लृङ् लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा-

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ६.लिङ् (विधिलिङ्आशिर्लिङ्) । ७.लोट् । ८.लुट् । ९.लृट् । १०.लृङ्

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लृङ् लकारः सोपाधिभविष्यत्कालम् बोधयति। तद्यथा-

यदि अहं संस्कृतं अपठिष्यं, तदा अहं संस्कृतविद्वांसं अभविष्यम्।

लङ् लकारमिव लृङ् लकाराय एकः अकार-उपसर्गः अस्ति।

पठ् धातोः लृट् लकारे रूपाणि
लृट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठिष्यत् अपठिष्यताम् अपठिष्यन्
मध्यमपुरुषः अपठिष्यः अपठिष्यतम् अपठिष्यत
उत्तमपुरुषः अपठिष्यम् अपठिष्याव अपठिष्याम
लृट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लृट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्यत् स्यताम् स्यन्
मध्यमपुरुषः स्यः स्यतम् स्यत
उत्तमपुरुषः स्यम् स्याव स्याम


सेव् धातोः लृट् लकारे रूपाणि
लृट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असेविष्यत असेविष्येताम् असेविष्यन्त
मध्यमपुरुषः असेविष्यथाः असेविष्येथाम् असेविष्यध्वम्
उत्तमपुरुषः असेविष्ये असेविष्यावहि असेविष्यामहि
लृट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लृट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्यत स्येताम् स्यन्त
मध्यमपुरुषः स्यथाः स्येथाम् स्यध्वम्
उत्तमपुरुषः स्ये स्यावहि स्यामहि


इमे अपि पश्यन्तु[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  • संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
"https://sa.wikipedia.org/w/index.php?title=लृङ्_लकारः&oldid=486503" इत्यस्माद् प्रतिप्राप्तम्