केरळम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

केरळम् (English: Kerala) अथवा केरलं भारतस्य अदक्षिणे प्रान्ते स्थितः राज्यमेकम् अस्ति। केरळदेशे कैरळी (कैरली) अथवा मलयाळम् (मलयालम्) इत्येषा भाषा उपयुज्यते‌। केरळदेशस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च तमिऴ्‌नाडु, उत्तरे कर्णाटकं च।

भारते केरळराज्यम्

अन्तर्विषयाः

[सम्पादयतु] चरित्रम्

गोकर्णेषु आरभ्य कन्याकुमारीक्षेत्रं यावदायतो भूभागः किल कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणश्च केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टो मध्यभागः एव सम्प्रति केरळराज्यं भवति ॥

केरळराज्यस्य मानचित्रम्

[सम्पादयतु] भूमिशास्त्रम्

भारतस्य दक्षिणे भागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये[१] एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरलं मलनाड् (गिरिप्रदेशः), इडनाड् (मध्यपदेशः), तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् (गिरिप्रदेशः) । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः २१८५० च.कि.मी इदं केरळविस्तृते ५६% भवति। औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव (२६९४ मीटर्)।

[सम्पादयतु] प्राथमिकविवरणानि

राजधानी श्री अनन्तपुरम् (तिरुवनन्तपुरम्)
विस्तृतिः ३८८६३ च.कि.मी
जनसंख्या ३१, ८४१,३७४(२००८)
स्त्रियः १६.३६,९५,५५ (२००८)
- १७३६६३८७ (२०११)
पुरुषाः १५,४७१,४२० (२००८)
- १६०२१२९० (२०११)
स्त्री-पुरुषानुपातः १०३६ स्त्रीणां १००० पुरुषाः
जननप्रतिशतम् १००० जनानां १७.०% (१९९५)
- १४.६% (२००८)
मरणप्रतिशतम् १०००जनानां ६.० % (१९९५)
- ६.६% (२००८)
आयुर्दैर्ध्यम् ६९(१९९५), ७१ (२००८)
अधिकजनसंख्यायुतजनपदः मलप्पुरम्
अल्पजनसंख्यायुक्तजनपदः वयनाड्
नियमसभामण्डलानि १४०
लोकसभामण्डलानि २०
राज्यसभास्थानानि
पञ्चायताः ९७८
विकसनब्लोकृ १५२
ग्रामाः १०१८
उपमण्डलानि ६३
सुशिक्षितजनप्रतिशतम् ९३.९१ (२०११)
कार्पोरेशन्
नगरसभाः ५३
तीरदेशदैर्घ्यम् ५८० कि.मी
नद्यः ४४
पाश्चिमगामिन्यः ४१
उत्तरगामिन्यः
राज्यपशुः गजः
राज्यभाषा मलयाळम्
राज्यपक्षी चातकः
राज्यवृक्षः नालिकेरः
राज्यपुष्पम् कर्णिकारः
दीर्घा नदी निळा (भारतपुऴा) -२५१ कि.मी
उन्नतनदी आनमुटी – २६५२३
प्रतिशीर्षवार्षिकादयः ९००० रु
केरळस्य सुन्दरः परिसरः

[सम्पादयतु] वाहनपञ्जीकरणसंख्याः

केरलम् –KL

KL 01 TVM (तिरुवनन्तपुरम्)
KL 02 KLM (कोल्लम्)
KL 03 PTA (पत्तनन्तिट्टा)
KL 04 PTA (आलपुळा)
KL 05 KTM (कोट्टयम्)
KL 06 IDK (इडुक्कि)
KL 07 EKM (एरणाकुळम्)
KL 08 TSR (तृश्शूरू)
KL 09 PKD (पालक्काड)
KL 10 MCP (मल्लप्पुरम्)
KL 11 KZB (कोऴिक्कोड्)
KL 12 WYD (वयनाड्)
KL 13 KNR (कण्णूरु)
KL 14 KSD (कासरकोड)

[सम्पादयतु] नद्यः

केरले ४४ नद्यः सन्ति । तासु ४१ नद्यः पूर्वभागात् पश्चिमदिशि अरबसागरेण ततलयं प्राप्नुवाद्भिः कासारैश्च मिलन्ति । दीर्घा नदी- निळा (भारतप्पुळा) ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च ।
आनमला (तमिळ्नाड) एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार (चूणी/पूर्णा) देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति ।
चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी [[कर्णाटकम्।कर्णाटकं} प्रति च गच्छति ।

[सम्पादयतु] कासाराः

२६० च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं ५५ च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् ।
प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः ४-च.कि.मी अगधता ४७ पादमिता ।

[सम्पादयतु] नदीनां नामानि

पाश्चिमवाहिन्यः

विशेषकला कथाकेळिः
क्रमसंख्या नाम दैर्घ्यम्
नेय्यार् ५६
करमना ६७
वामनपुरम् ८०
इल्लिक्करा ५६
कतलटा १२०
अच्चनकोविल १२८
पम्पा १७६
मणिमला ९१
मीनाच्चिल् ६७
१० मूवाट्टुपुषा १२०
११ पेरियार् (पूर्णा) २२७
१२ चालक्कुटी १४४
१३ करुवण्णूरु ४८
१४ कीच्चेरी ४३
१५ भारतप्पुषा (निला) ३७४.४०
१६ तिरुरु ४८
१७ पूरप्परम्प
१८ कटलुण्टी १३०
१९ चालियार् १६८
२० कल्लाय २२
२१ कोरप्पुषा ४०
२२ कुट्टयाटी ७३
२३ माही ५४
२४ तलशशेटी २८
२५ अञ्चरल्लण्टी ६४
२६ वलपट्ट्णम् ११२
२७ कुप्पम् ७०
२८ रामपुरम् १९
२९ पेरुम्पा ४०
३० कव्याय २२
३१ कार्यङ्कोट् ६४
३२ नीलेश्वरम् ४६
३३ चिट्टार् २५
३४ बेक्कल १०
३५ कलनाट
३६ चन्द्रगिरिः १०४
३७ मोग्राल् ३३
३८ कुम्पला १०
३९ षिरिया ६०
४० उप्पला ५०
४१ मञ्चेश्वरम् १६

[सम्पादयतु] पूर्वगामिन्यः

१.पारपार २.भवानी ३.कबनी

[सम्पादयतु] धातुविभवाः

इल्मनैट रुट्टल्, मोणोसैट्ट, सिर्कोण्, गार्नैट्ट, सिलिमनैट्ट, माग्नट्टैट्ट इत्येते धातवः केरलस्य् तीरप्रदेशेवु सन्ति । ग्रफैट्टः तिरुवनन्तपुरं ननपदस्य वेतलनाट चाङ्डभाषेषु कोतलं जनपदस्य पिरालिमट्टे पेरिङ्डालायां चिडूरे मणवकलाटे च ग्राफैट्ट निक्षेपोऽस्ति ग्लाससिकताः –आलप्पुषायां चेर्तला, पालिप्पुर पाणावतली, कोलकोतमङ्गलं प्रदेशेषु दृश्यते । बोळसैट- वटक्कुम्मरी, चिट्टवट्टं शूरनाट, आदिच्चनतनूरु ग्रामेषु । अयः कोषिकलोटे

[सम्पादयतु] वातावरणम्

प्रायेण समशीतोष्णवातावरणम् । दक्षिण-पश्चिम-कालवर्षवातेन आटम्भलम् (मे.ज्ञण) ऋषभार्धवृष्टिः उत्तर-पूर्वकालेवर्ष्वातेन आरभ्यमाना (ओक्टोबर्, नवम्बर) तुलावृष्टिञ्च भवति केरलस्य वृष्टिकालः डिसम्बरमध्यकालात् फेब्रवरीमध्यपर्यन्तं हिमकालः (शिशिरः) मार्जनः मेपर्यन्तं ग्रीब्मकालः राज्ये प्रतिवर्षं तायः ३००३-८ मि.मी वृष्टिर्लभ्यते ।

[सम्पादयतु] जनपदाः

आहत्य १४ विस्तृत्या बृहत् इड्डक्की, लधुः आलप्पुषा

[सम्पादयतु] तिरुवनन्तपुरम्

विस्तृतिः -२,१९२ च कि.मी
साक्षरता -८५.७ %
जनसान्द्रता -१३४१ / च.कि.मी
तालूकाः-४- तिरुवनन्तपुरम्, नेट्मङ्डाट्, नेय्याट्टिन्करा, चिरयिनकीष
कोर्परेशन्-तिरुवनन्तपुरम्
नगरपालिकाः नेट्याट्टिनकरा, नेट्टमङ्डाट, आट्टिङ्डल्, वर्कला
ब्लोकपञ्चायताः –पारश्शाला, वट्टियूरकाव, कषळ्ळूट्टम्, नेमम्-पेरुंकटविला, अतियन्नूरु, वेतलनाट बामनपुरम्, किलिमानूर
विद्यालयाः -९५६
मुख्याकृषिः –दारुकन्दः
प्रधानाः नद्यः निय्यार, करमना, वामनपुरम्
कासागः –इट्वा, नटयरा, कग्निंकुलम्, वेली, अञ्चुतीङ्ड।
उन्नतश्रृङ्गः-अगस्त्यमला-६१३२ पादमितं दैर्ध्यम्

[सम्पादयतु] विनोदसञ्चारकेन्द्राणि

कोवलम्-तिरुवनन्तपुरतः १८ कि.मी दूरे विद्यमानं समुद्रतीरसुखबासकेन्द्रम् । समुद्रयुखास्थिताः महाशिलाः तरणाय अचिता अननाधता, आतपसेवायै उचितं सिकतामयं विशालं तीरम् इत्येतानि आकर्षकाणि ।
नेटयार डाम्-नगरात्, २९ कि.मी, उत्तरपूर्वादिशि । लधुवन्यभृगर्सरक्षणकेन्द्रम् । निटिनिकरमध्यसंस्थः तडाणः आकर्षकः ।
वर्कला –श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।
तिरुवनन्तपुरं नगरम्- श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।
प्राणिसङ्गहालयः म्यूसियम्
शंखमुखं समुद्रतीरम्
राजशविवर्यवर्यस्य चिग्राणां संस्थाणकेन्द्रम् तिचित्रा आर्ट ग्यालरी स्थानानि ।
केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
रोकट् विक्षेपणकेन्द्रम-तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् १९६९ आणस्त १५ राष्ट्राय अर्पितम् ।
केरलस्र्वकलाशालायाः (विश्वविद्यालयस्य) आटलनम् कार्यवट्टं नाम ग्रामं ।
विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् भारतस्य प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव ।
दूरदर्शनसंप्रेषण्निलयः -१९८२ नवम्बरमासे आरब्धः
श्रीचित्रामेडिकल् सेन्टर्- राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्
विमानपलनम् –वलियतुरायाम् ।

[सम्पादयतु] कोतलम् (कोलम्बः)

आस्थानम् –कोल्लम्
विस्तृतिः-२४९१.चकि.मी
साक्षरता -८७% (१९९७)
जनसान्द्रता -९३०/ च.कि.मी
तालूकाः ५ कोतलम्, कोट्टारक्करा, पलनापुरम्, करुनाणप्पल्ली, कुन्नत्तूरु
नगरपालिकाः - कोलनम्, पुनलूरु, परवूरु लोकपञ्चायलः ओच्चिरा , करुनणप्पल्ली, चवरा, कोहारक्करा, इलिक्करा वेट्टिक्कवला, पलनापुटम्, अञ्चल, चिड्डमला, चरयमङ्गलम्, मुखातला शास्तंक्कोट्टा, अञ्चालुमूट्
विद्यालयाः -८९८
प्रधाननद्यः –कतलटयार, इत्तिक्करयार
कासाराः –अष्टमुटी, परवूरु, इटवा, नटयरा
शास्तांब्लेट्टा शुद्धजलताडाणः
तीर्थाटनकेन्द्रम –अच्चनकोविल् आर्यङ्काव, कुलेलूपुषा धर्मशास्तृमन्दिराणि

[सम्पादयतु] पलनन्तिट्टा

आस्थानम्-पलनन्तिट्टा

जनसान्द्रता-४३५/ च.कि.मी
विस्तृतिः -२६४२ च.कि.मी
साक्षरता -९३.२९ %
तालूकाः ५ तिरुवतला, कोषञ्चेरी, मतलप्पतली, रान्नी, अटूरु
नगरपालिकाः –पतनन्तिट्टा, तिरुवतला, अटूरु
ब्लोकपञ्चायताः –मल्लप्पतली, पुलिककीष, कोचिप्रम इलन्तूरु रान्नी, कोन्नी, पन्तलम्, परळ्ळोट कुलनटा ।
विद्यालयाः -७३३ (१९९७-९८)
समुद्ररीरराहितजनपदः । विस्तृतेः अधीप्रतिशतमपि वनमेव ।
शबरिगिरिः (३७९० प्रादमितम् ), पूच्चिगिरिः (५८४७ पादमिता च आसीत् जनपद एव ।
प्रधानाः नद्यः-पम्पा , मणिमला , अच्चनकोबिल्

[सम्पादयतु] विनोदसञ्चारलेन्द्राणि

पेरुन्तेनरुवी, चरलकुन्तु च

कोन्नी गजसंरक्षणकेन्द्रम् –गजपरिशीलनकेन्द्रम्
आरन्युला-लोहदर्पणनिमणिकेन्द्रम् –अयं दर्पणः विश्वविठयातः । काचस्य उपयोगं विना विविधैः लोहमिश्रितैः निर्मियते ।
तीर्थस्थानम्-पार्थसारथिमन्दिरम् –आरन्मुला

[सम्पादयतु] आलपुषा

आट्यानम्-आलप्पुषा
विस्तृतिः -१४१४ च.कि.मी
साक्षरता-९४%
जनसान्द्रता-१५८५/ च.कि.मी
तालूकाः -६ चेर्तला, कुट्टनाट कार्तिकप्पळ्ळी, मावेलिक्करा, चेङ्डन्नुरु, अम्पलप्पुषा
नगरपालिकाः ५-आलप्पुषा, कायङ्कुलम्, चेर्तला, मावेलिक्करा, चेङ्डन्नुरु
ब्लोकपञ्चायताः -१२ तैक्काट्टशशेरी, पट्टणक्काट, कञ्चिकुषी, आर्याट, अम्पलप्पुषा, चम्पक्कुलम्, वेलियनाट चेङ्डन्नुरु, हरिप्पाट्, मावोलिक्करा, भरणिक्काव मुतुकलम्
विद्यालयाः -७४३
अध्यापकपरिशीलनकेन्द्राणि -९
सर्वकारीयाः ऐ.टि.ऐ-१
ऐ.टि.सी-३७
मुख्यष्टषिः –व्राहिः नालिकेरः
प्रधाननद्यः –मणिमला, पम्पा, अच्चनकोविल कासारभूयिष्ठजनपदः । नैकाकेलीनां केन्द्रम् । विनोदसञ्चारलकेन्द्राणि
आलप्पुषा –प्राचीननैपत्तनम्, व्यापारकेन्द्रं च ।

राजा केशवदासः एवास्य नौपलनगरस्य स्थापकः । प्रतिवर्षम् आगस्त् मासे अत्रत्ये पुन्नमटकासोट् विख्याता नेहरुद्रोपी नौककेयिः प्रचलति । अम्पलप्पुषा – श्रीकृष्णमन्दिरम् । अश्रत्यं वर्णराञ्चितं क्षीरपायसं विख्यातमास्ति । तथा नौलकोभिः नाटकशाया च ख्याते । चम्पककुलम् –अत्रत्या मूलनक्षतृनौकाकिलिः प्रसिद्धा) १९५७ आगस्त-१७ अस्य जनपदस्य निर्मितिः अभवत् ।

[सम्पादयतु] कोट्टयम्

आरचानम्- कोट्टयम्
विस्तृतिः -२२०३ च.कि.मी
साक्षरता -९४% (१९९१)
जनसान्द्रता -८२६ /च.कि.मी
तालूकाः ५ कोट्टयं, चङ्डनाश्शेरी, वैक्यं, मीनाच्चिल्, काञ्चिरप्पळ्ळी
नगरपालिकाः -४ कोट्टयम्, चङ्डनाशशेरी, वैक्यम्,माळा
विद्यालयाः -९११ (१९९७-९८)
मुख्यकृषिः –नालिकेरः, व्रीहिः रब्बर, मरीचम्।
समुद्रतीररहितोऽयं जनपदः १९४९तमे वर्षे जुलैमासे निर्मितः ।१९८९ तमे वर्षे कोट्टयं नगरं भारतस्य प्रथमं सम्पूर्णसुशिक्षितनगरमभवत्।
प्रधाना नदी मीनच्चिल
प्रधानाकर्षककेन्द्रम्

कुमख्यम्- कोट्टयात् १० कि.मी दूरे वेम्पनाट् साक्षरस्य तीरे विद्यमानं विन्येदसञ्चारकेन्द्रम् । पक्षिसंरक्षणकेन्द्रमपि अत वर्तते ।

[सम्पादयतु] सम्‍बद्धविषयाः

[सम्पादयतु] बाह्यगवाक्षा:

[सम्पादयतु] आधाराः

  1. Kerala – States and Union Territories – Know India National Portal of India
"http://sa.wikipedia.org/w/index.php?title=केरळम्&oldid=182429" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु