हाङ्ग् काङ्ग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हांग् कांग् नगरम् इत्यस्मात् पुनर्निर्दिष्टम्)
A sky view of Hong Kong Island
हांग् कांग् नगरस्य प्रगतिः १९८६
पीक् ट्राम् इति नगरपरिवहनम्
ब्रूस् ली प्रतिमा

महता जनसम्मर्देन युक्तं तथापि सौन्दर्येण् समेतं रमणीयं लधुनगरम् अस्ति हांग् कांग् एतत् नगरम् इदानीम् आंगलानाम् उपनिवेशः अस्ति । एशियाखण्डस्य भूपटस्य् दर्शनात् ज्ञायते यत् हांगकांग् चीनादेशस्य एव भूभागः इति । तथापि एतत् आंग्लानाम् उअपनिवेशः कथं जातम् ? सा च काचित् कथा । बहुभ्यः वर्षेह्यः ब्रिटनतः चीनादेशं प्रति अफीमद्र्व्यं प्रेष्यमाणम् आसीत् । किन्तु १९४२ तमे वर्षे चीनादेशे अकस्मात् विदेशात् आनीयमानस्य अफीमद्र्व्यस्य निषेधः कृतः ।एतेन क्रुद्धेन ब्रिटिशसर्वकारेण हांग्कांगद्वीपः स्वायत्तीकृतः ।

3-storey red brick building with gabled roof adjacent to 7-storey modern building with flat roof.
हांग् कांग् नगरस्य विश्वविद्यालयः

किन्तु केषाञ्चित् लघुयुद्धानां, बहुविधवार्तालापस्य च अनन्तरं ब्रिटिश् सर्वकारेण अङ्गईकृतं यत् शतं वर्षाणि यावत् केवलं, हांगकांग्नगरं वशे स्थाप्यते इति । १९९७ तमे वर्षे स च अवधिः समाप्तः । अधुना चीनादेशस्य अधीनमस्ति हंग्कांगनगरम् ।

अन्तर्दृश्यम् नगरस्य

एषु दिनेषु हांग्कांगनगरम् कार्यबाहुल्ययुतेषु नगरेषु अन्यतमम् अस्ति वाणिज्यकारणतः एत्स्मिन् सदा क्रियाशीलता दृश्यते । गगनचुम्बीनि भावनानि, भोगविलासपरं जनजीवनम् आहुनिकतान्त्रकतायुक्तता इत्यादिभिः एतत् नगरं चीनस्य प्रधानभूभागादिब्य्यः पृथक् एव भास्ते । साम्यवादसिद्धान्तविरुद्धं, हांगकांगनगरस्य वाणीज्यं किं चीनस्य अधिकार्स्य आगमनस्य अनन्तरम् अप्पि अनुवर्तेत् ? चीनसर्वकारः वदति यत् इदानीं तत् नगरं यथा अस्ति तथैव अग्रे अपि भविष्यति इति । किन्तु हांगकांग् नग्रीयाः ज्येष्ठाः वणिजःअ एअत्स्मिन् विषये विश्वासं न प्रकटयन्ति । अतः बहूव्यः वाणिज्यसंस्थाः स्व्कार्यकेन्द्रभूतान् कार्यालयान् सिंगपुर, बैंगकाक्, टायिपी, मनीला इत्यादीनि नगराणि प्रति नयन्तः सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Government
Other
"https://sa.wikipedia.org/w/index.php?title=हाङ्ग्_काङ्ग्&oldid=467024" इत्यस्माद् प्रतिप्राप्तम्