मुरुडेश्वरम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्


मुरुडेश्वरम्
किञ्चन दृश्यम्
Coordinates: 13°21′00″N 74°29′04″E / 13.35°N 74.4845°E / 13.35; 74.4845
राष्ट्रम्  भारतम्
ऱाज्याणि कर्णाटकराज्यम्
संस्थापनम् 1997
भारतीय सामान्यकालमानम् (UTC+5:30)
पत्रालयकूटसंख्या 581 350
ISO 3166 code IN-KA-UD
वाहनपञ्जीकरणम् KA-47
समुद्रतटः ९८ kilometres ( mi)
बृहत्नगरम् उडुपीनगरम्
Sex ratio 1130 पु/स्त्री
साक्षरतापरिमाणम्
मुरुडेश्वरस्य विहङ्गमदर्शनम्
मुरुडेश्वरदेवालयः

मुरुडेश्वरं (Murudeshwar) कर्णाटकराज्यस्य उत्तरकन्नडमण्डले भाट्कळ-उपमण्डले समुद्रमध्ये विद्यमानं किञ्चन तीर्थक्षेत्रम् । भट्कळतः १५ कि.मी.दूरे एतद् अस्ति । होन्नावर–भट्कळयोः मध्ये विद्यमानात् सपदशसङ्ख्यायाः राष्ट्रियराजमार्गात् १ कि.मी. दूरे एषः देवालयः शोभते । कर्णाटकस्य प्रभासपुण्यक्षेत्रेषु अतिसुन्दरम् अस्ति मुरुडेश्वरम् । मृडः ईश्वरः प्रादेशिकभाषया मुरुडेश्वरः इति ख्यातः ।

सागरतीरे स्थितं मुरुडेश्वरम् अद्वितीयप्रवासिस्थानम् अस्ति । कर्णाटकस्य कन्याकुमारी इत्यपि प्रसिद्धम् अस्ति । प्रतिदिनम् सहस्रशः जनाः अत्र आगच्छन्ति सागरे स्नानं कुर्वन्ति च । मुरुडेश्वरं पूर्वं द्वीपः आसीत् । निसर्गसुन्दरः नित्यहरिद्वर्णयुक्तः च अस्ति । मुरुडेश्वरदेवालयस्य जीर्णोद्धारसमये द्वीपस्य वाहनमार्गः निर्मितः । अतः इदानीं द्वीपकल्पना न भवति । किन्तु सागरतरङ्गाः अत्र एतस्य द्वीपत्वं तदा तदा स्मारयन्ति । सुन्दरः सागरतीरप्रदेशः अत्र अस्ति । कन्दुकगिरिः कन्दुकपर्वतः कोटेगुड्ड् इत्यदीनि नामानि अस्य द्वीपस्य महत्वं सूचयन्ति । पूर्वभागे मुरुडेश्वरदेवालयः अस्ति । देवालयस्य पृष्ठभागतः समुद्रदर्शनम् आनन्दाय भवति ।

कन्दुकपर्वतः ८ हेक्टर् प्रदेशे व्याप्तः सन् सुन्दरवृक्षैः पूर्णः प्रवासिजनानाम् आकर्षकः च अस्ति । पर्वतस्य उपरि शिवस्य आधुनिकमूर्तिः स्थापिता अस्ति । उन्नता मूर्तिः एषा बहुदूरतः अपि द्रष्टुं शक्या अस्ति । सागरतीरस्य पश्चिमभागः अतीव आकर्षकः अस्ति । अत्र सूर्यास्तसमयः अत्यन्तं दर्शनयोग्यः भवति । दक्षिणभागे सागरतरङ्गाः वेगेन आगच्छन्ति । शिलपर्वतम् अभिगच्छन्ति । एतत् अतीव अपायकारकं स्थानम् इति सूचितम् अस्ति । सागरतीरे देवालयस्य वामभागे विहारस्थानम् अस्ति । सर्वे जनाः अत्र जलक्रीडासक्ता स्नानासक्ताः भवन्ति । मुरुडेश्वरसागरतीरे नौकाविहारस्य व्यवस्था अस्ति । सुदूरे कश्चन द्वीपः विद्यते । मुरुडेश्वरदेवालयः कलाकेन्द्रसमानः अस्ति । ३०० शिल्पिनः दशवर्षाणि यावत् निरन्तरं कार्यं कृत्वा मन्दिरनिर्माणं कृतवन्तः । महाद्वारं, स्तम्भाः, मुखमण्डपः, सभामण्डपः च अतीव सुन्दराः सन्ति । अत्रत्यानि शिल्पानि अनर्घ्यरत्नानि ।


पौराणिकी कथा[सम्पादयतु]

भूकैलासः-पुराणकथा

रावणः भूमौ प्रतिष्ठापितम् आत्मलिङ्गं खण्डशः कृत्वा पञ्चदिशासु प्राक्षिपत् इति कथा श्रूयते । तेषु एकम् आत्मलिङ्गकणं मुरुडेश्वरः इति ख्यातम् इति पुराणकथा । पूर्वस्यां दिशि पर्वतशृङ्खला पश्चिमदिशि समुद्रघोषः एवम् अस्य सौन्दर्यं वर्णनातीतम् । समुद्रतटस्य अनतिदूरे वर्तमाने कन्दुकगिरिः इति ख्याते प्रस्तरशैले मुरुडेश्वरदेवालयः निर्मितः । प्राचीनः एषः देवालयः पाण्डवैः निर्मितः इत्यपि प्रतीतिः अस्ति । भट्कळस्य राजा भट्टप्पनायकः क्रि.श.चतुर्दशे शतके अस्य मन्दिरस्य जीर्णोद्धारं कृतवान् इति आलेखः अस्ति । स्कन्दपुराणे अपि मुरुडेश्वरस्य उल्लेखः कृतः ।

मुरुडेश्वरक्षेत्रम् इदानीम् आधुनिकीकृतम् अस्ति । महाशिवभक्तः महोद्यमी आर्.एन्.शेट्टिमहोदयः देवालयस्य परिसरस्य च सौन्दर्यं वर्धयितुं बहुव्ययं कृतवान् कुर्वन् अपि अस्ति । अस्य मार्गदर्शनेन मन्दिरस्य प्रवेशद्वारे २५० पादपरिमितोन्नतः विमानगोपुरः निर्मितः । मन्दिरस्य पृष्ठभागे अनन्या १५० पादपरिमिता अत्युन्नता तपोनिरतशिवस्य मूर्तिः निर्मिता । देवालयस्य आवरणे गणपतेः, पार्वत्याः, दत्तात्रेयस्य, हनूमतः, सुब्रह्मण्यस्य च लघुमन्दिराणि सन्ति । अस्मिन् तीर्थक्षेत्रे काकतीर्थः, जठायुतीर्थः, भीमतीर्थः, कुम्भतीर्थः इत्येते निर्झराः प्रवहन्ति । मन्दिरस्य अनतिदूरे विशाला पुष्करिणी अस्ति । भक्ताः अत्र स्नात्वा देवदर्शनं प्राप्नुवन्ति । अस्मिन् सरसि वर्षे द्विवारं तेप्पोत्सवः आचर्यते ।

जीर्णोद्धारः[सम्पादयतु]

२० आट्टायुक्तस्य देवालयस्य गोपुरस्य दृश्यम् ।

क्रि.श.२००८ तमे वर्षे द्राविडशैल्या निर्मितः विमानगोपुरः अतीव सुन्दरः विशिष्टः च । अस्मिन् गोपुरे २० अट्टाः सन्ति यत्र गमनागमनं कल्पितमस्ति । आरोहणावरोहणार्थं उन्नयिन्याः व्यवस्था कल्पिता । १८ अट्टतः सूर्यास्तस्य दृश्यं नयनमनोहरम् । किन्तु अत्र एकस्मात् वातायनात् एव सर्वैः द्रष्टव्यं भवति अतः जनसम्मर्दः भवति । इतः उपरि नवदशं विंशतितमं च अट्टं गन्तुम् अनुमतिः नास्ति । सोपानमार्गः चेदपि तेन गन्तुम् अवसरः न दीयते । मन्दिरस्य पार्श्वे समुद्रतटे एकं महावसतिगृहम् अस्ति । यात्रर्थिनः स्वद्रव्यव्ययेन अत्र सुखेन उषितुं शक्नुवन्ति ।

मार्गः[सम्पादयतु]

राजधानीतः बेङ्गळूरुतः प्रतिरात्रं सर्वकारीयानि असर्वकारीयानि लोकयानानि सन्ति । मुरुडेश्वरपत्तने तु आवासभोजनादीनां सुव्यवस्था अस्ति एव । रेल् यानेन गन्तव्यं चेत् मङ्गळूरु गत्वा ततः गोवागमनस्य कोङ्कणरेल् मार्गेण मुरुडेश्वरस्थानके अवतीर्य किञ्चित् दूरं कार्यानेन त्रिचक्रिकया वा गमनेन मुरुडेश्वरपत्तनं प्राप्तुं शक्नुवन्ति । बेङ्गळूरुतः स्वकीयेन यानेन गन्तुम् इच्छन्ति चेत् ३८०कि.मी. दूरं, १०होरावधेः प्रवासः भवेत् ।

धूमशकटमार्गः[सम्पादयतु]

कोङ्कणधूमशकटमार्गे मुरुडेश्वरनिस्थानमस्ति ।

वाहनमार्गः[सम्पादयतु]

मुम्बयी-तिरुवनन्तपुरम् राष्ट्रियराजमार्गे (सं १७) मुरुडेश्वरनिस्थानम् अस्ति ।


समीपस्थानि स्थानानि[सम्पादयतु]

समीपे विद्यमानानि इडुगुञ्जी, कोल्लूरु, गोकर्णम् याणं, सोन्दा, बनवासी, शिरसि इत्यादीनि उत्तरकन्नडमण्डलस्य सुन्दराणि प्रेक्षणीयानि स्थानानि विद्यन्ते ।

योग्यकालः[सम्पादयतु]

नवेम्बर् मासतः जनेवरीमासपर्यन्तं प्रवासार्थं योग्यकालः ।

बाह्यानुबन्धाः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=मुरुडेश्वरम्&oldid=266482" इत्यस्माद् पुनः प्राप्तिः