सिन्धूनदी
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
सिन्धुः भारतस्य दीर्घतमा नदी। सिन्धुः मानससरोवरस्य समीपे उद्भवति। एषा नदी कश्मीरे सृत्वा पाकिस्थानदेशे सिन्धुप्रदेशे पश्चिमसमुद्रं संयाति। तस्याः सम्युक्तनद्यः शुतुद्री, इरावती, चन्द्रभागा, विपाशा, वितस्ता, कुभादयः नद्याः सिन्धुनद्या सम्मिलिताः भवन्ति। सा भारतभूभागस्य अतिदीर्घा नदी। अस्याः तीरे अनेके राज्याः स्थापिताः। सा ऋग्वेदे अपि शंसिता। सा पवित्रा इति अनेके जनाः मन्यन्ते। उक्तञ्च "गङ्गे च यमुने चैव गोधावरी सरस्वती नर्मदे सिन्धु कावेरी जलेSस्मिन् सन्निधिम् कुरु"
[सम्पादयतु] जन्तवः
सिन्धुनद्याम् अन्धाः शिशुमाराः(Platanista gangetica minor) वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः महिषादयः पशवः अवसन्। परं मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।
|
|
|||||||