चिक्रोड़ः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Squirrels
Various members of the family Sciuridae           Callosciurus prevostii   Tamias sibiricus   Tamiasciurus hudsonicus    Sciurus niger   Spermophilus columbianus      Xerus inauris     Cynomys ludovicianus
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Mammalia
गणः Rodentia
उपगणः Sciuromorpha
कुलम् Sciuridae
Fischer de Waldheim, 1817
उपविभागीयस्तरः

and see text

चिक्रोडः

चिक्रोडा: मध्यमगात्रीया: प्राणिन: दंशक परिवारस्य सदस्या: । अस्मिन् वर्गे वृक्षवासी , भूवासी, नभगामी चिक्रोडा: इत्यादि भेदा: भवन्ति । अमेरिका युरेशिया तथा आफ्रिका भूखण्डानां मूलनिवासिन: चिक्रोडा: ४ कोटि वर्षेभ्य: पूर्वं भूमौ जाता: । ते आनित्यहरिद्वर्णप्रदेशात् मरुभूमि पर्यन्तं सर्वेषु भूप्रदेशेषु वस्तुं शक्यन्ते । ध्रुवप्रदेश: तथा अतिशुष्कभूभागा: तै: न वासयोग्या: । रामायणे सेतुबन्धनाख्याने विक्रॊडस्य उल्लॆख: अस्ति । सेतुबन्धनेन सदृशं महाकार्ये लघुजीवेन चिक्रोडेन अपि भाग: गृहीत: । अन्य भारतीय भाषासु तमिळु- अनिल्, तेलुगु- वुदुत, मलयाली- अन्नन्, कन्नड- अळिलु, - इति नामनि संबोध्यते।

शरीररचना[सम्पादयतु]

चिक्रोडा: लघुजीवा: । कुब्जे शरीरे केशसमृद्ध: पुच्छ:, विशालानि नेत्राणि च भवन्ति । केशा: मृदुदुकूलमिव भासन्ते । प्रत्येकेपादे ५ अंगुल्य: विद्यन्ते । पादाग्र: य: वृक्षारोहणे सहायक:, मृदु भूत्वापि दृढ: वर्तते । तेषां हृदयभागे तथा अन्य निम्नाङ्गेषु स्थितेभ्य: स्पर्शाङ्गेभ्य: उत्कृष्टं स्पर्शज्ञानं ते प्रदर्शयन्ति । विशालनेत्रयुक्ता: चिक्रोडा: तीक्ष्णं दृष्टिसामर्थ्यमपि आप्नुवन्ति । चिक्रोडानां दन्ता: शक्तिशाली भवन्ति आजीवनपर्यन्तं वर्धन्ते च ।आहारकर्तनार्थं मुखस्य अन्ते स्थलावकाश: विद्यते । चिक्रोडानां आयु: षट् वर्षाणि । नगरवासी चिक्रोडा: वाहनाघातेन ग्रामवासिन: आहाराभावेन च आकालमरणं प्राप्नुवन्ति ।

आहारम्[सम्पादयतु]

मूलत: चिक्रोडा: शाकाहारिण: शुष्कफलानि बीजानि शाकानि च खादन्ति । यदा शाकाहार: अलभ्य: तदा कीटान् अण्डानि पक्षिशावकान् सर्पशावकान् च खादन्ति । समशीतोष्णप्रदेशे ग्रीष्म: तेषां कृते कठोरकाल: । यत: भूमौ स्थितानि बीजानि अङ्कुरितानि । अपिच नवाहारोत्पादनं यावत् न संभवति । शीतप्रदेशेषु अधिकश: कीटानेव भक्षयन्ति ।

व्यवहार:[सम्पादयतु]

चिक्रोडानां सन्तानोत्पत्ति: वर्षे एक या द्विवारं भवति । गर्भावस्था त्रि – षट् सप्ताहात्मकी । जात्यानुसारेण सन्तानसंख्यासु भेदा: सन्ति । नवजात: चिक्रोड: दन्तहीन: दृष्टिहीन: च वर्तते । चिक्रोडा षट्- दशसप्ताह पर्यन्तं स्तन्यपानं कुर्वती शिशून् पालयति । प्रथमवर्षान्ते चिक्रोडशिशु: यौवनावस्थां प्राप्नोति । भूवासिन: चिक्रोडा: समाजपेमिण: किन्तु वृक्षवासिन: एकाकिन: भवन्ति । भू तथा वृक्षवासी चिक्रोडा: दिनचरा: किन्तु नभगामीचिक्रोडा: निशाचरा: वर्तन्ते

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=चिक्रोड़ः&oldid=280755" इत्यस्माद् पुनः प्राप्तिः