भ्रष्टाचारः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भ्रष्टाचारः

प्रवेशः[सम्पादयतु]

भ्रष्टः चासौ आचारः भ्रष्टाचारः । यस्य आचारः भ्रष्टः सः भ्रष्टाचारी इति कथ्यते । इत्युक्ते यस्य जीवनपथः नष्टः अथवा व्यत्यस्तः सः भ्रष्टः इति भवति । समीचीनं मार्गं त्यक्त्वा असमीचीने मार्गे गमनम् एव भ्रष्टाचारः इति उक्तः । अस्य अर्थज्ञानं यावत् सुकरं तस्य परिणामज्ञानं तावदेव दुष्करम् । विश्वे सर्वत्र भ्रष्टाचारस्य व्याप्तिः अस्ति चेदपि अस्मिन् विषये प्रथमस्थानं तु भारतस्य एव । आङ्ग्लैः भारतं बहुकालं प्रशासितम् । अयं व्यवहारः अपि भ्रष्टचारः एव । तै पाठितः अयं भ्रष्टचारः अस्मिन् देशे इदानीं रूढमूला समस्या । अन्यासां समस्यानाम् आदिः अन्त्यः च कुतः कथं इति तु ज्ञायते एव । किन्तु अस्य भ्रष्टाचारस्य कुतो वा आरम्भः कियत्पर्यन्तम् अस्ति । अस्य कारणं किम् इति अवगन्तुं कष्टं भवति । बीजवृक्षन्यायः इव विवाहसमये वरदक्षिणायाः भ्रष्टचारे उत्कोचस्य च दानेन आरम्बः अभवत् उत स्वीकरणेन अभवत् इति वक्तुं सुकरं न ।

भेदाः[सम्पादयतु]

भ्रष्टाचारे द्वैविध्यम् अस्ति । राजकीयजनाः अधिकारिणः च स्वप्रभुत्वस्य प्रभावात् सर्वकारीयां सम्पत् आत्मसात् करणम् अथवा राजकरं वञ्चयित्वा आनैतिकेन वाममार्गेण वा अमितसम्पदः सङ्ग्रहणम् एकविधम् । अपरं तु सार्वजनिकसेवायां नियुक्ताः अधिकारिणः उत्कोचस्वीकरणम् । सर्वकारीयेषु कार्यालयेषु निम्नस्तरात् उच्चस्तरपर्यन्तं उत्कोचः उत्तरोत्तरं वर्धते । अथवा कस्यचित् ग्राहकस्य महाकार्यं पूरयितुं स्वाकृता धनराशिः स्तरानुगुणं वितीर्णा भवति । उन्नताधिकारिणः स्वापराधं गोपयितुं क्षालयितुं वा प्रभुत्वारुढराजकीयनायकेभ्यः कञ्चनांशं समर्पयन्ति । अनायासेन तस्मिन् नेतरि सम्पत्सङ्ग्रहः भवति अजान् एव भ्रष्टः अपि भवति ।

व्याप्तिः[सम्पादयतु]

भ्रष्टाचरः विशेषतः सर्वकारीय कार्यालयेषु विरजते । यथा पिता स्वपुत्री पतिगृहे सुखेन जीवतु इति धिया धनककादीनि दत्वा तस्याः विवाहं समाचरति तथैव जनाः सर्वकारीयेषु कार्यालयेषु स्वकार्यं शीघ्रं सम्भवतु इति अधिकारिभ्यः आमिषरूपेण धनं दातुम् आरब्धवन्तः । अयम् अक्रमः एव कालान्तरेण भस्मासुरवत् बलिष्टः भूत्वा जनजीवनम् एव असह्यं कुर्वाणः अस्ति । परिचारकात् आरभ्य पर्माधिकारिणः पर्यन्तं सर्वेऽपि गिलने अजगराः सञ्जाताः । राजकीयनेतृभ्यः महाधिकारिभ्यः च उक्तोचं दत्वा उद्योगे नियुक्तः कश्चित् केवलं मासिकवेतनेन सन्तुष्टः भवति वा । न, दत्तोत्कोचस्य परिपूरयितुं सः अपि जनेभ्यः उत्कोचं चूषयति एव । न्यायालयेषु जयप्रप्तये, सर्वकारीयकार्ययोजनायाः आदेशप्रापणे, चिकित्सालयेषु योग्यचिकित्साप्राप्त्यर्थे, आरक्षकालये नष्टवस्तुनां शोधनार्थं, गृहनिर्माणस्य अनुमतिप्राप्तये, स्थिरसम्पत्तेः क्रयविक्रानुमतिप्राप्तये च इत्यादिषु अवसरेषु सर्वकारीयानाम् अधिकारिणाम् हस्तान् उष्णीकरणीयं भवति (उत्कोचः देयः)।

परिणामः[सम्पादयतु]

यदि शिरः समीचीनं भवति तदा अन्याङ्गानि सम्यक् कार्यं कुर्वन्ति । तथैव यदि अधिकारूढः प्रभुः तस्य सचिवमण्डलं सदाचारिणः शुद्धहस्ताः भवन्ति तदा कार्याङ्गानि सक्षमानि भवन्ति । सामन्यजनाः भ्रष्टाचारं विरुध्य सङ्ग्रामसदृशानि अन्दोलनानि कुर्वन्तु । विना उत्कोचदानेन कार्यसमापनं निरीक्षताम् । भ्रष्टाचारसम्बद्धम् अपराधं ज्ञात्वा आरक्षणस्थाने आक्षेपं लेखयन्तु । सङ्घे शक्तिः कलौ युगे इति वचनानुगुणं सामूहिकः सङ्घटितप्रयत्नेन अस्य समाजकण्टकस्य भ्रष्टाचारस्य उन्मूलनं भवितुमर्हति ।

"http://sa.wikipedia.org/w/index.php?title=भ्रष्टाचारः&oldid=284393" इत्यस्माद् पुनः प्राप्तिः