अल्लाह्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इस्लाममतम्

इस्लाम्-मतम्

इस्लाममतम्

अल्लाह् (अरबी: ﷲ ) इति इस्लाम्-मतानुयायी एव विश्वस्य अद्वितीयस्रष्टा तथा प्रतिपालकश्च । 'अल्लाह्' इति शब्दः मुस्लिम्-जनैः व्यवहृयते । परन्तु 'बाहाई', अरबीभाषी कैथिलिक-क्रैस्तजनाः, माल्टावासिनः, रोमन्-कैथेलिक्, मिजोराही इहुदी एवं सिक्खजनाः अल्लाह् शब्दः विभिन्नार्थे उच्चार्यन्ते[१][२][३]

अरबी शैल्पिकचित्रे अल्लाहः शब्दः


सुन्नीसम्प्रदायस्य शियासम्प्रदायस्य च अल्लाह् भिन्न नास्ति।

शब्दोत्पत्तिः[सम्पादयतु]

अरबीभाषया लिखितः अल्लाह् नाम्नः अंशसमूहः -
१। अलिफ़्
२। हम्जतुल् वसल् (همزة وصل‎‎)
३। लाम्
४। लाम्
५। तश्दीद् (شدة‎)
६। अलिफ़्-स्वरमात्राचिह्नम् (ألف خنجرية‎‎)
७। ह

अल्लाह् अयं शब्दः अरबीअल्+ इलाह् इत्यनयोः पदयोः समन्वये 'अल्लाह्' इति निष्पन्नः । पूर्वपदम् 'अल्' इत्यस्य अर्थः सुनिर्दिष्टः वा एकमेव। परपदं 'इलाह्' अर्थात् ईश्वरः सृष्टिकर्ता वा । तर्हि शब्दद्वयस्य सम्मिलितरूपस्य अर्थः भवति 'एकमेव इश्वरः' 'एकेश्वरः' वा(ὁ θεὸς μόνος, ho theos monos)[४]। समाना व्युत्पात्तिः इतरेष्वपि सेमिटिक्-भाषासु लभ्यते । उदाहरणरूपेण यथा -हीब्रू तथा आरामैक्-भाषा [५]। प्राचीनहीब्रू भाषायां अधिकस्थलेषु बहुवचने अयं शब्दः प्रयुक्तः एलोहिम् אֱלֹהִ֔ים(परन्तु अर्थः एकवचने ) आसीत् । एवञ्च आरामैक् भाषया अस्य शब्दस्य रूपं - ʼĔlāhā ܐܠܗܐ वा ʼAlâhâ ܐܲܠܵܗܵܐ । किन्तु अयं शब्दः सर्वासु भाषासु अपि समार्थकः , एकेश्वरः[६]सिक्खजनानां पवित्रग्रन्थः गुरु ग्रन्थ साहिब् मध्ये अयं शब्दः अल्लाह्(पञ्जाबी: ਅਲਹੁ) ४६ वारम् उल्लिखितः अस्ति ।

इस्लाम् पूर्व-आरबदेशेष्वापि 'अल्लाह पदस्य व्यवहारः आसीत् । परन्तु शक्तिसम्पन्नः पुरुषः इत्यस्मिन् अर्थे प्रयुज्यते स्म[७][८] अल्लाह् (एका देवता इति रूपेण) धारणा विभिन्नधर्मे विभिन्नः । इस्लामे 'अल्लाह्' शब्देन एकः, अद्वितीयः एवम् अविनश्वरः इश्वरः इति सुच्यते । तथा समस्तस्वर्गीयगुणवाचकः एकसत्तायाः नामरूपेण संज्ञायितः 'अल्लाह्' इति शब्दः[९] इस्लामिक् भाषानुसारं 'अल्लाह्' एकः अद्वितीयश्च, समस्तजगतः सृष्टिकर्ता, सर्वत्रविराजमानः ईश्वरः । एतस्मात् वर्तमानयुगस्य अरबदेशीयाः क्रैस्ताः भिन्नत्वं प्रतिपादयितुं Allāh al-ʾAb (الله الأب, "God the Father" (अर्थात्, ईश्वर-पिता) शब्दस्य प्रयोगं कुर्वन्ति[१०]

टिप्पणी[सम्पादयतु]

  1. "Allah." Encyclopædia Britannica. 2007. Encyclopædia Britannica
  2. Encyclopedia of the Modern Middle East and North Africa, Allah
  3. Columbia Encyclopedia, Allah
  4. L. Gardet, Allah, Encyclopaedia of Islam
  5. Columbia Encyclopaedia says: Derived from an old Semitic root referring to the Divine and used in the Canaanite El, the Mesopotamian ilu, and the biblical Elohim and Eloah, the word Allah is used by all Arabic-speaking Muslims, Christians, Jews, and other monotheists.
  6. The Comprehensive Aramaic Lexicon – Entry for ʼlh
  7. L. Gardet, "Allah", Encyclopedia of Islam
  8. Smith, Peter (2000). "prayer". A concise encyclopedia of the Bahá'í Faith. Oxford: Oneworld Publications. pp. 274–275. ISBN 978-1-85168-184-6. 
  9. Murata, Sachiko (1992). The Tao of Islam : a sourcebook on gender relationships in Islamic thought. Albany NY USA: SUNY. ISBN 978-0-7914-0914-5. 
  10. Lewis, Bernard; Holt, P. M.; Holt, Peter R.; Lambton, Ann Katherine Swynford (1977). The Cambridge history of Islam. Cambridge, Eng: University Press. p. 32. ISBN 978-0-521-29135-4. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अल्लाह्&oldid=463344" इत्यस्माद् प्रतिप्राप्तम्