लुङ् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लुङ् लकारः सामान्यभुतकालं बोधयति। लङ् लुङ् च भुतकालयोः लकारयोः धातोः आरम्भे एकः अकार-उपसर्गः योज्यते। अपि च लुङ् लकारे धातोः मध्यः स्वरः सामान्यतः गुणं उत वृद्धिं भवति।[१]

बहवः अन्य अन्ताः सन्ति, एते द्वे अति सामान्ये अन्तः एव स्तः-

पठ् धातोः लुङ् लकारे रूपाणि [२]
लुङ् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपाठीत् अपाठिष्टाम् अपाठिषुः
मध्यमपुरुषः अपाठीः अपाठिष्टम् अपाठिष्ट
उत्तमपुरुषः अपाठिषम् अपाठिष्व अपाठिष्म
लुङ् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लुङ् लकारः (परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरु़षः इत् स्ताम् सुः
म़ध्यमपुरुषः इः स्तम् स्त
उत्तमपुरु़षः सम् स्व स्म


सेव् धातोः लङ् लकारे रूपाणि [३]
लुङ् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असेविष्ट असेविषाताम् असेविषत
मध्यमपुरुषः असेविष्ठाः असेविषाथाम् असेविध्वम्
उत्तमपुरुषः असेविषि असेविष्वहि असेविष्महि
लुङ् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः (तिङ्प्रत्ययाः)
लङ् लकारः (आत्मनेपदम्) एकवचनम् द्विवचनम् बहु वचनम्
प्रथमपुरु़षः स्थ साताम् सत
म़ध्यमपुरुषः स्थाः साथाम् ध्वम्
उत्तमपुरु़षः सि स्वहि स्महि

यदा वेदे सः अकार-उपसर्गः नास्ति, तदा तं पादं लिङ् लकारमिव भवति।

वाते॑ धाः। (तै सं ॥१।१।१।१३॥)
मा मा॑ हिंसीः। (तै सं ॥१।२।२।३॥))

ग्रन्थसूची[सम्पादयतु]

  1. Panini, R. Chandravasu, S. (500 BCE, 1891) The Aṣṭhādhyāyi of Pāṇini. Archive.org. https://archive.org/details/rsmm_ashtadhyayi-of-panini-vol-1-edited-by-srisa-chandra-vasu-new-delhi-motilal-banarasi-dass/page/558/mode/2up
  2. Whitney, W. D. (1879, July). A Sanskrit Grammar; Including Both The Classical Language and The Older Dialects, Of Veda And Brahmana. Breitkopf & Härtel, Leipzig, Archive.org. https://archive.org/details/sanskritgrammari00whituoft
  1. 1
  2. 2
  3. 2
"https://sa.wikipedia.org/w/index.php?title=लुङ्_लकारः&oldid=486449" इत्यस्माद् प्रतिप्राप्तम्