अष्टाध्यायी
महर्षिपाणिनिना विरचिता 'अष्टाध्यायी' जगत्प्रसिद्धः संस्कृतव्याकरणग्रन्थः अस्ति । अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते अयं ग्रन्थः ।एवं श्रूयते यत् ताण्डवनृत्यानन्तरं शिवः स्वढक्कां चतुर्दशवारम् अवादयत् । ततः 'अ इ उ ण्' इत्यादीनि चतुर्दश सूत्राणि निर्गतानि । तानि महेश्वरप्रदत्तानि आसन् । अतः एव '''माहेश्वरसूत्राणि''' इति कथ्यन्ते । तेषाम् आधारेण एव पाणिनिः अष्टाध्यायी इति व्याकरणग्रन्थं लिखितवान् । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अतः एव 'अष्टाध्यायी' इति अस्ति । अष्टाध्याय्यां व्याकरणस्य ३९६५ सूत्राणि सन्ति । अस्मिन् ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवाः निरूपिताः सन्ति । पाणिनिकाले संस्कृतभाषा लोकव्यवहारस्य भाषा आसीत् । अतः एव जनभाषा आसीत् । अष्टाध्यायीसूत्रेषु प्रत्यक्षरूपेण अप्रत्यक्षरूपेण वा बहूनां विदुषां ग्रन्थानां, ग्रामाणां, जनपदानां, स्थानानां च उल्लेखः अस्ति । यथा - 'ऋतौ भारद्वाजस्य', 'वासुदेवार्जुनाभ्यां वून्', 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु', 'सिन्धुतक्षशिलादिभ्योऽणञौ' । अष्टाध्यायी मानवबुद्धेः उद्भूता अत्युत्कृष्टा क्रुतिः अस्ति ।
[सम्पादयतु] व्याख्यानानि
पाणिनेः अष्टाध्यायीम् अधिकृत्य कात्यायनः वार्तिकानि अलिखत् । वार्तिकानि पाणिनीयव्याकरणस्य पूरकाणि सन्ति । महामुनिः पतञ्जलिः अष्टाध्याय्याः वार्तिकानां च व्याख्यारूपं महाभाष्यं नाम ग्रन्थं लिखितवान् । पाणिनिः, कात्यायनः, पतञ्जलिश्च एते त्रयः व्याकरणशास्त्रस्य प्रमुखाः आचार्याः सन्ति । पाणिनिसूत्राणाम् आधारेण भट्टोजिदीक्षितः सिद्धान्तकौमुदीं रचितवान् । वरदराजः लघुसिद्धान्तकौमुद्याः रचनां कृतवान् ।