गुवहाटी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

गुवहाटी (असामीस्: গুৱাহাটী) प्राचीनकाले प्राग्ज्योतिषपुर, दुर्जय इति कथ्यते स्म । इदम् असमराज्यस्य महत् नगरम् अस्ति । भारतदेशे वेगेन वर्धमानेषु नगरेषु अन्यतमम् । भारतस्य ईशान्यदिशि विद्यमानं महद्नगरम् । ईशान्यभागस्य 'द्वारम्' इति कथ्यते । असमराज्यस्य राजधानी दिस्पुर अस्मिन् नगरे विद्यते । प्राग्ज्योतिष्पुरम् इत्यस्य अर्थः अस्ति पूर्वीयदीपः इति । अन्यः अर्थः नाम पूर्वदिशः ज्यौतिष्यम् इति । दुर्जयः नाम जेतुम् अशक्यः इति । एते प्रदेशाः वर्मणां पालानां च काले कामरूपराज्यस्य राजधान्यः आसन् । नगरे बहवः हिन्दुदेवालयाः सन्ति । कामाख्यदेवालयः, उमानन्ददेवालयः, नवग्रहदेवालयः, शुक्रेश्वर-वसिष्ठ-लङ्केश्वर-दौल्गोविन्द-दीर्घेश्वरी-उग्रतारा-रुद्रेश्वरदेवालयाः च विद्यन्ते । इदं नगरं 'देवालयनगरम्' इत्यपि निर्दिश्यते । इदं नगरं ब्रह्मपुत्रनदस्य दक्षिणतीरम् शिल्लाङ्ग्-उपत्यका इत्यनयोः मध्ये विद्यते । अस्य पश्चिमदिशि एल् जि बि अन्ताराष्ट्रियविमाननिस्थानकं नरेङ्गिनगरं पूर्वदिशि च विद्यते । ब्रह्मपुत्रस्य उत्तरतीरे उत्तरगुवहाटी नाम्ना नगरं विस्तृतं जातम् अस्ति ।

गुवहाटीनगरस्य विहङ्गमं दृश्यम्

ईशान्यभारतस्य प्रमुखं शिक्षण-वाणिज्यकेन्द्रमस्ति गुवहाटी । इण्डियन् इन्स्टिट्यूट् आफ् टेक्नालजि, गुवहाटी विश्वविद्यालयः, काटन् महाविद्यालयः च प्रसिद्धानि शैक्षणिककेन्द्राणि सन्ति । असमराज्यस्य निर्वहण-राजनैतिककार्याणां केन्द्रमस्ति इदं नगरम् । ईशान्यभागस्य क्रीडा-सांस्कृतिककार्याणां केन्द्रमस्ति इदम् । ईशान्यभागस्य प्रमुखं परिवहनकेन्द्रमस्ति । अत्रत्या प्राणिसम्पत्तिः अपि समृद्धा वर्तते । एशियन् गजाः, गौर्, व्याघ्रः इत्यादयः विरलसस्तनीजीविनः अत्र निवसन्ति । नगरे नगरं परितः च पक्षिणः बहु विधाः भवन्ति ।

नामनिष्पत्तिः[सम्पादयतु]

गुवहाटी इत्येषः शब्दः असामीभाषायाः शब्दद्वयेन युक्तः अस्ति - 'गुवा' नाम पूगः 'हाट्' नाम विपणिः इति । आरम्भे गौहट्टि इति उच्चार्यते स्म । १९८० तमात् वर्षात् स्थानीय-उच्चारणानुगुणं परिवर्तितम् अस्ति ।

इतिहासः[सम्पादयतु]

गुवहाट्याः नामोल्लेखः महाकाव्येषु पुराणेषु च दृश्यते इत्यतः इदम् एशियाखण्डस्य प्राचीननगरेषु अन्यतमम् इति परिगण्यते । महाभारते उल्लिख्यते यत् नरकासुरस्य भगदत्तस्य राजधानी आसीत् इदम् इति । नीलाचलपर्वते विद्यमानः कामाख्यदेव्याः प्राचीनशक्तिदेवालयः (तान्त्रिक-वज्रायनबौद्धमतस्य प्रमुखं स्थानञ्च), चित्राचलपर्वते विद्यमानः विशिष्टः जौतिषिकः नवग्रहदेवालयः, वसिष्ठस्थानस्य पुरातत्त्वावशिष्टाः, अन्यानि स्थानानि च अस्य नगरस्य पौराणिकमहत्त्वं प्राचीनेतिहासं च प्रदर्शयति ।

अम्बारिखननात् इदं नगरं ६ शतकीयमिति प्रमाणितम् । प्राग्ज्योतिष्पुरम् दुर्जय इति विभिन्नकाले निर्दिश्यमानम् इदं नगरं कामरूपसाम्राज्यस्य वर्मवंशस्य पालवंशस्य च काले राजधानी आसीत् । ह्यूयन् त्साङ्गस्य विवरणानुगुणं प्रसिद्धस्य भास्करवर्मणः (७ शतकम्) अवधौ इदं नगरं १५ कि मी मितं विस्तृतं जातम् । तस्य विशालस्य नौकागणस्य आश्रयभूमिः आसीत् (३०,००० युद्धनौकाः, हिन्दुमहासागरतः चैनादेशं यावत् समुद्रमार्गज्ञातारः आसन् तत्रत्याः अधिकारिणः) । अधुनातनस्य काटन्महाविद्यालयस्य निर्माणावसरे कृतात् खननात् प्राप्तेभ्यः इष्टिकाभित्तिभ्यः गृहेभ्यश्च इदं ज्ञायते यत् ९-११ शतकं यावत् इदं महानगरम् आर्थिकदृष्ट्या महत्त्वम् आवहति स्म इति ।

बालाजिदेवालयः, गुवहाटी

१२-१५ शतकेषु कमटसाम्राज्यस्य पतनानन्तरं नगरस्य पूर्वतनं वैभवं निरस्तं जातम् । पूर्व-पश्चिम-असमराज्यस्य कोच् हाजो, अहोम् साम्राज्ययोः प्रमुखं सेनाकेन्द्रत्वेन मात्रम् अतिष्ठत् । मुघल्जनाः असमराज्यस्य उपरि १७ वारम् आक्रमणम् अकुर्वन् । किन्तु अहोम्साम्राज्यस्य बिर् लचित् बोर्फुकानेन ते पराजिताः जाताः । गुवहाटीसमीपं १६७१ तमे वर्षे जातं सरैघाट्युद्धं बहु प्रसिद्धं युद्धं यस्मिन् मुघल्जनाः शोचनीयपराजयं प्राप्नुवन् । अति प्रमुखं पुरातत्त्वकेन्द्रमस्ति दिघालिपुखुरिसमीपे विद्यमानम् अम्बारिपुरातत्त्वकेन्द्रम् ।

नगरसंरचना[सम्पादयतु]

अस्मिन् नगरे पान्-बझार्, पल्तान्-बझार्, फान्सि-बझार्, उझान्-बझार् च विद्यते ये नगरीयकार्येषु सहकुर्वन्ति । पल्तान्-बझार् उपाहारमन्दिराणां परिवहनव्यवस्थायाः च केन्द्रम् । पान्-बझार् शिक्षण-निर्वहण-कार्यालयीय-सांस्कृतिककेन्द्रं वर्तते । फान्सिबझार् वाणिज्यकेन्द्रं, उझान् बझार् प्रामुख्येन निवासस्थानम् अस्ति । एतेषां प्रदेशानां कारणतः इदं नगरं सर्वदा सक्रियं सजीवञ्च भवति ।

अन्तारचना[सम्पादयतु]

मध्यमगात्रकं नगरम् इदं भारतस्य ५० तमं (जनसङ्ख्या दृष्ट्या) नगरं वर्तते । किन्तु अस्य नगरस्य गुणवत्तता अधिका वर्तते । 'औट् लुक्'पत्रिकया कृतं सर्वेक्षणं दर्शयति यत् इदं भारतस्य नगरेषु १६ स्थाने विद्यते इति । सुन्दराः भूप्रदेशाः, हितकरं वातावरणं, आधुनिकविक्रयकेन्द्राणि, आधुनिकगृहसमुच्चयाः, भवनानि, समीचीनः सामाजिकी व्यवस्था च अत्र विद्यते । तथापि अन्तारचना परिष्कारयोग्या वर्तते बहुषु विषयेषु । जलव्यवस्था अपर्याप्ता । पर्वतात् मृत्पतनं नगरे महतीं समस्यां जनयति ।

नीलाचलतः ब्रह्मपुत्रनदस्य दृश्यम्

जनसङ्ख्या[सम्पादयतु]

भारते वेगेन वर्धमानेषु नगरेषु गुवहाटी अन्यतमम् । नगरस्य जनसङ्ख्या वेगेन अवर्धत । १९७१ तमे वर्षे २,००,००० आसीत् । १९९१ तमे वर्षे ५,००,००० जातम् । २००१ तमे वर्षे ८,०८,०२१ जातम् । २०११ तमे वर्षे २,५०,००,००० । २०११ तमे वर्षे पुरुषाः ५५% आसन्, महिलाः ४५% आसन् । ७८% जनाः अक्षरज्ञाः विद्यन्ते तेषु ८१% पुरुषाः ७४% महिलाः । हिन्दुधर्मानुयायिनः अत्र अधिकाः सन्ति ।

आर्थिकता[सम्पादयतु]

गुवहाटी ईशान्यभागस्य प्रमुखं वाणिज्यकेन्द्रम् । वाणिज्यं, परिवहनं च अस्य प्रमुखम् आर्थिकमूलम् । इदं प्रमुखं महाविक्रयकेन्द्रं, विपणिः, अल्पशोविक्रयकेन्द्रं च । गुवहाटी टी आक्षन् केन्द्रम् जगति एव बृहत्तमं वर्तते । उत्पादनमपि एतेषु दिनेषु वर्धमानम् अस्ति । नून्मटिप्रदेशे विद्यमानम् ऐ ओ सि एल् पेट्रोलियं संस्करणकेन्द्रं प्रमुखम् उत्पादनोद्यमं वर्तते । प्रकाशक-मुद्रणोद्यमः अपि प्रमुखः वर्तते । गतदशकद्वयात् क्षेत्रविक्रयणं, प्रवासोद्यमः, संशोधनं, सांस्कृतिककलापाः, शिक्षणं च वर्धमानानि सन्ति, नगरस्य आर्थिकतासहायकानि सन्ति ।

परिवहनम्[सम्पादयतु]

एल् जि बि अन्ताराष्ट्रियविमाननिःस्थानम्

विमानम्[सम्पादयतु]

बोर्झार्मध्ये विद्यमानं लोकप्रिय-गोपिनाथ-बार्डोलोय्-अन्ताराष्ट्रियनिस्थानकं नगरस्य केन्द्रभागतः पश्चिमदिशि २० कि मी दूरे विद्यते । अस्मिन् निस्थानके प्रतिदिनं ९५-१०० विमानयानानि अटन्ति । इतः देहली, मुम्बै, जैपुर्, कोल्कत, बेङ्गलूर्, चेन्नै, अहमदाबाद् इत्यादि नगरं प्रति विमानयानव्यवस्था वर्तते । गुवहाटीतः शिल्लाङ्ग् (३० निमेषाः), तुरा (५० निमेषाः), नहर्लगून् (ईटानगर्), तवाङ्ग् (७५ निमेषाः) नगरं प्रति हेलिकाप्टर्व्यवस्था अपि उपलभ्यते । अस्य विमाननिस्थानकस्य आधुनिकीकरणम् अधुना प्रचलति ।

रैल्यानम्[सम्पादयतु]

गुवाहटी भारतीयरैल्-व्यवस्थायाः ईशान्यसीमामण्डले अन्तर्भवति । गुवहाटीनिःस्थानं मुख्यं वर्तते । कामाख्या, नवगुवहाटी च पश्चिमदिशि पूर्वदिशि च वर्तेते । प्रमुखानि यानानि सन्ति - गुवहाटी राजधानी-एक्प्रेस्, पूर्वूत्तर्-सम्पर्कक्रान्ति-एक्प्रेस्, कामरूप-एक्प्रेस्, सरैघाट्-एक्प्रेस्, नार्त्-ईस्ट्-एक्प्रेस्, गुवहाटी-बेङ्गलूरु-एक्प्रेस्, गुवहाटी-एर्नाक्युलम्-एक्प्रेस्, गुवहाटी-जोरत् जन्-शताब्दि-एक्प्रेस् इत्यादयः । गुवहाटीतः भारतस्य केषाञ्चन केन्द्र-पश्चिमनगराणां प्रति सम्पर्कः कल्पनीयः अस्ति ।

लोकयानम्[सम्पादयतु]

राष्ट्रियमार्गः ३१ - इत्येषः गुवहाटीतः बिहार्, झार्खण्ड्, पश्चिमवङ्गं प्रति सम्पर्कं कल्पयति । राष्ट्रियमार्गः ३७ - इत्येषः असमस्य गोल्परतः नागलेण्डस्य दिमापुरगमनावसरे गुवहाटीतः असमस्य जोर्हत्, दिब्रुगर्, बोङ्गैगान् इत्यादीनां सर्वेषां नगराणां सम्पर्कं कल्पयति । अडबरि पल्तान् बझार् इत्येताभ्यां स्थलाभ्याम् अन्येषां राज्यानां कृते समीचीनः सम्पर्कः कल्पितः अस्ति । सर्वकारेण स्वायत्तसंस्थया च यानव्यवस्था निरुह्यते । इम्फाल्तः गुवहाटीं प्रति नियतयानव्यवस्था वर्तते । भूतान् बाङ्ग्लादेशात् आगताः यात्रिकाः सीमाप्रदेशतः नगरम् लोकयानेन आगन्तुम् अर्हन्ति ।

नौकायानम्[सम्पादयतु]

ब्रह्मपुत्रनदस्य तीरे विद्यमानात् गुवाहटीतः राष्ट्रियजलमार्गः २ पाण्डुप्रदेशे सम्पृक्तः अस्ति ।

काटन्महाविद्यालयः

शिक्षणम् आरोग्यञ्च[सम्पादयतु]

गुवाहटीविश्वविद्यालयः नगरस्य जलुक्बारिप्रदेशे वर्तते । असमराज्ये संस्थापितः प्रथमः विश्वविद्यालयः अयम् १९४८ तमे वर्षे कार्योन्मुखः जातः । ईशान्यभागस्य अपि आदिमः शैक्षणिकसंस्था इयम् । इण्डियाटुडे पत्रिकया कृतेन सर्वेक्षणेन ज्ञायते यत् अयं विश्वविद्यालयः भारतस्य अत्युत्तमेषु षड्विंशत्याम् अन्यतमः इति । शताधिकवर्षीयः काटन्विद्यालयः ईशान्यभारते एव पाण्डित्यदृष्ट्या सांस्कृतिकदृष्ट्या च श्रेष्ठः वर्तते । दि इण्डियन् इन्स्टिट्यूट् आफ् टेक्नालजि भारतस्य प्रमुखेषु ऐ ऐ टि संस्थासु षष्ठे स्थाने विद्यते । १९९४ तमे वर्षे आरब्धः अयं विद्यालयः शैक्षणिकदृष्ट्या संशोधनदृष्ट्या च महत्त्वपूर्णः । दि अस्साम् इञ्जिनियरिङ्ग् महाविद्यालयः, गौहाटी वैद्यविद्यालयः, दन्तविद्यालयः, अनुवैद्यविद्यालयश्च प्रमुखाः ।

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=गुवहाटी&oldid=241335" इत्यस्माद् पुनः प्राप्तिः