यमुनानदी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Yamuna (यमुना)
River
Taj Mahal in Agra on the banks of Yamuna
Country India
States उत्तराञ्चलः, उत्तरप्रदेशः, हरियाणा
Tributaries
 - left Tons, Hindon, Sarda, Kunta, Gir, Rishiganga, Hanuman Ganga
 - right Chambal, Betwa, Ken, Sindh
Cities Yamuna Nagar, देहली, Mathura, आग्रा, Etawah, Kalpi
Source Yamunotri
 - elevation फलकम्:Unit height
 - coordinates 31°01′0.12″N 78°27′0″E / 31.0167°N 78.45°E / 31.0167; 78.45
Mouth Triveni sangam
 - elevation फलकम्:Unit height
 - coordinates 25°30′N 81°53′E / 25.5°N 81.883°E / 25.5; 81.883
Length १,३७६ km (८५५ mi)
Basin ३,६६,२२३ km2 (१,४१,३९९ sq mi)
Map

यमुना दक्षिणेशियामहाद्वीपे भारतदेशे एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता इमालये कलिन्दपर्वतात् उत्पद्यते।

सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् उत्तराखण्डराज्यस्य उत्तरकाशीमण्डलस्य यमुनोत्री इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य उत्तरप्रदेशस्य अलाहाबाद् प्रयागः इत्यत्र गङ्गानद्या मिलति । एषा नदी उत्तराखण्ड-हरियाणा-देहली-उत्तरप्रदेशराज्यानां मार्गेण प्रवहति । देहली मथुरा आग्रा इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः चम्बल्, बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति । सा सूर्यपुत्री यमस्य स्वसा च।

प्राचीनः इतिहासः पुराणं च[सम्पादयतु]

कूर्मवाहिनी यमुना

यमुना कूर्मवाहिनी अस्ति। पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा सूर्यस्य पुत्री यमस्य स्वसा च। विवस्वतः(सूर्यस्य) सञ्जनायाः च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव महाभारतस्य वेदव्यासस्य जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन सोमयागः सम्पन्नः इति कथा श्रूयते । मथुरा-वृन्दावनयोः वहन्ती यमुना श्रीकृष्णस्य लीलानां साक्षीभूता तिष्ठति ।

विविधानि नामानि[सम्पादयतु]

यमुनां जमुना इत्यपि आह्वयन्ति । प्रसिद्धः इतिहासकारः टालेमी एतां द् यामौन् इति आहूतवान् अस्ति । लीनी जोमान्स् इति, अरियन् जोबेर्स् इति च आहूतवन्तौ स्तः । देवप्रयागतः गङ्गायमुनयोः सङ्गमस्थानं प्रायागं यावत् विद्यमानः भूभागः अन्तर्वेदी, शासस्स्थली, ब्रह्मावर्तः इत्यादिभिः नामभिः प्रसिद्धः दृश्यते ।

इतरे विषयाः[सम्पादयतु]

विश्वे अत्यन्तकलुषितनदीषु यमुना अन्यतमा । एतस्य मालिन्यस्य प्रमुखं कारणं देहलीनगरस्य त्याज्यवस्तूनि । यमुनायाः शुद्धीकरणार्थं कृताः अनेके प्रयत्नाः विफलाः सन्ति । सत्लज्-यमुना नद्योः योजनार्थं कश्चन नौकामार्गः निर्माणघट्टे अस्ति । यदा एतत् कार्यम् सम्पत्स्यते तदा भारतस्य पूर्वभागतः पश्चिमभागपर्यन्तं नौकायानसम्पर्कः शक्यः । कृष्यर्थं प्रथमा कुल्या १८३० तमे वर्षे निर्मिता ।सहारनपुर- मुझफ़रपुर- मेरठमण्डलानां कृते एषा पूर्वभागस्य कुल्या जलं कल्पयति । पश्चिमभागस्य कुल्या अम्बाला- कर्नाल- हिस्सार-देहलीप्रदेशानां कृषेः आधारभूता अस्ति । पूर्वम् एषा कुल्या १३५६ तमे वर्षे फ़िरोजशाह्-३ सुल्तानेन निर्मिता आसीत् । १५६८ तमे वर्षे अकबरः जीर्णोद्धारं कारितवान् । स्वस्य जन्मस्थानात् कलिन्दशिखरात् ८६०मैल् यावत् प्रवह्य गङ्गया मिलितवती एषा कलिन्दकन्या। अग्रे बाणगङ्गा - चम्बल्- बेत्वा नद्यः यमुनया मिलन्ति । यमुनायाः जलं कदाचित् मन्दनीलं पुनः कदाचित् कृष्णवर्णीयं भवति।


"http://sa.wikipedia.org/w/index.php?title=यमुनानदी&oldid=242002" इत्यस्माद् पुनः प्राप्तिः