शिवानी (रामगिरिः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


शिवानी (रामगिरिः) एतत् पीठं भारतस्य उत्तरप्रदेशस्य चित्रकूटमण्डले अस्ति ।

सम्पर्कः[सम्पादयतु]

रामगिरिनगरं झान्सी-माणिकपुररेलमार्गयोः मध्ये अस्ति । चित्रकूटधाम्नः ११ की. मी.दूरे अस्ति । समीपस्थं विमाननिस्थानकं खुजराहो १७५ कि.मी. दूरे अस्ति ।बस् यानानां सौकर्यम् अपि अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अस्मिन् स्थाने देव्याः उरसः दक्षिणभागः पतितः इति ऐतिह्यम् अस्ति । केषाञ्चन मतानुसारं अस्मिन् स्थाने देव्याः उरसः वामभागः पतितः । अत्रत्या देवी शिवानी नाम्ना पूज्यते । देव्या सह स्थितः शिवः चण्डः इति च पूज्यते । चित्रकूटस्य दक्षिणभागे २ की.मी. दूरे मन्दाकिनी नामिका नदी प्रवहति । एतस्याः तीरे जानकीसरोवरम् अथवा जानकीकुण्डम् इति ख्यातं स्थानम् अस्ति ।एतत् एव शक्तिपीठम् इति अपि केषाञ्चन मतम्। अन्ये केचन एतत् पीठं प्रसिद्धे बौद्धकेन्द्रे राजघर् इत्यत्र अस्ति । अत्र गृद्धकूटनामके स्थाने उष्णजलस्य उत्सांसि सन्ति । यात्रिकाः अत्र स्नानं कृत्वा लक्ष्मीनारायणदेवालये प्रार्थनां कुर्वन्ति

"https://sa.wikipedia.org/w/index.php?title=शिवानी_(रामगिरिः)&oldid=389094" इत्यस्माद् प्रतिप्राप्तम्