प्रथमैकादशी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

आषाढमासस्य शुक्लपक्षस्य एकादश्यां तिथौ आचर्यते इदं पर्व । एतस्य पर्वणः एकादशी, उपवासपर्व, महैकादशी, शयनी एकादशी इत्यपि नामानि सन्ति । सर्वेषां वर्णानाम्, आश्रमाणां जनाः, शैववैष्णवादयः सर्वेपि आचरन्ति एतत् पर्व । प्रतिमासम् एकादशीद्वयं भवति तथापि एतदेव "एकादशी”नाम्ना निर्दिश्यते यतः सर्वासु एकादशीषु एषा अत्यन्तं प्रमुखा । अन्याः एकादशीः आचरितुं ये न शक्नुवन्ति ते आषाढशुक्लैकादशीं वा आचरेयुः इति नियमः अस्ति ।

१. वर्षऋतोः आरम्भादेव संवत्सरस्य आरम्भः इति काचित् पद्धतिरस्ति । तस्मादेव संवत्सरस्य "वर्षम्” इति नाम आगतम् । तदनुगुणं वर्षारम्भे विद्यमाना एषा एकादशी प्रथमैकादशी इत्युच्यते ।
२. चातुर्मास्यव्रतस्य आरम्भात् पूर्वं विद्यमाना एकादशी इति कारणात् अपि "प्रथमैकादशी” इति उच्यते ।
३. "प्रथम”शब्दस्य "श्रेष्ठः” इत्यपि अर्थः अस्ति । एषा एकादशी श्रेष्ठा इत्यस्मादपि कारणात् प्रथमैकादशी इति उच्यते ।
४. यद्यपि एषा एकादशी दक्षिणायने अस्ति तथापि उत्तरायनस्य देवयानमार्गस्य फलं ददाति इत्यस्मात् “शयनी” इत्युच्यते।
५. उपवासनियमस्य पालनपर्व इत्यस्मात् "उपवासपर्व" इत्युच्यते ।

एकादश्याम् आहारसेवनं न करणीयम् इति अस्माकं शास्त्रवाक्यानि वदन्ति । स्मृति-पुराणे तिहास-पर्वमीमांसादिषु ग्रन्थेषु अपि उपवासः एव करणीयः इति उक्तम् अस्ति ।

पण्डरापुरे विद्यमाना विठोबस्य मूर्तिः
“यानि कानि च पापानि ब्रह्महत्यासमानि च ।
अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥“ (नारदीयपुराणम् – २४.४)
“तानि पापान्यवाप्नोति भुञ्जानो हरिवासरे ।
रटन्तीह पुराणानि भूयो भूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ॥“ (मत्स्यपुराणम् – २३.२४)
“सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च ।
सन्त्येवौदनमाश्रित्य श्रीकृष्णव्रतवासरे ॥“ (ब्रह्मवैवर्त-कृष्णजन्मखण्डे)
“नित्यं भक्तिसमायुक्तैः सर्वैर्विष्णुपरायणैः ।
पक्षे पक्षे तु कर्तव्यमेकादश्यामुपोषणम् ॥“ (नारदीयपुराणम् – १०-२३८)

एतद् एकादशीव्रतम् आचर्यमाणाः दशम्याम् अपि एकभुक्तिम् आचरन्ति । भूमौ एव शयनं कुर्वन्ति । ब्रह्मचर्यनिष्ठाः भवन्ति । दिने निद्रां न कुर्वन्ति । कांस्यस्थालिकया भोजनं न कुर्वन्ति । मितिम् अतिक्रम्य खादनं जलपानं वा न कुर्वन्ति । मांसाहारं न सेवन्ते । मद्यपानम्, असत्यभाषणं, ताम्बूलसेवनं वा न कुर्वन्ति । एकादश्यां प्रातःकाले पर्णैः दन्तधावनं कृत्वा, स्नानादिकं समाप्य शुचिर्भूत्वा उत्तराभिमुखं स्थित्वा अष्टाक्षरमहामन्त्रं त्रिवारम् उच्चारयन्तः सङ्कल्पं कुर्वन्ति । सर्वोपचारयुक्तां पूजां कृत्वा रात्रिं भगवतः कीर्तनेन भजनेन स्तुत्या वा यापयन्तः जागरणं कुर्वन्ति । एकादश्यां रात्रौ जागरणकरणेन परमपवित्रं विष्णुपदं प्राप्नोति इति उच्यते । यथा –

“एकादश्यां नरो यस्तु कुरुते जागरं नरः ।
गीतैर्नृत्यैस्तथा वाद्यैः प्रेक्षणीयैः पृथग्विधैः ॥
स याति वैष्णवं लोकं यं गत्वा न निवर्तते ।
सम्पूज्य विधिवद्रात्रौ कृत्वा चैव प्रजागरम् ॥
कथा वा गीतिका विष्णोः गायन् विष्णुपरायणः ।
याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥“

अनन्तरदिने द्वादश्यां प्रातः देवपूजां ब्राह्मणभोजनं कृत्वा व्रतस्य उद्यापनं कुर्वन्ति । द्वादश्याम् अपि एकभुक्तिम् आचरन्ति । भूमौ एव शयनं कुर्वन्ति । ब्रह्मचर्यनिष्ठाः भवन्ति । दिने निद्रां न कुर्वन्ति । कांस्यस्थालिकया भोजनं न कुर्वन्ति । मितिम् अतिक्रम्य खादनं जलपानं वा न कुर्वन्ति । मांसाहारं न सेवन्ते । मद्यपानम्, असत्यभाषणं, ताम्बूलसेवनं वा न कुर्वन्ति । एवम् एकादशीव्रतं दश्मीतः द्वादशीपर्यन्तं दिनत्रयम् आचरन्ति ।

एकादश्याः महत्त्वम् :

एकादश्याः आचरणेन जन्मजन्मान्तरस्यापि पापं नश्यति । महायज्ञानां फलमपि अस्य फलस्य षोडशे एकभागः इव । महातीर्थक्षेत्राणि अपि एतत्समं फलं न यच्छन्ति । एतद्व्रतं स्वर्गं, मोक्षं, राज्यं, सत्सन्तानं, सत्पत्नीम्, आरोग्यम् इत्यादीनि ऐहिकफलानि अपि प्रयच्छति । पद्मपुराण्स्य आदिखण्डे (३१, १५७, १६०, १६१, १६२) एकादश्याः महत्त्वम् एवम् उक्तम् अस्ति –
“अश्वमेधसहस्राणि राजसूयशतानि च ।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥
स्वर्गमोक्षप्रदा ह्येषा श्रीरारोग्यदायिनी ।
सुकलत्रप्रदा ह्येषा जीवत्पुत्रप्रदायिनी ॥
न गङ्गा न गया भूप न काशी न च पुष्करम् ।
न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन च ॥
यमुना चन्द्रभागा न तुल्या हरिदिनेन तु ।
अनायासेन येनात्र प्राप्यते वैष्णवं पदम् ॥“
"श्रुत्वा चैकादशीनाम यमदूताश्च शङ्किताः" इत्येषा पङ्क्तिः अपि एकादश्याः महत्त्वं ज्ञापयति ।
“एकतः पृथिवीदानम् एकत्र हरिवासरः ।
ततोऽप्येका महापुण्या इयमेकादशी वरा ॥“
शेषशयनः नारायणः

(तुलायाम् एकत्र समग्रायाः पृथिव्याः दानस्य फलम् एकत्र एकादश्याः आचरणस्य फलं स्थापितं चेत् एकादशीफलमेव अधिकं भवति ।) गरुडपुराण्स्य एषः श्लोकः अपि एकादश्याः महिमानं बोधयति । तदा तदा उपवासकरणम् आरोग्यदृष्ट्या अपि अत्युत्तमम् इति उच्यते । अनेन रोगराहित्यं भवति । "लङ्घनं परमौषधम्” इति प्रसिद्धा उक्तिः । “विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥“ इति उक्त्यनुसारम् उपवासकरणं विषयाणां निवर्तनाय अपि साधनम् । पूर्णतया निराहारं कर्तुं ये न शक्नुवन्ति ते अन्नं विना अन्यत्किञ्चित् खादितुं श्क्यते इति शास्त्रमेव वदति । यथा –

“मूलं फलं पयस्तोयम् उपभोज्यं मुनीश्वरैः ।
न तत्र भोजनं कैश्चिदेकादश्यां प्रदर्शितम् ॥“ (नारदपुराणम्)

(एकादश्यां भोजनं विना फलं, मूलं, दुग्धं, जलं वा सेवितुं शक्यते ।)

“नक्तं हविष्यान्नमनौदनं वा ।
फलं तिलाः क्षीरमथाम्बु चाज्यम् ॥
यत्पञ्चगव्यं यदि वा वायुः ।
प्रशस्तमत्रोत्तरमुत्तमं च ॥ (वायु-वराहपुराणे)

(हविष्यान्नम्, अनौदनं, फलं, तिलं, दुग्धं, जलं, घृतं, पञ्चगव्यं वा सेवितुं शक्यते । तत्रापि अग्रिमं पूर्वतनस्य अपेक्षया प्रशस्तम् ।)

“उपवासे त्वशक्तानाम् अशीतेरूर्ध्वजीविनाम् ।
एकभुक्तादिकं कार्यमाह बोधायनो मुनिः ॥“

(उपवासकरणे अशक्ताः अशीत्यधिकवयस्काः वा एकभुक्तिम् आचरितुम् अर्हन्ति इति बोधायनस्य अभिप्रायः हेमाद्र्याम् उल्लिखितः अस्ति ।)

"http://sa.wikipedia.org/w/index.php?title=प्रथमैकादशी&oldid=268371" इत्यस्माद् पुनः प्राप्तिः