अकशेरुकाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सामान्यः अकशेरुकः संशोधनार्थं स्वीकृतः

येषां प्राणिनां कशेरुः न भवति ते अकशेरुकाः इति उच्यन्ते । कशेरुः नाम पृष्ठास्थि । "पृष्टास्थिनः तु कशेरुका" इत्यमरः । वलयवत्सु कीटेषु केचन अकशेरुकाः वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम शिरः । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरुः यस्य सः अकशेरुकः । अस्य वर्गस्य प्रमुखाः सदस्याः कीटाः कर्कटाः अष्टपदिनः नक्षत्रमीनाः च इत्यादि । प्राणिप्रपञ्चस्य ९६ प्रतिशत जीविनः अकशेरुकाः एव ।

वर्गीकरणम्[सम्पादयतु]

कार्ल् लिनियस् महोदयः भागद्वयेषु तान् वर्गीकृतवान् - क्रिमिः कीटाः च । आधुनिक जीवविज्ञानिनः ३० वर्गेषु अकशेरुकान् वर्गीकृतवन्तः ।तथापि जन्तूनाम् अकशेरुक-कशेरुक इति वर्गीकरणं विज्ञानिषु जिज्ञासां जनयति । वर्गीकरणम् इदं मनुष्यकेन्द्रितः इति तेषां मतः यतः विश्वस्य अधिकशः प्राणिनः अकशेरुकाः एव । मानवः कशेरुकः इति कारणेन 'अकशेरुक' इति प्राणीनां वर्गीकरणं कृत्रिमः इति तेषाम् अभिप्रायः । अकशेरुकवंशे जीविनां लक्षणाः अपि समानाः न भवन्ति । तथापि कशेरु दृष्ट्या एव अगणिताः जीविनः अकशेरुकवंशे स्थापिताः सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अकशेरुकाः&oldid=482330" इत्यस्माद् प्रतिप्राप्तम्