श्रीलङ्का

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Emblem of Sri Lanka.svg
Flag of Sri Lanka.svg

श्रीलङ्का एशियामहाद्वीपे दक्षिणदिशि विद्यमानः कश्चन देशः । अस्य अन्यत् नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी कोलम्बो अस्ति। अस्य देशस्य उत्तरभागे भारतदेश:, पूर्वभागे मालदीव च स्तः । अस्मिन् देशे सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः। लङ्कायाः उल्लेख: रामायणमहाग्रन्थे भवति। पाकजलसन्धेः मध्ये रामायणस्य कालीना रामसेतुः विद्यते इति प्रमाणितम् अस्ति ।

इतिहासः[सम्पादयतु]

रामायणकाले स्वर्णलङ्का इति उल्लिखितं स्थानमेव इदानीं श्रीलङ्कादेशः अस्ति । पूर्वं रावणस्य राजधानी आसीत् । अत्र इदानीं रामायणस्य स्मारकाणि , स्थानानि, वस्तूनि सङ्गृहीतानि सन्ति । एषः प्रदेशः उष्णवलये अन्तर्भवति । अतः अत्र विशिष्टं वातवरणं द्रृष्टुं शक्यते । अत्र अनेके पर्वताः, जलपाताः, वनानि च सन्ति । शिल्पकला, तान्त्रिककुशलता तृतीयशतकतः १४ शतकं यावत् अभिवृद्धिपथे आसीत् । श्रीलङ्कादेशे क्याण्डी, अनुराधपुरं पोलोन्नरवं प्रवासी स्थलानि सन्ति। नेगम्बोसिगिरिया, नुवार, इलियपिन्नवेल, कोलम्बो इत्यादीनि प्रेक्षणीयानि स्थाननि सन्ति । नेगम्बो (४१ कि.मी.) कोलम्बो समीपे डच्जनैः निर्मितं नगरमस्ति ।

दर्शनीयस्थानानि[सम्पादयतु]

अत्र दुर्गाणि नालाः (१०० कि.मी.) आकर्षकाः सन्ति । सिगरिया राजगृहं सा.श.४९५-६४७ समये निर्मितम् आकर्षकमस्ति । एतत् ग्रीष्मकालीनं राजगृहमासीत् । १२०० सोपाननि आरुह्य एतत् प्राप्तव्यम् । अतः एव संस्मरणीयः पर्वतः इति ख्यातः अस्ति । श्रीलङ्कादेशस्य अष्टमं अद्भुतमिव अस्ति शिलासमुच्चयः । सुन्दरतया शयानः सिंहः इवास्ति । क्याण्डीस्थानं कोलम्बोतः १२५ कि.मी. दूरे अस्ति । ५०० मीटर् उन्नते स्थले एतत् नगरमस्ति । पूर्वं देशस्य राजधानी आसीत् । अत्र गौतमबुद्धस्य चतुर्थशतककालीनः देवालयः अत्र अस्ति । जूलै-आगस्टमासयोः अत्र विशेषकार्यक्रमाः भवन्ति । तदा उत्सवे अलङ्कृताः गजाः, क्याण्डन् नृत्यजनाः, भेर्यादिविविधवाद्यानि यात्रायां सम्मिलितानि भवन्ति । नुवारम् इलियं प्रदेशः सागरस्तरतः अतीवोन्नते (२००० मीटर्) स्थितः गिरिधामप्रदेशः अस्ति । इतः दृश्यवीक्षणम् अतीव सन्तोषदं भवति ।कोलम्बो नगरं प्रमुखनौकानिस्थानमस्ति । अत्र वाणिज्यव्यवहाराः राजनीतिकार्याणि च प्रचलन्ति । जनाः स्नेहप्रियाः विश्रान्तिप्रियाः च सन्ति ।

पुरणेतिहाससाक्षिणः[सम्पादयतु]

कोलम्बोसागरतीरं १३४० कि.मी. दीर्घमस्ति । सुन्दरस्थलमेतत् विहारयोग्यम् । समीपे राम्बोडजलपातः अस्ति । श्रीलङ्कादेशस्य अतीवोन्नतः पर्वतः (१२४५ मीटर्) आदाम्पिक् इत्यस्ति । तत्र शिलयां बृहत्पादचिन्हानि (१६०.७५ सेण्टी मीटर्) दर्शनीयानि । बुद्धस्य पादौ इति बौद्धाः विश्वसन्ति। आडन् पादौ इति क्रैस्ताः वदन्ति । आड् स्वोच्चाटनानन्तर अत्र एकपादेन स्थितवान् इति प्रतीतिः अस्ति । श्रीलङ्कादेश विश्चसंस्या इतिहासकालिक विशिष्ट क्षेत्रेषु एक घोषितवति अस्ति ।सर्वधर्मायाः जनाः अत्र निवसन्ति । भारतस्य दक्षिणे भागे हिन्दुमहासागरे स्थित बृहतद्वीपः ।

जलमार्गः[सम्पादयतु]

रामेश्वरतः जलमार्गेण नौकायानगमनं शक्यम् । चेन्नैनैतः विमानयानसम्पर्कः अस्ति ।

"http://sa.wikipedia.org/w/index.php?title=श्रीलङ्का&oldid=272287" इत्यस्माद् पुनः प्राप्तिः