सागरः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
प्रपञ्चस्य समुद्रप्रदेशस्य मानचित्रम्

सागरः भूमौ दृश्यमानः लवणजलेनावृत्तः ७०% भूभागः । भूमेः वातावरणस्योपरि, जलचक्र-अङ्गारचक्र-नैट्रोजन्-चक्रस्योपरि च सागरस्य प्रभावः गणनीयरीत्या भवति । विश्वस्य सागरप्रदेशः प्रमुखतया पञ्चधा विभक्तः दृश्यते । प्रदेशवैशल्यानुगुणं तेषां नामानि अवरोहणक्रमेण एवं विद्यते - पेसिफिक्-अट्लाण्टिक्-हिन्दु-अण्टार्क्टिक्-आर्क्टिक्-सागराः ।

अस्मिन् भूग्रहमात्रे एव सागरः (अपारः जलराशिः) विद्यते । भूविस्तारस्य (~३.६ X १०८ कि मी) ७२% भागः लवणजलेन आवृत्तः विद्यते । अयं सागरः प्रमुखसागरत्वेन विभक्तः । भूमेः जलस्य ९७% सागरस्य जलमेव । सागरतज्ञाः वदन्ति यत् विश्वसागरस्य ५% भागमात्रम् अस्माभिः आविष्कृतः विद्यते इति । सागरस्य समग्रः विस्तारः १.३ बिलियन् क्युबिक् कि मी (३१० मिलियन् क्युबिक् मीटर्), सामान्यगभीरता ३,६८२ मीटर्स् (१२, ०८० पादमितम्) । अत्र विद्यमानस्य जलस्य प्रमाणं सामान्यतः १,३४० मिलियन् घनकिलोमीटर्-परिमितम् । भूमेः ०.०२३% भारः अस्य विद्यते । सागरे २,३०,००० ज्ञाताः जीविनः वसन्ति, अज्ञातानां जीविनां सङ्ख्या विंशतिलक्षाधिकं स्यात् इति ऊह्यते ।

भूमेः विश्वसागरः[सम्पादयतु]

वैश्विकविभागः[सम्पादयतु]

यद्यपि विभिन्नाः सागराः इति निर्दिश्यते तथापि वैश्विके स्तरे ते सर्वे परस्परम् अनुबद्धः लवणजलसमूहः एव यश्च विश्वसागरः इति निर्देष्टुम् अर्हः । अविच्छिन्नजलजालः अयम् इत्येषा परिकल्पना समुद्रविज्ञानस्य मूलभूतांशेषु अन्यतमः । भूखण्डानुगुणं कृतः प्रमुखाः विभागाः विस्तारानुगुणम् अधः दर्शितः विद्यते -

स्थानम् सागरः विवरणम्
पेसिफिक्-महासागरः एशिया-ओशेनियाप्रदेशौ अमेरिकातः पृथक्करोति
अट्लाण्टिक्-महासागरः अमेरिकां युरेसिया-आफ्रिकातः पृथक्करोतु
हिन्दुमहासागरः आफ्रिका-आस्ट्रेलियाखण्डौ पृथक्करोति
दक्षिणमहासागरः पेसिफिक्-अट्लाण्टिक्-हिन्दुमहासागराणाम् विस्तृतभागत्वेन गण्यमानः अयम् अण्टार्क्टिकां परितः दृश्यते
आर्क्टिक्-महासागरः आर्क्टिक्-प्रदेशं व्याप्य उत्तरामेरिका-युरेशियामपि स्पृशति

भौतिकगुणाः[सम्पादयतु]

जलगोलस्य समग्रः घनराशिः १,४००,०००,०००,०००,०००,००० मेट्रिक्-टन्स्परिमितम् (१.५ X १०१८ शार्ट्-टन्स्परिमितम्) / १.४ X १०२१ किलोग्राम्परिमितं यच्च भूमेः समग्रघनराशेः ०.०२३ प्रतिशतं विद्यते । सागरे सामान्यतः ३% शुद्धजलम् अवशिष्टञ्च लवणजलं भवति । विश्वसागरस्य विस्तारः ३६१ मिलियन् चतुरस्रकिलोमीटर्मितः (१३९ मिलियन् चतुरस्र मैल्स्परिमितम्) । सागरस्य घनफलं सामान्यतः १.३ बिलियन् क्युबिक् किलोमीटर्स् (३१० मिलियन् क्युबिक् मीटर्स्)मितम् । सागरस्य गभीरता सामान्यतः ३,७९० मीटर्स् (१२, ४३० पादमितम्)परिमिता । गरिष्ठगभीरता १०, ९२३ मीटर्स् (६७८७ मैल्स्)मितम् । विश्वस्य अर्धांशाधिकं जलं ३००० मीटर्स् (९८०० पादमितम्)मितायां गभीरतायां विद्यते । सागरे विलीनतां गतैः बहुभिः रासायनिकवस्तुभिः सागरः नीलवर्णतां प्राप्नोति, तत्र प्रमुखं कारणं तस्मिन् विद्यमानं क्लोरोफिल्-रासायनिकम् । सागरेण कश्चन प्रकाशः प्रसार्यते, रात्रिकाले सः प्रकाशः मैल्परिमितं दूरं व्याप्नोति इति सागरे चरद्भिः नाविकैः अन्यैः च उक्तमस्ति । २००५ तमे वर्षे विज्ञानिभिः प्रथमवारं घोषितं यत् तस्य प्रकाशस्य भावचित्रं स्वीकृतमस्ति इति ।

आविष्कारः[सम्पादयतु]

नौकया सागरप्रवासस्य इतिहासः अति प्राचीनः विद्यते चेदपि अन्तर्जलप्रवासस्तु आधुनिके काले एव साध्यं जातम् । सागरस्य गभीरतमबिन्दुः विद्यते - ’मरियाना ट्रेञ्च्’ इत्येषः । अयं प्रशान्तसागरस्य समीपे विद्यमाने उत्तरमरियानाद्वीपे विद्यते । अस्य गरिष्ठगभीरता १०, ९७१ मीटर्स्मितम् (३५,९९४ पादमितम्) ।

वायुमण्डलम्[सम्पादयतु]

सागरस्य तरङ्गैः भूमेः वायुमण्डलस्य उपरि महान् प्रभावः भवति ।

सागरप्रदेशः[सम्पादयतु]

भूछदौ प्रायः ७० प्रतिशतं समुद्रः ३० प्रतिशतं भूमिः च वर्तेते । समुद्रस्य भूतलस्य च विस्तारः एवमस्ति - समुद्रः ३६२ दशलक्षचतुरस्रकिलोमीटर्मितः । भूतलः १४८ दशलक्षकिलोमीटर्मितः।

अट्लाण्टिक्सागरस्य मनोहरदृश्यम्

विस्तारः[सम्पादयतु]

अ)शान्तसागरः - १६५ दशलक्षचतुरस्रकिलोमीटर्मितः।
आ)अट्लाण्टिक्सागरः - ८२ दशलक्षचतुरस्रकिलोमीटर्मितः।
इ) हिन्दूमहासागरः - ७४ दशलक्षचतुरस्रकिलोमीटर्मितः।
ई) आर्ल्टिक् सागरः -१४ दशलक्षचतुरस्रकिलोमीटर्मितः।

गभीरता[सम्पादयतु]

अ) शान्तसागरः - म्यारिनास् ट्रेञ्च् - ११,०३२ मीटर्मितः।
आ) आट्लाण्टिक्सागरः - प्यूर्टोरिको ट्रेञ्च् - ८.३८१ मीटर्मितः।
इ) हिन्दूमहासागरः - डैम्य़ाण्टिना - ८,०४७ मीटर्मितः।

ई) आर्क्टिक्सागरः-(नामकरणं न कृतम्) - ५,४४१ मीटर्मितः।

सापेक्ष-औन्न्त्यम्[सम्पादयतु]

सर्वेषां सागराणाम् अपेक्षया अतिगभीरता अस्ति शान्तसागरस्य म्यारिनास्ट्रेञ्च् , एवरेस्ट् शिखरस्य (८८४८ मीटर्मितम्)अपेक्षया २१८५ मीटर् गभीरतायुतः अस्ति ।

समुद्रयानम्[सम्पादयतु]

प्रथमवारं समुद्रयानं कृतवतः मेगेल्लनस्य विक्टोरिया नोकायाः यात्रा क्रि.श. १५१९ तमे वर्षे स्पेन्देशतः आरभ्य पुनः क्रि.श .१५२२ तमे वर्षे पुनः तत्रैवागता । यात्रायां आट्लाण्टिक्सागरं, शान्तसागरं, हिन्दूमहासागरं तीर्त्वा आगता ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=सागरः&oldid=273379" इत्यस्माद् पुनः प्राप्तिः