शृङ्गेरी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
शारदाम्बामन्दिरम्

श्रृङ्गेरी (Sringeri) कर्णाटकराज्यस्य चिक्कमगलूरुमण्डले विद्यमानं किञ्चन प्रसिद्धं तीर्थक्षेत्रम् । तुङ्गातीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति । पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च तपोभूमिः । आदिशङ्कराचार्यैः अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् ।

पुरी बदरी द्वारका उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् । अत्र विद्यमानस्य श्रीचक्रस्य शारदाम्बामूर्तेः च प्रतिष्ठापनं च शङ्कराचार्यैः एव कृतमस्ति । चन्दनदारुशिल्पमयी मूर्तिः एषा काश्मीरतः आनीता इति श्रूयते । अत्र श्रीमातरं ब्राहमी माहेश्वरी वैष्णवी इन्द्राणी चामुण्डा राजराजेश्वरी इति च पूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति । १४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिश्रणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादशस्तम्भाः द्वादशराशीन् सूचयन्ति । प्रतिमासं सूर्यस्य प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । नवरात्रिपर्व अत्र विशेषेण प्रचलति । विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा अत्र प्रचलन्ति । तुङ्गानदीतीरे श्रृङ्गेरीपीठस्य पूर्वतनयतीनां मूर्तयः सभामण्डपाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं वेदघोषः शास्त्राध्ययनं च अविरतं प्रचलति ।

श्रीविद्याशङ्करदेवालयः

मार्गः [सम्पादयतु]

बेङ्गळूरुतः ३२६ कि.मी.
मङ्गळूरुतः २०६ कि.मी.
चिक्कमगळूरुतः ९० कि.मी
कर्णाटकस्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति ।
रेलयानेन बीरूरु, कडूरु निस्थानपर्यन्तं गमनं शक्यम् ।

वासव्यवस्था [सम्पादयतु]

श्रीमठे वासस्थलं भोजनं च काल्पितं भवति । दूरभाषा- ०८२६५-५०१२३

बाह्यानुबन्धाः [सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=शृङ्गेरी&oldid=235647" इत्यस्माद् उद्धृतम्