अमिताभ बच्चन

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(अमिताभबच्चन् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अमिताभ बच्चन्

अमिताभ बच्चनः २००९ तमे वर्षे
जननम् अमिताभ हरिवंश राय बच्चन
अक्तूबर ११, १९४२ (1942-10-11) (वयः ७२)
अलहाबाद
वासस्थलम् प्रतीक्षा, मुम्बई, महाराष्ट्रम्, भारतम्
वृत्तिः अबिनेता, निर्मापकः, गायकः,
सक्रियवर्षाणि १९६९–वर्तमान्
पतिः/पत्नी जया बच्चन् (१९७३–वर्तमान्)
अपत्यानि
मातपितरौ हरिवंश राइ बच्चन्
तेजी बच्चन्
हस्ताक्षरम्
जालपृष्ठम्
bigb.bigadda.com

अमिताभ बच्चन: (१९४२ - ) प्रमुखः हिन्दी-अभिनेता अस्ति । १९४२तमे वर्षे अक्टोबर् ११ दिनाङ्के अमिताभ-हरिवंश-बच्चनस्य जननम् । एषः ‘बिग् बि’ तथा ‘षहेन् षा’ इत्यपि कथ्यते । १९७०तमस्य दशके आरम्भे “आङ्ग्रि यङ्ग् म्यान्”(Angry Young Man) मानसचित्रेण सह अमिताभः बच्चनः बालिवुड् चलनचित्रे आरम्भिकतया जनप्रियतां गतः । पश्चात् सः भारतीयचलनचित्रस्य इतिहासे अत्यन्तं प्रमुखेषु जनेष्वन्यतमः जातः ।

बच्चनः स्वीये चलच्चित्रवृत्तिजीवने त्रिस्रः राष्ट्रिय-चलनचित्रप्रशस्तीः द्वादश फिलंफेर् प्रशस्तीः च आसादितवान् । न केवलं तावत् इतराः अनेकाः अपि प्रमुखाः प्रशस्तीः तेन अर्जिताः । अत्युत्तमनट इति क्षेत्रे “फिलंफेर्-प्रशस्ति”निमित्तम् अत्यधिकवारम् अयमेव नामकरणं प्राप्तवान् इति अभिलेखे अङ्कनम् अस्य नाम्नि एव अस्ति ।

बच्चनेन न केवलं नटनक्षेत्रे कार्यं कृतम् अपि तु पृष्ठभूमिका-गायकत्वेन चित्रनिर्मापकत्वेन ‘टि.वि’निरूपकत्वेन अपि कार्यं कृतम् । अमिताभः १९८४तः १९८७तमवर्षपर्यन्तं यावत् भारतस्य संसत्-सदस्यः अपि आसीत् । नटीं जयाबादुरि इत्येतां सः वृतवान् अस्ति । एतयोः दम्पत्योः श्वेतानन्दा अभिषेक-वच्चनः इति द्वौ पुत्रौ । नटः अभिषेकः नटीम् ऐश्वर्या रै इत्येताम् ऊढवान् अस्ति ।

आरम्भिकं जीवनम्[सम्पादयतु]

अमिताभः मूलतः हिन्दू-सिख् कुले जातः । तस्य जननम् उत्तरप्रदेशस्य अलहाबाद् प्रदेशे अभवत् । अस्य पिता डा ॥ हरिवंशराय बच्चन हिन्दीभाषायाः प्रख्यातः कविः । माता तेजिबच्चनः फैसलाबाद्-प्रदेशस्य (अधुनातने पाकिस्थानदेशः) सिख्-पञ्जाबिकुटुम्बतः अस्ति ।

भारतस्य स्वातन्त्र्यसङ्ग्रामस्य वेलायां प्रसिद्धिं गतायाः इन्‌खिलाब् जिन्दाबाद् इति घोषणायाः स्फूर्त्या अमिताभस्य नामकरणं पूर्वम् इन्‌खिलाब् इत्येव कृतमासीत् । ततः परम् अमिताभः इति पुनर्नामकरणं जातम् । तस्य अर्थः “शाश्वतदीपः” इति । बच्चन्-वंशस्य नाम यद्यपि श्रीवास्तव इति वर्तते तथापि तस्य पिता बच्चन् इति नाम एव चित्वा तेनैव नाम्ना सर्वाणि पुस्तकानि प्राकाशयत् ।

अमिताभः चित्ररङ्गं तस्य नाम्नः उत्तरार्धभागद्वारा एव प्राविशत् । सार्वजनिकानाम् उद्देशानां निमित्तं तस्य कुटुम्बस्य सर्वे सदस्याः बच्चन् इत्येतदेव नाम अरक्षन् । हरिवंशरायबच्चनस्य पुत्रद्वये अमिताभः ज्येष्ठः अजिताभः कनीयान् । बच्चनस्य मातुः रङ्गभूमिक्षेत्रे अत्यन्तम् आसक्तिरासीत् । चलनचित्रे अभिनेतुम् अवसरोऽपि प्राप्तः आसीत् । किन्तु सा प्रवेशम् अकृत्वा गृहिणी एव अतिष्ठत् । अमिताभस्य चित्र-वृत्तिजीवनचयने तस्य मातुः प्रभावोऽप्यासीदेव । यतो हि तया पुत्रः सर्वेषाम् आकर्षणकेन्द्रबिन्दुतां प्राप्नुयात् इति काङ्क्षितमासीत् ।

स्वस्य आरम्भिकं शिक्षणम् अलहाबाद् प्रदेशस्य ज्ञानबोधिनी तथा बालक-प्रोढ-शालायाम् (BHS) असमापयत् एषः । अग्रे कलाविषयं प्रधानतया चित्वा नैनिताल् प्रदेशस्य शेर्‌वुड्महाविद्यालये अधीतवान् । तत्पश्चात् पदवी-विद्याभ्यासाय देहली-विश्वविद्यालयस्य किरोरि-माल्-कालेज् इति स्थलं गत्वा 'ब्याचलर् आफ् सैन्स्' (B.Sc.) पदवीं प्राप्नोत् । कल्कत्ता (अधुना कोल्कता) ‘मूलस्य बर्ड् अण्ड् को’ इत्याख्यायाः संस्थायाः वाणिज्य-नौकासामग्रि-सम्प्रेषणस्य मध्यवर्ती-कार्यं कुर्वता अनेन स्वीये विंशतितमे वयसि अभिनयवृत्तिं सारयितुम् इच्छता उद्योगात् विश्रान्तम् ।

जीवनम्[सम्पादयतु]

१९६९तमे वर्षे ‘सात् हिन्दूस्तानि’ चित्रस्य सप्त नायकेष्वन्यतमः भूत्वा बच्चनः चित्ररङ्गं प्रविष्टवान् । उत्पलदः मधुः जलालः आघा इयादीनां तारागणेन युक्तं चित्रमिदं ख्वाजा अहमद् अब्बास् इत्येतस्य महाशयस्य निर्देशनयुक्तं वर्तते । आर्थिकदृष्ट्या यद्यपि चित्रमिदं यशस्वितां नाप्नोत् तथापि तस्य चित्रेऽस्मिन् नटनाय प्रथमवारम् ‘अत्युत्तमः नवनटः’ इति राष्ट्रियप्रशस्तिं अमिताभः आसादितवान् ।

तत्पश्चात् राजेश् खन्ना इत्येतेन सह अभिनीतम् 'आनन्द' (१९७१) चित्रं वाणिज्योद्देश्येन यशस्वितां विमर्शकानां प्रशंसां चापि आप्नोत् । अस्मिन् चित्रे अनेन निरूढं जीवनस्य विषये विभिन्नदृष्टिकोणयुतं वैद्यस्य पात्रं तस्मै फिल्म्‌फेर्-अत्युत्तम-पोषकनटप्रशस्तिं समानयत् । पश्चात् अमिताभः 'पर्वाना' (१९७२) चित्रे नवीन्‌निस्कोलः योगिताबालि ॐप्रकाशः इत्यादीनां तारागणे अविवेकिनः प्रेमिणः पात्रे अभिनीतवान् ।

अमिताभस्य खलनटस्य पात्रे अभिनयाय इदमपरूपमुदाहरणम् । तत्पश्चात् निर्मितानि रेश्मा और् शेरा(१९७१) इत्यादि बच्चनेन अभिनीतानि अनेकानि चित्राणि चित्ररङ्गक्षेत्रे विशेषं यशः नाविन्दन्त । अस्मिन् एवावसरे नटेन धर्मेन्द्रेण तथा भाविन्या पत्न्या जयाबादुर्या सह गुड्डि इति चित्रे अतिथिनटो भूत्वा बच्चनः अदृश्यत । आरम्भिके वृत्तिजीवने स्वस्य अपूर्वेण ध्वनिना सर्वेषां ध्यानम् आकृष्टः अयं ‘बावर्चि’ चित्रस्य भागमेकमपि निरूपितवान् वर्तते । १९७२तमे वर्षे प्रयाणस्य सन्निवेशयुक्ते, साहसमये हास्यमये च एस्.रामनाथन् महाशयेन निर्देष्टे बाम्बे टु गो‌आ चित्रे असावभिनीतवान् । अस्मिन् चित्रे अरुणा इरानी मेह्‌मूद् अन्वर् अलि नासिर् हुसेन् इत्यादिभिः सह बच्चनः अनटत् ।लण्डन्-नगरे बच्चनस्य ‘व्याक्स्’ इति वस्तुना निर्मिता प्रतिमा काचिद्वर्तते ।

बच्चन्

तारापट्टारोहणसोपानम् (१९७३-१९८३)[सम्पादयतु]

१९७३तमे वर्षे प्रकाश् मेह्रा इत्येतेन निर्देष्टे जञ्जीर् चित्रे इन्स्पेक्टर् विजय् खन्ना इति पात्रम् अमिताभस्य वृत्तिजीवनाय महत्तं परिवर्तनम् अदात् । इदं चलनचित्रं तस्य पूर्वतन-चित्राणां प्रणयमयपात्राणां तद्विरुद्धं पात्रयुतमासीत् । एतदनन्तरम् एतत्सदृशाणि अन्यानि बहूनि चलनचित्राणि प्रदर्शितानि यानि च तं बालिवुड् चलनचित्रस्य 'आङ्ग्रि यङ्ग् म्यान्' स्थानं प्रायच्छत् । अस्मात् चित्रात् एव अग्रनायकस्य पात्रे अमिताभः चित्ररङ्गे ख्यातः जातः । इदमेव चित्रं फिल्म्‌फेर्‌प्रशस्त्यै अत्युत्तमनटविभागे नामाङ्कितमपि जातम् । १९७३तमे अस्मिन्नेव वत्सरे अमिताभः जयाबादुरीं वृणीतवान् । बहुशः अमिन्नेव समकाले विवाहात् परं मासाभ्यन्तरे एव प्रदर्शितेषु जञ्जीर् अभिमान् इत्यादिषु चित्रेषु जया अमिताभः च मिलित्वा एवाभिनीतवन्तौ ।

पश्चात् हृषिकेश् मुखर्जि इत्येतेन निर्दिष्टे मित्रतायाः कथावस्तुयुते सामाजिके चित्रे नमक् हराम् नामके चित्रे ‘विक्रम्’ इत्येतस्य पात्रे अमिताभेन अभिनीतम् । अस्य कथावस्तुरचयिता ‘बीरेश् चटर्जि’ इत्येषः वर्तते । अस्य चित्रस्य पोषकपात्रे अभिनीतस्य अमिताभस्य नटनं न केवलं सर्वेषां प्रशंसापात्रं जातम् अपि तु फिल्म्‌फेर्-अत्युत्तम-पोषकनटप्रशस्तिम् अपि आनयत् । अस्मिन्नेव चित्रे रेखा राजेश् खन्ना चापि अभिनीतवन्तौ ।

१९७४तमे वर्षे कुंवारा बाप् तथा दोस्त् इत्यादिषु चित्रेषु अनेकवारम् अतिथिनटत्वेन बच्चनः अदृश्यत । अस्मात् पूर्वमेव तस्य वर्षस्य अतिसम्पादनपरकस्य चित्रे रोटी कपडा और् मकान् नामके चित्रे पोषकपात्रे अभिनयः कृतः । अस्य चित्रस्य कथां विरचय्य निर्देशनमकरोत् मनोज्‌कुमारः । स्वार्थलाभाय उपयोगः तथा आर्थिकभावनात्मकयोः सङ्कटस्य मध्ये प्रामाणिकतायाः मुखावरणस्य कथावस्तुसहितमिदं चित्रं विमर्शकानां प्रशंसापात्रं भूत्वा वाणिज्यदृष्ट्या यशः आसादयत् । न केवलं तावत् किन्तु स्वतः ‘कुमार्’ रिशिकपूरः जीनत्-अमान् इत्येतेषां पङ्क्तौ बच्चनं चित्रमिदम् अयोजयत् ।

पश्चात् नायकपात्रे अभिनीतं मज्बूर् चित्रं १९७४तमस्य डिसम्बर्‌मासे ६ दिनाङ्के प्रदर्शनाय उन्मुक्तं जातम् । जार्ज् केनडि इत्येतस्य अभिनयस्य हालिवुड् चित्रस्य जिग्‌ज्याग् इत्येतस्य पुनर्निर्माणम् आसीत् एतत् चित्रम् । धनार्जने सामान्यतः यशः सम्पादितं चित्रेण अनेन । ततः परं १९७५तमे वर्षे चुप्के चुप्के नामकात् चलच्चित्रात् अपराधकथावस्तुयुतात् फरार् चित्रादपि आरभ्य प्रणयमयस्य मिलि चित्रस्य पर्यन्तं वैविध्यमयेषु प्रकारेषु चित्रेषु बच्चनेनाभिनीतम् ।

एतन्मध्ये १९७५तमे वर्षे बच्चनेन केवलं चित्रद्वये एव अभिनीतम् । एते द्वेऽपि चित्रे चित्ररङ्गे अति-प्रमुखतया परिगण्यते । यश् चोप्रा इत्यस्य निर्देशनस्य दीवार् इति चित्रे शशिकपूर् निरुपराय् नीतुसिङ्ग् इत्येतैः सह तेन अभिनीतम् । अस्मिन् चित्रे तस्य अभिनयः अत्युत्तम-नट-विभागे फिल्म्‌फेर् प्रशस्त्यर्थं नामकरणमार्जयत् । इदं चित्रं १९७५तमे वर्षे अपारं यशः आसादयत् । धनार्जनेऽपि चतुर्थं स्थानमाप्नोत् । ‘बालिवुड्’क्षेत्रस्य दर्शनीयेषु अत्युन्नतचित्रेषु अन्यतममिदम् इति ‘इण्डिया टैम् मूवीस्’ कथयति । १९७५तमे आगस्ट्मासे प्रदर्शितं “शोले” नामकं चलच्चित्रम् अत्यधिकं २,३६,४५,००,००० तन्नाम ‘यू.एस्’देशस्य षष्टिदशलक्ष ‘डालर्’ मूल्यं यावत् धनम् अर्जित्वा भारते एव सार्वकालिकं विक्रमम् अरचयत् । अस्य चित्रस्य अर्जनं आर्थिकस्फीतिः इत्येतया स्थित्वा तोलितमस्ति ।

बच्चनः अस्मिन् चित्रे जैदेव् इत्येतस्य पात्रं निरूढवान् । हिन्दीचित्ररङ्गस्य ख्याताः नटाः धर्मेन्द्रः हेमामालिनी सञ्जीवकुमारः जयाबादुरी तथा अम्जद् खानः इत्यादयः अत्र अभिनीतवन्तः । १९९९तमे वर्षे भारतस्य बि.बि.सि. विभागः इदं चित्रं “शतमानस्य चित्रम्” इत्यघोषयत् । शोले नामकं चित्रमपि यथा दीवार् नामकं चित्रं तथा बालिवुड्-क्षेत्रस्य दर्शनीयेषु अत्युन्नतेषु २५ चित्रेष्वन्यतममिति इण्डियाटैम्स् मूवीस् इत्येतेन समायोजितम् । तस्मिन्नेव वर्षे शोले नामकस्य चित्रस्य कृते पञ्चाशत्तमैः फिल्म्‌फेर्‌प्रशस्तीनां निर्णायकैः पञ्चाशद्वर्षेषु-अत्युत्तम-फिल्म्‌फेर्‌चित्रम् इति प्रशस्तिः प्रदत्ता । शोले नामकं चित्रं यदा धनार्जने अत्यन्तं यशः आसादयत् तदारभ्य बच्चनस्य स्थानं चित्ररङ्गे सुभद्रं जातम् । तदारभ्य १९७६तः १९८४तमवर्षाणामवधौ बच्चनस्य कृते फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्तयः तथा नामकरणानि च विपुलतया समागताः ।

सर्वोत्कृष्टः साहसनायकः इति ख्यातिं गतं प्रख्यातं नाम यद्यपि शोले सदृशचित्रैः सम्प्रतिष्ठितं तथापि कभी कभी(१९७६) सदृशेषु चित्रेषु प्रेमिणः पात्रे, १९७७तमस्य अमर् अक्बर् अन्तोनि सदृशेषु चित्रेषु, तथैव तत्पूर्वकालिकेषु १९७५तमस्य वर्षस्य चुप्के चुप्के सदृशेषु हास्यमयेषु चित्रेषु अपि सम्यक् अभिनीय अभिनयपरिणतिः निरूपिता एतेन बच्चनेन । १९७६तमे वर्षे निर्देशकस्य यश्‌चोप्रा इत्यस्य द्वितीये ‘कभी कभी’ नामके चित्रे बच्चनः अभ्यनयत् । प्रणयकथाविताने अस्मिन् चित्रे यूनः कवेः अमित् मल्होत्रा इत्यस्य पात्रे अस्य अभिनयः आसीत् । ‘पूजा’नामिकां सुन्दरीं प्रीणयति अयं कविः । पूजायाः पात्रे राखी गुल्जार् अभ्यनयत् । अस्मिन् चित्रे मृदुत्वयुतस्य तथा विशालदृष्टेः भावनात्मकं सम्भाषणम् अवर्तत । इदं चित्रम् अमिताभस्य पूर्वतनसाहसमयानां चित्राणां तथा अग्रे अभिनीतानां चित्राणां च तद्विरुद्धमासीत् । धनार्जने महत् यशः सम्पाद्य इदं चित्रम् अमिताभस्य फिल्म्‌फेर्-अत्युत्तम-नट प्रशस्त्यर्थं नामकरणमपि समार्जयत् ।

१९७७तमे वर्षे ‘अमर् अक्बर् अन्तोणि’ चित्रस्य नटनार्थम् अमिताभः ‘फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्तिं प्राप्नोत् । अस्मिन् चित्रे विनोद्खन्ना रिषिकपूर् इत्येताभ्यां सह तृतीयनायकस्य ‘अन्तोणि गोन्साल्विस्’ इत्यस्य पात्रे अमिताभः अभिनीतवान् । १९७८तमं वर्षं तस्य वृत्तिजीवने एव किरीटप्रायम् इति वक्तुं शक्यते । यतो हि तस्मिन् वर्षे धनार्जने अतिसमर्थेषु चतुर्षु चित्रेष्वपि अमिताभः अनटत् । कस्मे वादे चित्रे अमितस्य शङ्करस्य च पात्रे तथा डान् चित्रे भूगतप्रभोः तत्सदृशदर्शनस्य विजयस्य च पात्रे नटनेन द्विपात्रनटने अनेन प्रत्यागतम् ।

'त्रिशूल्' तथा 'मुखद्दर् का सिकन्दर्' चित्रयोः अभिनयः विमर्शकैः अवधानार्हां प्रशंसां प्राप्य फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्तिम् अमिताभाय समानयत् । तथैव फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्त्यै अनेकानि नामकरनानि समार्जयत् । अस्मिन् घट्टे वृत्तिजीवने अमिताभेन समार्जितम् अभूतपूर्वं यशः आधृत्य तं फेञ्च्-निर्देशकः फ्राम्कोयिस् ट्रफौट् इत्ययं “वन्-म्यान्-इण्डस्ट्रि”(One man industry) इति अघोषयत् ।

१९७९तमे वर्षे प्रथमवारम् अमिताभस्य सङ्गीतध्वनेः उपयोगाय आवश्यकता आपतिता । 'मिस्टर् नट्वरलाल्' चित्रे नायक्या रेखा इत्येतया सह अभिनीय तेन स्वध्वनेः सङ्गीतार्थम् उपयोगः कृतः । अस्य चित्रस्य निर्वहणेन सः फिल्म्‌फेर्-अत्युत्तम-नट-प्रशस्त्यै तथा फिल्म्‌फेर्-अत्युत्तम-पुरुष-पृष्ठभूमिका-गायन-प्रशस्त्यै च नामकरणं समार्जयत् ।

१९७९तमे वर्षे कालापत्थर् चित्रस्य अभिनयार्थं अत्युत्तम-नट-प्रशस्त्यै तथा १९८०तमे वर्षे राज्‌खोसला निर्देशनस्य 'दोस्ताना' चित्रस्य अत्युत्तमाभिनयार्थं पुनः नामकरणं प्राप्नोत् बच्चनः । 'दोस्ताना' इति चित्रे शत्रुघ्नसिन्हा तथा जीनत् अमान् इत्येताभ्यां सह बच्चनेनाभिनीतम् ।

१९८०तमे वर्षे 'दोस्ताना' इत्येतत् चित्रम् आर्थिकदृष्ट्या महत् लाभकरं चलनचित्रं वर्तते ।

अमिताभ बच्चनस्य कौटुम्बिकचित्रम्

१९८१तमे वर्षे पत्न्या जयया सह यश्‌चोप्रा इत्यस्य प्रेमकथानके 'सिल्‌सिला' इति चित्रे अमिताभः अनटत् । एतन्मध्ये नटीं रेखां सः प्रीणयति इति मिथ्या प्रचारः अपि आसीत् । अस्मिन्नवधौ प्रदर्शितेषु अन्येषु चित्रेषु राम् 'बलराम्'(१९८०) 'शान्'(१९८०) 'लावारिस्'(१९८१) तथा 'शक्ति'(१९८२) इत्येतेषु नटनेन अमिताभः ‘बालिवुड्’ क्षेत्रस्य सुविख्यातेन दिलीपकुमारेण सह तुलनां प्राप्तवान् । अमिताभः तस्य कालस्य महान् तथा अनर्घः नटः इत्यत्र न कोऽपि सन्देहः ।

राजकीयम् (१९८४-१९८७)[सम्पादयतु]

१९८४तमे वर्षे नटनात् तात्कालिकं विरामं प्राप्य अमिताभः दीर्घकालस्य कुटुम्बमित्रेण राजीवगान्धी इत्येतस्य साहाय्येन राजकीयक्षेत्रं प्रविश्य स्वल्पकालं सक्रियः आसीत् । सार्वत्रिकनिर्वाचन-इतिहासे एव जयस्य इतिहासः पुनरपि तदा निर्मितः अभवत् यदा अमिताभः अलहाबाद् लोकसभाक्षेत्रे उत्तरप्रदेशस्य प्राक्तनमुखमन्त्रिणः एच्.एन्.बहुगुण इत्येतस्य विरुद्धं स्पर्धित्वा जयं प्राप्नोत् । उल्लेखार्हात् (आहत्य मतदानस्य ६८.२%) अन्तरात् प्राप्तः अयं विजयः अविस्मरणीयः । परं बच्चनस्य राजकीयवृत्तिजीवनं स्वल्पकालमात्रमासीत् । वर्षत्रयानन्तरं सम्पूर्णं राजकीयक्षेत्रं मलिनकूपः इति विनिन्द्य तस्मात् निवृत्तिः प्राप्ता तेन । “बोफोर्स्-कोलाहले” बच्चनः तस्य सहोदरश्च संलग्नौ स्तः इति कस्याश्चित् पत्रिकायाः इतिवृत्तस्य प्रकटनस्य पश्चात् राजकीयनिवृत्तिः प्राप्ता एनेन । तस्याः पत्रिकायाः विरुद्धं न्यायालयं गन्तुमपि निर्धारितवान् । क्रमशः विचारणं यदा प्रवृत्तं तदा बच्चनस्य पात्रं तत्र न वर्तते इत्येतन्निरूपितम् ।

एतन्मध्ये अमिताभस्य ‘ए बि सि एल्’ इत्याख्या संस्था यदा अतिदरिद्रतावशाम् आप्नोत् तदा तत्रत्यम् आर्थिकं सङ्कष्टं समीकर्तुं तस्य पुरातनसुहृद् अमरसिङ्ग् साहाय्यमकरोत् । तस्मात् बच्चनः अमरसिंहस्य समाजवादिपक्षं प्रोत्साहयितुमारब्धवान् । जयाबच्चनः न केवलं समाजवादिपक्षं प्राविशत् अपि तु राज्यसभायाः सदस्यत्वम् अपि अवाप्नोत् ।

राजकीयप्रचारः तथा विज्ञापिकादिकमपि योजयित्वा इतरेषु राजकीयविचारेषु समाजवादिपक्षस्य कार्येषु सक्रियं भागं स्वीकर्तुं बच्चनः अनुवर्तितवान् । एतानि कार्याणि पुनः तं सङ्कष्टे अपातयन् । स्वयं कृषकः इति अभिप्रायः प्रकटितः इति कृत्वा न्यायालयं प्रति अवास्तवविधिपत्राणि समार्पयत् इति च आरोपस्य आधारेण पुनः न्यायालयस्य साक्षिस्थानं गन्तव्यम् आपतितम् । एतन्मध्ये अमिताभः अभिनयवृत्तिजीवनस्य उत्तुङ्गे यदा आसीत् तदा स्टार् डस्ट् तथा इतराभिः काभिश्चित् पत्रिकाभिः १५ वर्षाणां पत्रिकानिषेधं प्राप्तवान् । अस्य प्रतीकाररूपेण बच्चनेन नट्येषु चलच्चित्रेषु चित्रीकरणस्य आरम्भे पत्रिकाप्रतिनिधीनां प्रवेशं निषिद्धवान् आसीत् इति श्रूयते । एषा पद्धतिः १९८९तमवर्षपर्यन्तमपि चालने आसीदित्यपि श्रूयते ।

अमिताभ बच्चन

प्रतिगमनं निवृत्तिः च । (१९८८-१९९२)[सम्पादयतु]

१९८८तमे वर्षे षहेन् षा इति चित्रस्य शीर्षिकापात्रे नटनद्वारा बच्चनः चित्ररङ्गं पुनरागतः । बच्चनस्य प्रत्यागमनस्य प्रचारद्वारा चित्रमिदं धनार्जने समर्थमभूत् । किन्तु अस्य यशसः परं विमोचितानि प्रदर्शितानि च चित्राणि सर्वाणि धनार्जने सर्वथा असमर्थानि इति कृत्वा तस्य तारापट्टस्य वर्चसि ह्रासः सञ्जातः । १९९१तमस्य यशस्वि चित्रं “हम्” पराजयस्य प्रवृत्तिपरिवर्तकत्वेन अभात् चिदपि तस्य इतराणां चित्राणां धनार्जने पराजयस्य कारणतः यशसः क्षणाः अल्पकालमात्रमतिष्ठन् । अत्र गमनार्हो विचारो नाम १९९०तमे वर्षे “अग्निपथ्” इत्यस्मिन् चित्रे निरूढस्य पात्रस्य कृते द्वितीयवारं राष्ट्रिय-चलनचित्र-प्रशस्तिः तेन आसादिता । तत्र तस्य पात्रं भूगत-दुष्ट-प्रपञ्चस्य अधिपतेः आसीत् । अग्रे कानिचन वर्षाणि यावत् अमिताभस्य चलच्चित्रलोके अदर्शनम् अधुनैव सम्भवति इति सर्वैरपि चिन्तितम् ।

१९९२तमे वर्षे खुदा गवाह् चित्रस्य प्रदर्शनस्य पश्चात् पञ्चवर्षाणि यावत् बच्चनः चित्रेषु न दृष्टः एव । विलम्बेन निर्मितम् इन्सानियत् चित्रं यद्यपि १९९४तमे वर्षे प्रदर्शनाय वुमुक्तं तथापि धनार्जने सम्पूर्णतया असफलं जातम् ।

दूरदर्शने (T.V.) अमिताभः[सम्पादयतु]

२०००तमे वर्षे ब्रिटिष् दृरवीक्षणस्य कार्यक्रमस्य हू वाण्ट् टु बि मिलियनेर्? इत्यस्य भारतीयं रूपान्तरम् अमिताभः सञ्चालितवान् । अस्य कार्यक्रमस्य नाम कौन् बनेगा क्रोर्‌पति इत्यासीत् । अस्य रूपान्तरं कृतवन्तः अन्ये अनेके देशाः एतत्सदृशं नाम एव अरक्षन् । अयं कार्यक्रमः अभूतपूर्वं यशः समार्जयत् । २०००तमस्य वर्षस्य नवेम्बर्-मासे केनरा ब्याङ्क् इत्येतस्य वैधं व्यवहारं प्रतिस्वीकृतिद्वारा समापयत् ।

बच्चनः पूर्वोक्तं 'कौन् बनेगा क्रोर्‌पति' इत्याख्यं कार्यक्रमं २००५ नवम्बर्-मासपर्यन्तमपि सञ्चालितवान् । एतेन यशः सम्पाद्य जनप्रियतां चित्ररङ्गं प्रत्यागन्तुं वेदिकां च समार्जयत् एषः । २००९तमस्य आस्कर् इत्यस्याः प्रशस्तेः विजेतस्य चित्रस्य स्लं डाग् मिलियनेर् हू वाण्ट् टु बि मिलियनेर् कार्यक्रमस्य स्पर्धायां ‘जञ्जीर्’ इति चित्रस्य नायकः कः? इत्यस्य प्रथमस्य प्रश्नस्य ‘अमिताभः वच्चनः’ इत्येतदेव अतिसमीचीनमुत्तरमासीत् । चित्रे फेरोज् अब्बास् खान् अमिताभस्य पात्रं निरूढवानासीत् । स्पर्धायाः निरूपकत्वेन अनिल् कपूर् अनटत् । एवम् अमिताभः बच्चनः इत्येषः भारतीयचलनचित्रस्य इतिहासे प्रख्यातः आसीत् ।

चलचित्राणि[सम्पादयतु]

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अमिताभ_बच्चन&oldid=277160" इत्यस्माद् पुनः प्राप्तिः