अक्षि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अक्षीणि इन्द्रियाणि सन्ति यैः वयं प्रकाशस्य दर्शनं कुर्मः। मनुष्याणां द्वौ अक्षिणी स्तः। ते वक्त्रे शोभेते । ये ताभ्यां स्पष्टं द्रष्टुं न शक्नुवन्ति ते उपनेत्राणि धारयन्ति । इदं नेत्रम् आङ्ग्लभाषायां Eye इति उच्यते । इदं नेत्रं दर्शनेन्द्रियम् अस्ति ।

सामान्यमनुष्याक्षि

सर्वेन्द्रियाणां नयनं प्रधानम्[सम्पादयतु]

नयनेन्द्रियं मानवस्य प्रधानं ज्ञानकारणम्‌ । दृष्टवा वयं जगज्जानीमः । तदाधारेणैव सकलम्‌ अन्यद्‌ विद्मः । प्रकृत्या दत्तेषु वरेषु नयनं श्रेष्ठत्म्‌ । तद्विना अन्धाः कियत्‌ कषटम्‌ अनुभवन्तीति सर्वे विदन्ति । एतेषां कष्टं विदद्भिः जनैः स्वीयानि नयनानि संरक्षणीयानि । एतदर्थं नेत्ररोगज्ञानां साहाय्यं प्राप्तव्यम्‌ । प्रथमतो नयनरोगाणां कारणं निवारणीयम्‌ । मधुमेह एव प्रथमः शत्रुरिति वैद्या वदन्ति । रक्ते शर्करा नियन्त्रणीया । अन्यथा अक्षिरोग उल्बणो भविष्यति । प्रारम्भवेलायाम्‌ एव यदि परीक्षा वैद्यैः करिष्यते, तर्हि चिकित्सा सुलभा । रोगस्य उल्बणावस्थायां चिकि त्सा क्लिष्टा भविष्यति । तत्रापि विलम्बः क्रियते चेत्‌ , पूर्णतया आन्ध्यम्‌ एव भवेत्‌ । एवं कस्यापि लोकेमा भूत्‌ । लोके बहवो जन्मान्धाः सम्भवन्ति । तेभ्यो नयनदानं कर्तुं शक्यते नेत्रवद्भिः । मृतस्य नयनं निष्कास्य अन्यस्य मुखे योजयितुं वैद्याः शक्नुवन्ति । दृष्टिदानं महादानम्‌ । एवं दानं कृतवन्तः पुण्यं लभन्ते । तेषां नेत्रम्‌ अन्यत्र जीविष्यति । तथा कर्तुं धन्वन्तरिस्सर्वेभ्यः प्रेरणां ददातु ।

प्रक्षेपणयन्त्ररूपेण मनुष्यस्य चक्षुः[सम्पादयतु]

नेत्रभागानां मानचित्रम्

मनुष्यस्य चक्षुरपि एकं प्रक्षेपणायन्त्रमस्ति यतः छायाग्राहिकावत् अत्रापि दूरवर्तिनां वस्तूनां प्रतिबिम्बाणि तिरस्करिण्यां निर्वर्त्यन्ते । अक्षिगोलकं बाह्यतः एकेन उपारदर्शकेण श्वेतावरणेन (Salera) आच्छादितं भवति यस्य सम्मुखस्धः भागः पारदर्शकः स्वल्पोन्नतश्च भवति । उन्नतोऽयं भागः कार्निया (Cornea) इति नाम्नाभिधीयते । कार्नियाया अधोभागे छायाग्राहिकायाः छिद्रपटेन (Diaphragm) संयुज्यमाना एका तिरस्करिणी (Iris) भवति । अस्याः वर्णः विभिन्नेषु मनुष्येषु विभिन्नेषु च देशवासिषु विभिन्नो भवति । भारतीयेषु इयं प्रायशः कृष्णाशीतदेशवासिषु च कपिला भवति । तिरस्करिण्यामस्याम् एकं लघुछिद्रं भवति यत् अक्षितिलं अक्षिपुत्तलिका वा (Pupit of the Eye) इति नाम्नाभिधीयते । तिलमिदं छिद्रपटसुषिरवत् अन्धकारे बृहद् प्रकाशे च लघु भवति । यतः प्रकाशस्य नियमितमात्रा नेत्राभ्यन्तरे प्रवेष्टुं शक्नोति । तिलस्य तिरस्करिण्याः पृष्ठभागे एको लेन्सः भवति यः नेत्रलेन्स (Eyes Lense) इति नाम्नाभिधीयते । लेन्सस्यास्य तलयोरुभयोर्वक्रतार्द्धव्यासौ एकसदृशौ न भवतः । अपितु यत्तलं अन्तराभिमुखं भवति तस्य वक्रतार्द्धव्यासः सम्मुखीनस्य तलस्य वक्रतार्द्वव्यासात् न्यूनः भवति । यतोः वक्रतार्द्धव्यासौ क्रमशः ६ सेण्टीमीटारपरिमितः १० सेण्टीमीटरपरिमितश्च भवतः । लेन्सः शीशकवत् कठोरपदार्थेण निर्मितो न भवति अपितु मृदुना पारदर्शकेण च् वस्तुना निर्मितो भवति मांसपेशिनां (Ciliary body) साहाय्येन स्वस्थाने स्थिरो भवति ।

श्वेतावरणस्य अधोभागे एव एकं कृष्णवर्णीयपटलस्य (Choroid) आवरणं भवति येन स्वकृष्णावर्णत्वात् प्रकाशस्य शोषणं क्रियते तथा च चक्षुगोलकाभ्यन्तरे प्रकाशस्य परावर्तनम् अवरुध्यते । पटलस्यास्य अधोभागे चक्षुषः अन्तरतमः पारदर्शकः पटलः वर्तते यः नेत्रपटलम् (Retina) इति नाम्नाभिधीयते । पटलोऽयं दृष्टिनाडिकाभिः निर्मितो भवति तदुपरि च प्रकाशस्य प्रतिफलनात् मस्तिष्कोपरि तस्य प्रभावो भवति येन अस्माभिः वस्तूनां रङ्गरूपादीनां ज्ञानं क्रियते ।

नेत्रलेन्सत्य कोर्नियायाश्च मध्यस्थाने एकः पारदर्शको द्रवः पूरितो भवति यस्मिन् किञ्चित् साधारणं लवणं मिश्रितं भवति । द्रवोऽयं जलीयद्रव (Aqueous humour) इति नाम्नाभिधीयते । नेत्रलेन्सस्य नेत्रपलस्य च मध्ये पूरितः पारदर्शको द्रवः काचद्रव (Vitreous Homour) इत्यभिधीयते।

नेत्रपटलस्य सर्वथा पृष्ठभागे यत्र नाडिका तत्पटलं छित्वा मष्तिष्के प्रविशति तत्र प्रकाशस्य कोऽपि प्रभावो न भवति । अतएव तत्स्थानम् अन्धविन्दुर (Blind Spot) इतिनाम्नाभिधीयते । नेत्रपटलस्य मध्ये गोलाकारक एको बिन्दुः भवति यत्र निर्वर्तितं प्रतिबिम्बम् अत्यधिकं स्पष्टम् अवलोक्यते । स्थानमिदं पीतबिन्दुः (Yellow Spot) इत्यभिधीयते ।

नेत्रद्वारा प्रतिबिम्बनिर्माणम्[सम्पादयतु]

यथा छायाग्राहिपिटकेन वास्तविकं विपरीतञ्च प्रतिबिम्बं निर्वर्त्यते तथैव चक्षुषापि वास्तविकं विपरोतञ्च प्रतिबिम्बं निर्वर्त्यते । परन्तु, अस्माकं मस्तिष्के तद्विरीतं प्रतिबिम्बं आर्जवेन निर्दिश्यते ।

समञ्जतम् (Accomodation)[सम्पादयतु]

मनुष्यस्य स्वस्याक्षि ईदृग् भवति यत् नेत्रपटलं लेवलेन्सस्य फोकसे तिष्ठति । अतएव नेत्राद् दूरवर्तिनां वस्तूनां प्रतिबिम्बं नेत्रपटले अतिस्पस्ष्टं निर्वर्त्यते तदवलोकने च नेत्रोपरि बलाधानं सर्वथैव न भवति । यदि चेद् नेत्रलेन्सः शीशकवद् केनचित् कठोरपदार्थेण निर्मितः स्यात् तर्हि सकाशवर्तिनां वस्तूनां प्रतिबिम्बं नेत्रपटलस्य पृष्ठभागे निर्वर्तेत् तानि वस्तूनि च सुस्पष्टतया दृष्टिपथं न गच्छेयुः । छायाग्राहिपिटके लेन्सं पुरः पश्चाच्च अपसार्य प्रतिबिम्बं सुस्पष्टं क्रियते । परन्तु नेत्रे नेत्रलेन्सस्य नेत्रपटलस्य च मध्यवर्त्यन्तरालं परिवर्तयितुं न शक्यते । अतएव सकाशवर्तिनां वस्तूनां प्रतिबिम्बं नेत्रपटले तस्यामेव दशायां निर्वर्त्यते यहि तस्य फोकसान्तरालं ऊनोक्रियते । अतएव नेत्रलेन्सस्य मांसपेशिकाः लेन्सं सम्पीड्य स्थूलं कुर्वन्ति यतः तस्य फोकसान्तरालं ऊनं भवति सकाशवर्तिनश्च वस्तुनः प्रतिबिम्बं नेत्रपटले सु स्पष्टं निर्वर्त्यते । दूरवर्तिनां वस्तूनाम् अवलोकनसमये मांसपेशिकाः लेन्सात् स्वसम्पीडनम् अपाकुर्वन्ति लेन्सश्च प्रतनुः भवति यतः वस्तुप्रतिबिम्बं पुनः नेत्रपटले निर्वर्त्यते । चक्षुषोरियं शक्तिः समझ्चनक्षमता (Power of Accommodation) क्रिया चेयं समञ्च्जनम् इत्यभिधीयेते । परन्तु, नेत्रलेन्सस्य मांसपेशिकाः नेत्रलेन्सस्य फोकसान्तरालं अनिश्चितभावेन लघूकर्त्तुं न पारयन्ति, अपितु तस्य लघूकरणस्यापि एकः सीमा भवति । यदि अस्माभिः किञ्चिदवस्तु निरन्तरं नेत्रसकाशं आनीयते तर्हि प्रायशः २५ अथवा ३० सेण्टीमीटरान्तरालं यावत् तु तत् सु स्पष्टम् अवलोक्यते किन्तु यदि तदपेक्षया अधिकनिकटं आनीयते तर्हि तद् अस्पष्टं प्रतीयते । तन्निकटतमा स्थितिः, यत्र किञ्चिद् वस्तु चक्षुषा सुस्पष्टम् अवलोक्यते , नेत्रस्य निकटबिन्दुः (Near Point) इति नाम्नाधियते । निकटबिन्दोर् नेत्रस्य चमध्यवर्त्यन्तरालन्तु स्पष्टदृष्ट्याः न्यूनतमान्तरालम् (Least distant of distinct Vision) इत्यभिधीयते । स्वस्थनेत्राय अन्तरालमिदं २५ अथा ३० सेण्डीमीटरपरिमितं भवति । तद्दरत्मास्थितिर्यत्र किञ्चिदवस्तु नेत्रेण सुस्प्स्ष्टं दृश्यते नेत्रस्य दूरबिन्दुः (Far Point ) इत्यभिधीयते स्वस्थनेत्राय च बिन्दुरयं अनन्त्यां तिष्ठति ।

नेत्रदोषाः तेषां निवारणञ्चः[सम्पादयतु]

नेत्रे अनेकदोषाः सम्भवन्ति किन्तु तेषां मध्ये अधोङ्कितं दोषद्वयम् प्रमुखमस्ति -

  1. निकटदृष्टिः (Short Sight Or Myopio)
  2. दूरदृष्टिः (Long sight or Hypermetrapio ) चेति

निकटदृष्टिः[सम्पादयतु]

बहवः पुरुषाः पुस्तकावालोकने कष्टं नानुभवन्ति किन्तु, तैः १५ अथवा २० मैटरदूरे निहितं वस्तु न दृश्यते । अस्य कारणमिदं यत् तेषां मानवानां नेत्रलेन्सस्य फोकसान्तरालं स्वाभाबिकावस्थायां एतावदल्पं भवति यत् तेन दूरवर्तिनां वस्तूनां प्रतिबिम्बं नेत्रपटले निर्वर्त्य् न भवति । समञ्चनषमताहेतोः फोकसान्तरालमिदं भूयः लघूभवितुं शक्नोति किस्तु वर्धनेऽसमर्थ भवति । अतएव वस्तु यावत् चक्षुषोः एतावन्निकटे न आगच्छति यत् तस्य प्रतिबिम्बं नेत्रपटले निर्वर्तितं स्यात् तावत् पर्यन्तं तेन तत्तु न स्पष्टं दृश्यते । चित्रे अनन्त्या आगामिनः किरणाः नेत्रपटलं यावत् प्राप्तेः पूर्वमेव एकस्मिन् बिन्दौ एकत्रीभवन्ति । अतएव नेत्रपटलो परि प्रतिबिम्बं निर्वर्तयितुं दूरबिन्दुर् अनन्त्याः अपसृत्य कस्मिंश्चिद् “द” इति बिन्दौ सङ्गच्छति निकट बिन्दुश्च सामान्यबिन्दुतोऽपि निकटम् आगच्छति अतिनिकटात् पुस्तकपठनात् अथवा शयनावस्थायां पठनात् दोषोऽयं नेत्रे उत्पद्यते । दोषेऽस्मिन् नेत्रलेन्सः स्थूलीभूय अधिकोत्तलः भवति अथवा नेत्रगोलके किञ्चिद् दैर्ध्यं उत्पद्यते ।

दोषश्यास्य निराकरणार्थं समुचितशक्तिकावतललैन्सीयानि उपनेत्राणि नेत्रे संयुज्यन्ते यतः अनन्त्या आगामिनः किरणाः नेत्रपटले एकत्रीभवन्ति प्रतिबिम्बञ्च स्पष्टं निर्वर्त्यते । यतः अवतललेन्साभावे `द’ इति दूरबिन्दुतः चलन्तः किरणाः नेत्रपटले सङ्गमनं कुर्वन्ति स्म इदानीञ्च अवतललैन्सत्वात् अनन्त्याः आगामिनः किरणाः तत्र मिलन्ति, अतएव दूरबिन्दुर् अवत्ललैन्सस्य फिकसो भवति । अतेव निकटादृष्ट्याः दोषम् अपसारितुं यदि अवतललेन्सः चक्षुषः समीपे न्यस्येत तर्हि तस्य फोकसान्तरालं अक्षणः दूरबिन्दोः चक्षुषश्च मध्यान्तरालस्य तुल्यं स्यात् ।

दूरदृष्टिः[सम्पादयतु]

यस्य मनुष्यस्य नेत्रे दोषोऽयं वर्तते स दूरवर्तिनं वस्तु सुस्पष्ट पश्यति, परन्तु निकटवर्तिनं वस्तु स्पष्टतया नावलोकयति । स पुस्तकं पठितुं तं हस्तेन गृहीत्वा अधिकाधिके दूरे स्वापयितुं यतते । अतिदूरवर्तिभ्यः वस्तुभ्यः आगामिनः समान्तरकिरणाः नेत्रलेन्सात् निर्गमनानतरम् नेत्रपटलस्य पृष्टभागे कस्मिंश्चिद् बिन्दौ प्रतिबिम्बं निर्वर्त्यन्ति परन्तु, समंजनक्षमताहेतोः लेन्सस्य फोकसान्तरालस्य अल्पत्वं सम्भाव्यते दूरवर्तिनाञ्च वस्तूनां प्रतिबिम्बं नेत्रपटले निर्वर्त्य भवति । अतएव दूरवर्तिनां वस्तूनाम् अवलोकने किञ्चित्काठिन्यं नानुभूयते । यावदेव वस्तु नेत्रनिकटे आगच्छति तस्य प्रतिबिम्बं नेत्रपटलात् भूयोऽधिके पृष्टभागे निर्वर्त्यते समंजनक्षमता च सामान्यनिकटविन्दोर् (Normal Point) आगमनात्पूर्वमेव समाप्यते । एतादृशाय मानवाय निकटबिन्दुः सामान्यनिकटबिन्दोर् अधिकदूरे वर्तते । दोषस्यास्य कारणद्वयं सम्भाव्यते नेत्रलैन्सस्य लोकसान्तरालस्य आधिक्यं अथवा नेत्रगोलकस्य अधिकाल्पत्वम् यतः समान्तरकिरणानां प्रतिबिन्बं गोलकाद् बहिः निर्वत्यते । दोषस्यास्य अपसारणार्थं समुचितक्षमताकोत्तलनैन्सानाम् उपनेत्राणि नेत्रे आरोप्यन्ते , यतःअ नेत्रपटले निष्पतन्तः किरणाः समधिकं वक्रीभवन्ति तेषा प्रतिबिम्बं च नेत्रपटले निर्वर्त्यते ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अक्षि&oldid=284347" इत्यस्माद् पुनः प्राप्तिः