अलेग्झाण्डर् ग्रहां बेल्
अलेग्झाण्डर् ग्रहां बेल् (जीवितकालः- १८४७ तमवर्षस्य मार्चतृतीयदिनाङ्कतः १९२२तमवर्षस्य आगस्टद्वितीयदिनाङ्कपर्यन्तम्) ऐदम्प्राथम्येन दूरवाणीयन्त्रस्य आविष्करणम् अयम् कृतवान् । एषः उत्कृष्टविज्ञानी, आविष्कारकः, तन्त्रांशज्ञः चिन्तकः च आसीत् । विद्युत्चालितदूरसम्पर्काः, हैड्रो फायिल्, वायुयानविज्ञानस्य परिवर्तनजन्यकार्येषु ग्रहां बेल् वर्यस्य योगदानं सदा स्मर्तव्यम् अस्ति । १८८८ तमे वर्षे न्याषनल् जियाग्राफिक् सोसैटी इत्यस्याः संस्थायाः सदस्येषु अलग्झाण्डर् ग्रहां बेल् अन्यतमः आसीत् ।
प्रथमः आविष्कारः [सम्पादयतु]
बाल्यदिनेषु ग्रहां बेल् भौतिकजगति कौतूहलवान् जातः आसीत् । अस्य परिणामतया सस्यवर्गाणां सङ्कलनं प्रयोगानि च अल्पे वयसि कृतवान् । बेल् आरम्भिकदशायां संवेदनात्मकस्वभावशीलः आसीत् । तस्य माता कला- कविता-सङ्गीतसम्बन्धि- अन्तर्विहितगुणान् प्रेरितवती आसीत् । औपचारिकपाठनं विना पियानोवादनम् अधीतवान् । पियानो वादकः च अभवत् । मातुः क्रमशः बधिरता या आसीत् सा बधिरता बेल् उपरि गाढपरिणामम् अजनयत् । ( तस्य द्वादशे वयसि मातुः श्रवणशक्तेः ह्रासः आरब्धः ) । अतः सः अङ्गुलीसंज्ञाभाषाम् अधीतवान् । अपि च परिसरे गृहे प्रचलितवार्ताः अङ्गुल्या मातरं सूचयन् असीत् । स्पष्टतया, कम्पनात्मकरूपेन स्थायिध्वनिना कथनस्य कौशलं वर्धितवान् । सः अनया शैल्या मातोः ललाटस्य पाश्वे यदि वदति तर्हि माता स्पष्टतया अवगच्छति स्म । सः ’मातुः बधिरतायाः परिहारः’ एव स्वीयम् आद्यकर्तव्यम् इति विचिन्त्य श्रवणविज्ञानाध्ययनं कृतवान् ।
| अलेग्झाण्डर् ग्रहां बेल् | |
|---|---|
| जननम् | March 3, 1847 Edinburgh, Scotland, UK |
| मरणम् | August 2, 1922 (aged 75) Beinn Bhreagh, Nova Scotia, Canada |
| मरणस्य कारणम् | Complications from diabetes |
| वासस्थलम् | U.K., U.S., Canada |
| Citizenship | Scotland, USA, Canada |
| शैक्षिकयोग्यता | University of Edinburgh University College London |
| वृत्तिः | Inventor, Scientist, Engineer, Professor (Boston University), Teacher of the deaf |
| प्रख्यातिः | Inventing the Telephone |
| पतिः/पत्नी | Mabel Hubbard (married 1877–1922) |
| अपत्यानि | (4) Two sons who died in infancy and two daughters |
| मातपितरौ | Alexander Melville Bell Eliza Grace Symonds Bell |
| बान्धवाः | Gardiner Greene Hubbard (father-in-law) Gilbert Hovey Grosvenor (son-in-law) Melville Bell Grosvenor (grandson) Mabel Harlakenden Grosvenor (granddaughter) Gilbert Melville Grosvenor (great-grandson) Chichester Bell (cousin) |
| हस्ताक्षरम् | |