस्ति नर्सुल्तान् नझर्बयेवः । अध्यक्षः समग्रायाः सेनायाः प्रमुखः च । कझकस्थानस्य सर्वकारे प्रधानमन्त्री अन्ये मन्त्रिणश्च विद्यन्ते । लोकसभायां त्रयः उपप्रधानमन्त्रिणः १६ मन्त्रिणश्च विद्यन्ते । २००७ तमस्य वर्षस्य जनवरीमासस्य १० दिनाङ्कतः करिम् मसिमोवः प्रधानमन्त्रिरूपेन कार्यं कुर्वाणः अस्ति । लोकसभायाम् अधोगृहम् (मजिलिस्) उपरिगृहम् (सेनेट्) च विद्येते । मजिलिस्मध्ये १०७ स्थानानि विद्यन्ते । सेनेट्मध्ये ४७ सदस्याः विद्यन्ते । अध्यक्षः ७ सेनेट्जनानां नियुक्तिं करोति ।

राष्ट्रियतैलानिलसंस्थायाः कझमुनैग्यास्-मुख्यकार्यालयः

भूगोलम्[सम्पादयतु]

अयं जगति बृहत्तमः स्थलरुद्धप्रदेशः विद्यते । अस्य देशस्य ६,८४६ कि मीटर्मितः सीमाभागः रशियादेशेन सह, २२०३ कि मीटर्मितः सीमाभागः उझबेकिस्थान्देशेन सह, १५३३ कि मीटर्मितः सीमाभागः चीनादेशेन सह, १०५१ कि मीटर्मितः सीमाभागः किर्गिस्थान्देशेन सह, ३७९ कि मीटर्मितः सीमाभागः तुर्क्मेनिस्थान्देशेन सह च संविभक्तः अस्ति । अस्तन, अल्मटि, करगण्डि, शिम्केण्ट्, अत्यरौ, ओस्केमेन् इत्येतानि प्रमुखानि नगराणि । अयं देशः ४०- ५६ उत्तर-अक्षांशे, ४६-८८ पूर्व-रेखांशे च विद्यते । देशस्य महान् भागः एशियाखण्डे विद्यते, अल्पश्च भागः पूर्व-युरोपखण्डे विद्यते ।

चतुरस्रकिलोमीटर्मिता कझक्-समभूमिः देशस्य त्रिषु एकांशः अस्ति । जगति बृहत्तमशुष्कसमप्रदेशः विद्यते । अत्र विद्यमानाः प्रमुखाः नद्यः सरोवराश्च - अराल्-सी, इलि-नदी, इषिम्-नदी, उरल्-नदी, सिर्-दर्य, चर्यन्-नदी, जार्ज्, बल्खाष्-सरोवरः, झाय्सन्-सरोवरश्च ।
अद्यतनीयम् आल्मटिनगरम्

आर्थिकव्यवस्था[सम्पादयतु]

युरेनियम्-बहिर्वाणिज्ये अग्रेसरः अस्ति अयं देशः । गोधूमः, वस्त्रोद्यमः इत्यादिषु अपि वाणिज्यम् अधिकम् । २००० तमे वर्षे कझकस्थानेन अन्ताराष्ट्रिय-धनसाहाय-संस्थायै (International Monetary Fund (IMF)) ऋणप्रत्यर्पणम् अकरोत् निश्चितावधितः सप्तभ्यः वर्षेभ्यः पूर्वमेव । २००२ तमस्य वर्षस्य मार्च्मासे अमेरिकादेशस्य वाणिज्यविभागेन अमेरिकावाणिज्यविधेः अनुसारं कझकस्थानाय विपणि-वाणिज्यानुमतिः प्रदत्ता । एतेन महान् लाभः जातः ।

कृषिः[सम्पादयतु]

कझकस्थानस्य आर्थिकतायां १०.३% भागः भवति कृषिक्षेत्रस्य । देशस्य चतुरस्रकिलोमीटर्मितः भागः कृषिभूम्या युक्तः अस्ति । देशस्य मुख्यफलोदयाः - गोधूमः, बार्लि, कार्पासः, व्रीहिश्च ।

बाह्यशृङ्खला[सम्पादयतु]

Government
"http://sa.wikipedia.org/w/index.php?title=कजाकस्थान&oldid=258829" इत्यस्माद् पुनः प्राप्तिः