अकशेरुकाः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
येषां प्राणिनां कशेरुका न भवति ते अकशेरुकाः इति उच्यन्ते । कशेरुका नाम पृष्ठास्थि । "पृष्टास्थ्नि तु कशेरुका" इत्यमरः । वलयवत्सु कीटेषु केचन अकशेरुका वर्तन्ते । यथा सहस्रपदी वलयवान् अपि च अकशेरुकः भवति । कम् नाम शिरः । कम्=शिरः शेते अस्मिन्निति कशेरुः । न विद्यते कशेरुका यस्य सः अकशेरुकः ।