नेपालदेशः
| ध्येयवाक्यम्: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी | |
| राष्ट्रगीतम्: "सयौ थुङ्गा फ़ूलका हामी" | |
| राजधानी | काठमाण्डु (नेपाली: काठमाडौं) |
| बृहत्तमं नगरम् | काठमाण्डु (नेपाली: काठमाडौं) |
| देशीयता | नेपाली |
| व्यावहारिकभाषा(ः) | नेपाली[१] |
| प्रादेशिकभाषा(ः) | नेपाल् भाषा, मैथिली, भोजपुरी, थारु, गुरुङ्ग्, तमङ्ग्, मगर्, आवधी, शेर्पा, किरन्ती, लिम्बू तथा इतर १०० विविध मौलिक भाषाः। |
| राष्ट्रीयभाषा(ः) | |
| सर्वकारः | Federal republic |
| - राष्ट्रपतिः | राम वरण यादवः |
| - प्रधानमन्त्रिः | खिलराज रेग्मी |
| विधानसभा | |
| Unification | |
| - Kingdom declared | २१ डिसेम्बर् १७६८ |
| - State declared | १५ जनवरि २००७ |
| - गणराज्यम् अभवत् | २८ मै २००८ |
| विस्तीर्णम् | |
| - आविस्तीर्णम् | १४७,१८१ कि.मी2 (९४ वां) |
| ५६,८२७ मैल्2 | |
| - जलम् (%) | २.८ |
| जनसङ्ख्या | |
| - २०१०स्य माकिम् | २९,३३१,०००[२] (४०त्तम) |
| - २०११स्य जनगणतिः | २६,६२०,००० () |
| - सान्द्रता | १९९.३/कि.मी2(६२ वां) ५१८.१/मैल्2 |
| राष्ट्रीयः सर्वसमायः (PPP) | २०१०स्य माकिम् |
| - आहत्य | $३५.८१३ billion[३] () |
| - प्रत्येकस्य आयः | $१,२७०[३] () |
| राष्ट्रीयः सर्वसमायः (शाब्द) | २०१०स्य माकिम् |
| - आहत्य | $१५.८३६ billion[३] () |
| - प्रत्येकस्य आयः | $५६२[३] () |
| Gini(२००३–०४) | ४७.२ () |
| मानवसंसाधन सूची (२०११) |
|
| मुद्रा | नेपालरूप्यकाणी (NPR) |
| कालमानः | एन् पी टी(NPT) (UTC+५:४५) |
| - ग्रीष्मकालः (DST) | न अनुसृयते (UTC+५:४५) |
| वाहनचालनविधम् | वामतः |
| अन्तर्जालस्य TLD | .np |
| दूरवाणीसङ्केतः | +९७७ |
नेपाल एशिया महाद्वीपे दक्षिणे कश्चित् देश: अस्ति । नेपालस्य उत्तरे चीनदेश: अस्ति । पश्चिमे, पूर्वे एवं दक्षिणे भारत देश: अस्ति । हिमालयस्य सानुप्रदेशे स्थितं राष्ट्रं परितः भूभागेनैव आवृतम् अस्ति । नेपाळस्य उत्तरे टिबेट अस्ति। परितः विश्वस्य अत्युन्नतपर्वताः १० सन्तीति भावयामश्चेत् तेषु अष्टपर्वताः नेपाळे एव सन्ति । नेपाळस्य विस्तीर्णं १४१७०० च.कि.मी । जनसऽङ्ख्या २.७ कोटिः । राष्ट्रस्य राजधानी काठमान्डु ।
अन्तर्विषयाः |
[सम्पादयतु] इतिहासः
क्रि.पू ६, क्रि.पू ५ शतके च एषः प्रदेशः शाक्यशासने आसीत् । शाक्य राजकुमारेषु एकः सिध्दार्थः गौतमः प्रापञ्चिकव्यामोहं त्यक्त्वा दिव्यं ज्ञानं प्राप्य अग्रे बुध्दः इति विख्यातः । क्रि.पू २५० समये एषः प्रदेशः उत्तरभारतस्य मौर्यसाम्राज्यस्य अङ्गमासीत् । अनन्तरं गुप्तराजाः, अनन्तरं लिच्छविराजाः अनन्तरं चालुकयाः एतस्य प्रदेशस्य उपरि अधिकारं स्थापितवन्तः । अनन्तरं एषः प्रदेशः विविधरीत्य़ा विभक्तः लघुराजैः पालितश्च । १७६५ तमे वर्षे पृथ्वीनारायण शह इति कश्र्चन गूर्खराजः नेपाळस्य एकीकरणं कृतवान् । भारतं यदा ब्रिटिषाधीनं आसीत् तदा नेपाळस्य स्वायत्ताधिकारः आसीत्। आङग्लैः सह एकस्मिन् युध्दे पराजितः चेदपि सन्धिं कृत्वा स्वायत्तताम् अरक्षत् । एतदनुसारं नेपाळः स्वप्रदेशम् उत्तरखण्डं, हिमाचलप्रदेशं, सिक्किम् भागं च अङग्लेभ्यः अयच्छत् । ततः आरभ्य राजशासनमेव नेपाळे आसीत् । एषु दिनेषु प्रजासत्तानिमित्तम् आन्दोलनं जातम् । बहुपक्षीया सांसदीया व्यवस्था आगता, राज्ञः अधिकारः न्यूनीकृतः । १९९१ तमे वर्षे प्रथमवारं बहुपक्षणाम् मध्ये मुक्तनिर्वाचनं जातम् ।
[सम्पादयतु] भौगोलिकं लक्षणम्
नेपाळदेशस्य पूर्वतः पाश्चिमान्तभागपर्यन्तं ८०० कि.मी भवति । दक्षिणतः उत्तरान्तपर्यन्तं २०० कि.मी भवति । तिर्यक् पट्टिकारीत्या भारतस्य उत्तरभागे अस्ति । भौगोलिकरीत्या उन्नतपर्वतप्रदेशः, लघुगिरीणां प्रदेशः, तराय् प्रदेशः च इति विभागः शक्यते । भारतसीमानिकटे गङ्गायाः समतलप्रदेशः अस्ति । एतस्मिन् प्रदेशे कोसी, नारायणी ( गण्डकी ) कर्नाली नद्यः च जलम् आनयन्ति । लघुगिरिप्रदेशे काठ्मण्डुखनिप्रदेशः अस्ति । एतस्य देशस्य अत्यधिकजनाः अत्र वसन्ति । एतस्मिन् प्रदेशे महाभारतलेख् शिवालिकपर्वतश्रेणयः च सन्ति । एताः पर्वतश्रेणयः मध्यमस्तरस्य सन्ति । एतासामौन्नत्यं १००० मीटरतः ४००० मी पर्यन्तम् अस्ति ।
उन्नतपर्वतप्रदेशे प्रपञ्चस्यैव अत्युन्नतपर्वताः सन्ति । एवरेस्ट, काञ्चनगङगा, अन्नपूर्णा, मकालु, धवळगिरिः इत्यादयः एतस्मिन् विभागे सन्ति । अत्र घनवनानि सन्ति । परन्तु सद्यः अरण्यनाशः मानवानां दुष्टेच्छाकारणतः प्रचलति । एतेन प्रकृतेरुपरि विपरीतपरिणामः दृश्यते ।
[सम्पादयतु] अर्थव्यवस्था
नेपाळः कृषिप्रधानः देशः । ७६ % जनाः कृषिं कुर्वन्ति । व्रीहिः, गोधूमः, शणः एतेषां कृष्युत्पन्नानि । यन्त्राणि कृष्युत्पन्नानां संस्काराय उपयुज्यन्ते । प्रवासोद्यमः देशस्य प्रमुखः आर्थिकः व्यवसायः । नेपाळस्य बहुभागाः पर्वतमयाः इति कारणतः मार्गनिर्माणं कठिनम् । रेलयानमार्गनिर्माणम् इतोऽपि कष्टं व्ययकारि च । २००३ तमे वर्षे देशे ८५०० कि.मी मार्गाः आसन् । ५९ कि.मी रेल्वे मार्गः आसीत् । एतेन कारणेन निरीक्षितस्तरस्य आर्थिकी प्रगतिः न जाता । दूरसम्पर्कव्यवस्था न्यूनस्तरीया अस्ति । आधुनिकतन्त्रज्ञानं देशस्य जनतां प्राप्नोत् । नेपाळः विदेशस्य सहायधनम् अवलम्ब्य अस्ति । भारतम्, अमेरिका, जपान्, इङग्लेण्ड, युरोपियन् राष्ट्राणि च साहाय्यं कुर्वन्ति ।
[सम्पादयतु] इतरविषयाः
नेपाळः विश्वस्य एकमेव हिन्दुराष्ट्रम् । देशस्य अधिकृतभाषा नेपाली । मैथिली, भोजपुरी, अवधिभाषाः अपि भाष्यन्ते । नेपाळे पुरुषाणाम् आयुर्मानं महिलानामेपक्षया अधिकम् । समग्रप्रपञ्चे नेपाळे केवलम् इदृशी स्थितिः विध्यमानम् अस्ति । सांस्कृतिकविषयेषु नेपाळः टिबेटं भरतं च अनुसरति । उत्तरनेपाळे टिबेट्संस्कृतेः प्रतिकृतिः दृश्यते । अन्यत्र सर्वत्र हिन्दुसंस्कृतेः छाया दृश्यते । नेपाळः भारतं बहुधा अवलम्ब्य अस्ति । आर्थिकसहाय्यं, तन्त्रज्ञानं, रक्षणम् इत्यादिविषयेषु भारतात् नेपाळेन बहुसहाय्यं लभ्यते ।
मेची, कोशी, सगरमाथा, जनकपुर, बागमती, नारायणी, गण्डकी, लुम्बिनी, धवलागिरि:, राप्ती, कर्णाली, भेरी, सेती, महाकाली
नेपलदेशे दूरसंचाराव्यवस्था अतीव सुलवमस्ति ।
[सम्पादयतु] सन्दर्भ:
- ↑ According to Interim Constitution Nepali is only the official language (article 5, point 2). Other languages spoken as the mother tongue in Nepal are the national languages (article 5, point 1). According to article 5, point 3, all languages are accepted as official languages at the regional level. Today's more than 90% people speak Nepali as a 1st language. Nepal_Interim_Constitution2007
- ↑ Department of Economic and Social Affairs Population Division (2009) (PDF). World Population Prospects, Table A.1. 2008 revision. United Nations. http://www.un.org/esa/population/publications/wpp2008/wpp2008_text_tables.pdf. Retrieved 12 March 2009.
- ↑ ३.० ३.१ ३.२ ३.३ Nepal. International Monetary Fund. दिनांकः 21 April 2011.
- ↑ Human Development Report 2011. Human development index trends: Table G. The United Nations. दिनांकः 5 November 2011.
|
|
||||
|---|---|---|---|---|
| भूगोल : नेपाल: भूगोल | हिमाल | पहाड | महाभारत क्षृंखला | भित्री मधेश | चुरे | तराई]] | ||||
| विकास क्षेत्रा: पूर्वाञ्चल | मध्यमाञ्चल | पश्चिमाञ्चल | मध्यपश्चिमाञ्चल | सुदुरपश्चिमाञ्चल | ||||
| भाषा: नेपाली | नेपाल भाषा | तामाङ | किरांत भाषा | गुरुङ भाषा | मगर भाषा | मैथिली | भोजपुरी | शेर्पा भाषा | ||||
|
|||||||
