कर्णाटकस्य एकीकरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Karnataka's Unification इत्यस्मात् पुनर्निर्दिष्टम्)
कर्णाटकराज्यम्
एकीकरणम् पूर्वम्
एकीकरणम् पूर्वम्


कर्णाटकस्य एकीकरणं तु क्रि.श. १९५६तमे वर्षे भारतस्य राज्यानां संविचयनकाले भाषाधारेण कन्नडभाषाभाषिकानां चत्वारभागान् मैसूरुसंस्थानेन सह विलीनस्य प्रक्रिया ।

तस्मात् पूर्वम्[सम्पादयतु]

क्रि.श.१९७३तः पूर्वं कर्णाटकस्य नाम मैसूरुराज्यम् इति आसीत् । अस्य कारणं तु कर्णाटकस्य प्रथमसृष्टिः मैसूरुसंस्थानस्य आधारेण अभवत् ।मैसूरुसंस्थानम्, हैदराबादकर्णाटकम्, मुम्बैकर्णाटकम्, मद्रासकर्णाटकं इत्यायः चत्वारः भागाः एकीभूय कर्णाटकस्य उदयः अभवत् । एतद्दिनम् इदानीमपि स्मिन् राज्ये कन्नडराज्योत्सवः इति पर्वणः रूपेण आचरन्ति । क्रि.श. १९५६तमे वर्षे राज्यं परितः विद्यमानाः कन्नडभाषिकप्रदेशाः अस्मिन् योजिताः ।

एकीकरण्स्य सङ्घर्षः[सम्पादयतु]

कर्णाटकस्य एकीकरणं भवेदेव इति सङ्घर्षः स्वातन्त्र्यपूर्वादेव आसीत् । हैदराबदप्रदेशे सञ्चालिते काङ्ग्रेस् अधिवेशने कर्णाटकस्य एकीकर्णस्य अभ्यर्थना तिरस्कृता । कन्नडजनाः आशाभग्नाः अभवन् । कर्णाटकस्य काङ्गेस् नायकाः निजलिङ्गप्पस्य नेतृत्वेन हुब्बळ्ळिनगरे महासभाम् आयोज्य एकिकरणस्य विषये महानिर्णयस्य अवसरः प्राप्तः । तन्मध्ये सङ्घटनस्य संवर्धनार्थं समग्रराज्यं सञ्चार्य अन्नदानय्यः पुराणिकः अखिलकर्णाटकविद्यार्थिपरिषत् इति सङ्घटनं प्रतिष्ठापितवान् । अस्य प्रथमसम्मेलनं हैदराबादनगरे अयोजितवान् । कर्णाटकस्य ज्येष्ठा राजनीतिज्ञा मार्गरेट् आळ्वा अस्यां परिषदि सक्रिया आसीत् । अस्य सम्मेलनस्य सर्वानुमतस्य निर्णयस्य अनुसारम् अखिलकर्णाटकस्य विद्यार्थिपरिषदः सदस्याः जागरिताः एकिकरणसङ्घार्षे सक्रियाः भवेयुः इति अहूताः । अतः हुब्बळ्ळिनगरे छात्राणां महाशोभायात्रा प्राचलत् । विरोधिनः हिंसाचारान् अकुर्वन् । आरक्षकाः परिषद्गणेन एव हिंसाचरिता इति विचिन्त्य अन्नदानय्य पुराणिकेन सहितं छात्रान् बद्धवन्तः । कर्णाटकस्य भूतपूर्वमुख्यमन्त्री एस्.आर्.बोम्मायी हुब्बळ्ळिनगरस्य ज्येष्ठः राजनीतिज्ञः न्यायवादी शेट्टर् न्यायालये वादं कृत्वा पुराणिकस्य विमोचनम् अकुरुताम् ।

अन्नदानय्यः पुराणिकः[सम्पादयतु]

कर्णाटकस्य एकीकरणस्य पश्चात् समाजस्य न्यायाङ्गस्य, साहित्यस्य सेवायाम् अन्नदानय्यः पुराणिकः निरतः अभवत् । एषः बेङ्गळूरुमहानगरस्य जयनगरे पत्न्या नीलाम्बिकया सह वसति । कन्नडभाषासेवार्थं नियतं श्रीसिद्धलिङ्गप्रकाशनं सञ्चालयति । पुत्री चन्द्रिका कन्नडभाषया प्रसिद्धा साहित्यकर्त्री, अकाशवाण्याः दूरदर्शनस्य मान्यकलवती अपि च शेषाद्रिपुरस्य सन्ध्यामहाविद्यालये कन्नडविभागाध्यक्षा । पुत्रः उदयशाङ्करपुराणिकः बहुराष्ट्रियसमवये तन्त्रज्ञमुख्यः अस्ति । कन्नडभाषा तन्त्रज्ञानसम्बद्धान् अनेकलेखान् वृत्तपत्रिकासु लिखितवान् । सूचनतन्त्रज्ञानविषये ग्रन्थन् अपि व्यरचयत् ।

"https://sa.wikipedia.org/w/index.php?title=कर्णाटकस्य_एकीकरणम्&oldid=392554" इत्यस्माद् प्रतिप्राप्तम्