चन्द्रगुप्तः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(चन्द्रगुप्त इत्यस्मात् पुनर्निर्दिष्टम्)
चन्द्रगुप्त: (३१०-३३५) भारतस्य सम्राट् आसीत्। सः घटोत्कचस्य सुतः आसीत्। स: अयोध्याप्रयागमगधादीनाम् नगराणाम् अधिपतिः आसीत्। सः महाराजाधिराज: इति अभिधानम् अलभत। तस्य वर्धितवत्या श्रिया तस्य सुवर्णनाणकेषु दृश्यते। तस्य पट्टाभिषेक: ३२० तमे वर्षे अभवत्।
| चन्द्रगुप्तःI | ||||||||||
| राज्यम् | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
|
||||||||||
| वंशः | ||||||||||
|
||||||||||
| परिवारः | ||||||||||
|
||||||||||
[सम्पादयतु] गुप्तलिच्छव्योः सख्यम्
सः लिच्छवीराजकुमारीम् कुमारदेवीम् परिणीतवान्। तेषाम् विवाहस्य चित्रं स्वनिष्केषु अङ्कितम्। समुद्रगुप्तः अपि कुमारदेव्याः पुत्रः एव आसीत्। लिच्छवीराज्यम् उपमगधम् उत्तरदिशि आसीत्। गुप्तलीच्छवीराज्ययोः ऐक्यम् समुद्रगुप्तस्य विजयेषु उपाकरोत्।