सदस्यः:सुब्रह्मण्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अहं सुब्रह्मण्य नामा संस्कृत अकाडमी इति संस्थायाम् उपनिदेशपद्यव्यां कार्यं निवर्तयामि। संस्कृत अकाडमी इति संस्था राष्ट्रियसंस्कृतसंस्थानेन मानिता आदर्शशोधसंस्था। संस्कृत अकाडमीति संस्था 1954 तमे वर्षे तदानीन्तर आन्ध्रप्रदेशराज्यसर्वकारेन संस्थापिता। इयं 2002 तमे वर्षे राष्ट्रियसंस्कृतसंस्थानेन आदर्शशोधसंस्थानत्वेन मानिता सती संस्थानस्यैव वित्तीय साहाय्येन स्व पुरोगतिं साधयन्ती अस्ति। अस्याः संस्कृतप्रसारप्रचार इति, मुद्रितानाम् अमुद्रितानाम् विरळानां पाण्डुलिपिग्रन्थानां प्रकाशनं मुख्यं लक्ष्यम्। 1954 वर्षतः अधुना यावत् शताधिकग्रन्थानां प्रकाशनम् अनया कृतम्। तेषु काशिका, आयुर्वेदाब्धिसार, साहित्यरत्नाकरः, पदमञ्जरी, काशिकाविवरणपञ्जिका इत्यादयः प्रमुखाः। इयं वार्षिकीं Journal of Sanskrit Academy इति शोधपत्रिकामपि सञ्चालयति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:सुब्रह्मण्यम्&oldid=289374" इत्यस्माद् प्रतिप्राप्तम्