युगादिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

चान्द्रमानपद्धत्यनुसारं चैत्रशुक्लप्रतिपत् एव युगादिः इति उच्यते । तद्दिने एव नववर्षस्य आरम्भः । तदा एव वसन्त-ऋतोः आगमनमपि । प्रकृतिः अपि नवोत्साहवती भवति तदा । वृक्षाः सर्वे पल्लविताः भवन्ति । सर्वत्र वसन्तस्य प्रभावः दृश्यते । इदानीन्तनजगति नवसंवत्सरः इति यद् आचरन्ति (जनवरी १) तदा तु प्रकृतौ नववर्षस्य किमपि लक्षणं न भवति । वृक्षाः सर्वे पर्णरहिताः तिष्ठन्ति । वातावरणम् अपि अतिशीतलं भवति । जनाः अपि तादृशवातावरणे उत्साहवन्तः न भवन्ति । एतत् युगादिपर्व समग्रे भारतदेशे आचर्यमाणं महापर्व । केषुचित् राज्येषु एतत् दिनं नूतनवर्षत्वेन आचर्यते |एतत् पर्व यस्मिन् वासरे भवति तस्य वासरस्य ग्रहः एव तस्य वर्षस्य अधिपतिः भवति । उदाहरणार्थं युगादिपर्व गुरुवासरे अस्ति चेत् गुरुग्रहः एव तस्य संवत्सरस्य अधिपतिः ।

युगादिः नाम युगस्य आदिः । युगानि चत्वारि – कृत-त्रेत-द्वापर-कलियुगम् चेति । भगवान् ब्रह्मा एतद्दिने एव जगतः सॄष्टिकार्यम् आरब्धवान् इति कारणात् एतत् दिनं युगादिशब्देन निर्दिश्यते ।

प्राप्ते नूतनवत्सरे प्रतिगृहं कुर्यात् ध्वजारोहणम् ।
स्नानं मङ्गलमाचरेत् द्विजवरैः साकं सुपूज्योत्सवैः ॥
दे:वानां गुरुयोषितां च शिशवोऽलङ्कारवस्त्रादिभिः ।
स्म्पूज्य गणकःफलं च श्रुणुयात्तस्माच्च लाभप्रदम् ॥
युगादिदिने विशेषतया निर्मीयमाणः "पोलिका"नामकः खाद्यविशेषः
युगादिदिने आम्र-निम्बपर्णैः गृहम् अलङ्कृत्य गृहस्य मन्दिराणाम् उपरि वा ओङ्कारचिह्नयुक्तं भगवद्ध्वजम् आरोपयन्ति । सूर्योदयात् घण्टाद्वयात् प्रागेव (उषःकाले) तैलाभ्यञ्जनं कृत्वा नववस्त्राणि धृत्वा पूजा-दानादीनि धार्मिककार्याणि आचरन्ति । गुरून् ज्येष्ठान् च नमस्कृत्य आशीर्वादं प्राप्नुवन्ति । मध्याह्नभोजने प्रथमं निम्बगुडमिश्रणं खादित्वा अनन्तरं मधुरभोजनं कुर्वन्ति । मध्याह्नभोजनार्थं विशेषतया "पोलिका"नामकं खाद्यविशेषं निर्मान्ति । सायङ्काले “पञ्चाङ्गश्रवणं” करणीयम् । ग्रहणानां, वृष्टि-सस्यसमृद्धीनां च पूर्वसूचनाः भवन्ति पञ्चाङ्गे । रात्रौ चन्द्रोदयावसरे चन्द्रस्य नमस्कारः क्रियते तद्दिने । बान्धवान् मित्राणि च शुभकामनाः वदन्ति परस्परमेलनद्वारा । दूरे स्थितेभ्यः शुभकामनाः प्रेषयन्ति च । तद्दिने रामायणश्रवणम् अपि कुर्वन्ति कुत्रचित् ।
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

तस्य दिनस्य महत्त्वम् :[सम्पादयतु]

१. पुराणानुसारम् अस्मिन्नेव दिने ब्रह्मा सृष्टिकार्यम् आरब्धवान् ।
२. श्रीरामः रावणं संहृत्य अयोध्यां प्रत्यागत्य एतद्दिने एव शासनम् आरब्धवान् ।
३. शालिवाहनशकस्य विक्रमसंवत्सरस्य आरम्भदिनम् एतदेव ।
४. राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकस्य डा ॥ केशवबलिरामहेगडेवारस्य जन्मोत्सवः अस्मिन्नेव दिने ।

निम्ब-गुडमिश्रणस्य महत्त्वम् :[सम्पादयतु]

आयुर्वेदानुसारं वसन्तऋतौ जायमनानां शारीरकविकाराणां निमित्तम् उत्तमम् औषधम् अस्ति निम्बकम् । निम्बगुडयोः मिश्रणस्य खादनेन शरीरस्य समतोलनं साधितं भवति ।

निम्बपर्णं पुष्पं च
गुडः
शतायुर्वज्रदेहाय सर्वसम्पत्कराय च ।
सर्वारिष्टविनाशाय निम्बकं दलभक्षणम् ॥

निम्बकदलभक्षणेन शतायुः भवति । शरीरं वज्रमिव सुदृढं भवति । सर्वसम्पत्प्राप्तिः भवति । सर्वारिष्टविनाशः अपि भवति । इति वदति अयं श्लोकः । जीवनं नाम निम्बकगुडमिश्रणमिव । मधुरत्वं तिक्तत्वं द्वयमपि भवति इत्यपि सन्देशं स्मारयति निम्बकगुडमिश्रणम् । एतत् निम्बकगुडमिश्रणं सुख-दुःखयोः, रात्रि-दिनयोः, लाभ-नष्टयोः, प्रीति-द्वेषयोः, जयापजययोः वा सङ्केतम् इव अस्ति । सर्वम् अपि जीवने समभावेन स्वीकरणीयम् इत्यस्य “स्थितप्रज्ञत्व”स्य अपि पाठः अस्ति अत्र । समग्रस्य वर्षस्य पूर्वसूचना दीयते एतत् निम्बकगुडमिश्रणम् ।

"http://sa.wikipedia.org/w/index.php?title=युगादिः&oldid=239305" इत्यस्माद् पुनः प्राप्तिः