तिलः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
तिलसस्यम्
श्वेतवर्णीयं तिलधान्यम्
कर्तितानि शुष्काणि तिलसस्यानि

अयं तिलः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं तिलः सस्यजन्यः आहारपदार्थः । तिलः आङ्ग्लभाषायां Sesame इति उच्यते । अयं तिलः वर्णस्य अनुगुणं चतुर्विधः भवति । कृष्णवर्णीयः तिलः, श्वेतवर्णीयः तिलः, रक्तवर्णीयः तिलः, वनतिलः च इति । अस्य तिलस्य होमधान्यं, पवित्रं, वितृतर्पणं, पापघ्नि, पूतधान्यं, जटिलम् (वनोद्भवस्य तिलस्य केवलम्) इत्यादीनि अन्यानि नामानि अपि सन्ति । मकरसङ्क्रमणपर्वणि अस्य तिलस्य एव साम्राज्यम् । तदवसरे सर्वत्र जनाः प्रतिगृहं गत्वा तिलवितरणं कुर्वन्ति । मोदकं, पञ्चकज्जायं, ’कडुबु’ इत्यादीनां खाद्यानां निर्माणे अयं तिलः अपि मुख्यं द्रव्यम् । नवग्रहधान्येषु अन्यतमः अस्ति तिलः ।

आयुर्वेदस्य अनुसारम् अस्य तिलस्य स्वभावः[सम्पादयतु]

तिलतैलम्
तिलनिर्मितं लड्डुकम्

अयं तिलः पचनार्थं जडः । अस्य रुचिः कटु-तिक्त-मधुर-कषायमिश्रिता । अयं तिलः जीर्णानन्तरं कटुविपाकः भवति । अयं तिलः स्पर्शार्थं शीतलः परन्तु शरीरार्थम् उष्णः एव ।

“तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः ।
विपाके कटुकः स्वादुः स्निग्धोष्णः कफपित्तनुत् ॥
बल्यः केश्यो हिमस्पर्शस्त्वच्यः स्तन्यो व्रणे हितः ।
दन्त्योऽल्पमूत्रकृद्ग्राही वातघ्निग्निमतिप्रदः ॥“ (धन्वन्तरिकोषः)
१. अस्य तिलस्य तैलं सर्वाङ्ग-अभ्यङ्गार्थम् अत्यन्तं श्रेष्ठम् ।
२. तिलतैलं सर्वस्य अपि तैलस्य मूलद्रव्यम् ।
३. “तैलेऽनुक्ते तिलतैलं स्यात्” इति उक्तम् अस्ति आयुर्वेदशास्त्रस्य वैद्यकीयपरिभाषायाम् । तन्नाम केवलं तैलम् इति यत्र कुत्रापि उक्तम् अस्ति चेत् तेन तैलशब्देन तिलतैलम् एव ग्राह्यम् इति अर्थः ।
४. पञ्चकर्म, कर्णपूरणं, नस्यं, धारा, उष्णादिषु चिकित्सासु तिलतैलम् एव उपयुज्यते ।
५. पुनः पुनः जायमानस्य वेदनासहितस्य पक्वातिसारस्य उत्तमम् औषधं तिलतैलम् । भोजनात् पूर्वं चमसमितं तिलतैलं सेवनीयम् ।
६. अस्थिभङ्गे, क्षतव्रणे च तिलतैलं शीघ्ररोपकम् ।
७. कृष्णवर्णीयः तिलः पुण्यकरः, श्वेतवर्णीयः तिलः रुचिकरः ।
८. श्राद्धादिषु कर्मसु पितृतर्पणार्थं कृष्णवर्णीयः तिलः एव उपयुज्यते ।
९. गणहवने उपयुज्यमानेषु अष्टद्रव्येषु अपि कृष्णवर्णीयः तिलः अन्यतमः ।
१०. कृष्णवर्णीयः तिलः रक्षोघ्नः, पापघ्नः च इति प्रभावीद्रव्यम् अस्ति ।
११. सङ्क्रमणस्य मधुरः तिलः हासं द्योतयति चेत्, श्राद्धस्य तिलः वेदनां द्योतयति । एवम् उभयद्योतकः अयं तिलः ।
१२. चतुर्विधेषु तिलेषु कृष्णवर्णीयः तिलः अत्यन्तं श्रेष्ठः । श्वेतवर्णीयः तिलः अपि उत्तमः एव ।
१३. रक्तवर्णीयः तिलः, वनतिलः च हीनः, उपयोगार्थम् अनर्हः अपि ।
१४. शरीरे वातः वृद्धः चेत् तिलतैलम् उत्तमं शामकम् औषधम् ।
१५. अयं तिलः तैलांशयुक्तः त्रिदोषहरः च ।
१६. अयं तिलः बलवर्धकः, केशवर्धकः, कान्तिवर्धकः, स्तन्यवर्धकः, अग्निदीपकः च ।
१७. अयं तिलः दन्तदार्ढ्यकरः, व्रणरोपकः, मूत्रकरः , मेध्यः च ।
१८. तिलस्य पिण्याकः मधुरः रुचिकरः च । किन्तु सः नेत्रस्य विकारकः, कफस्य वातस्य च विकारकः, मलावष्टम्भकः च ।
१९. तिलस्य पिण्याकः धेनूनां पुष्टिकरः आहारः ।
२०. तिलात् निष्कासितं क्षारं मधु दधि च योजयित्वा सेवन्ते चेत् मूत्रावरोधः अपगच्छति ।
२१. तिलनालात् निर्मितः क्षारः मांसभक्षणजन्यः अजीर्णः आहारः ।
२२. रक्तजेषु अर्कस्रोगेषु, अस्थिरोगेषु च तिलः नवनीतेन सह उपयोक्तव्यः ।
२३. शनिग्रहस्य उपशान्त्यर्थं तिलः उत्तमः परिहारकः । अष्टमशनिना, पञ्चमशनिना, सार्धसप्तशनिना च पीड्यमानाः तिलतैलेन स्नात्वा देवालयेषु तिलतैन दीपान् ज्वालयन्ति ।
२४. हेमन्ते (जनवरि फेब्रवरि मासयोः) तैलांशयुक्तस्य आहारस्य सेवनम् आयुर्वेदोक्तम् । तदवसरे अग्निशान्त्यर्थं, बलवर्धनार्थं तिलः अत्यन्तं हितकरः ।

चित्रशाला[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=तिलः&oldid=280956" इत्यस्माद् पुनः प्राप्तिः