अवुकाना प्रतिमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अवुकाना प्रतिमा
Year 5th century
Type Stone sculpture
Location Kekirawa, Sri Lanka

निर्देशाङ्कः : ८°०′३९.१″ उत्तरदिक् ८०°३०′४५.६″ पूर्वदिक् / 8.010861°उत्तरदिक् 80.512667°पूर्वदिक् / ८.०१०८६१; ८०.५१२६६७

अवुकाना-प्रतिमा ( /ˈəvʊkɑːnɑː prətɪmɑː/) (हिन्दी: अवुकाना प्रतिमा, आङ्ग्ल: Avukana Buddha statue) मध्यश्रीलङ्कायाः केकीरवा-विभागे स्थिता बुद्धस्य प्रतिमा अस्ति । सा प्रतिमा ४० फीटपरिमिता (१२ मी.) उन्नता अस्ति । विशालायां ग्रेनाट्-शिलायाम् उत्कीर्णा सा प्रतिमा पञ्चम्यां शताब्द्यां निर्मिता इति अनुमीयते । सा प्रतिमा अभयमुद्रायाः भिन्नं स्वरूपं दर्शयति । तस्यां प्रतिमायां सुक्ष्मोत्कीर्णनं जातम् अस्ति । मुख्यतया वस्त्रस्य सुष्ठु उत्कीरितुम् अधिकं कार्यं कृतम् इति दृश्यते । धातुसेननामकस्य राज्ञः समये उत्कीर्णा एषा प्रतिमा शिक्षकविद्यार्थिषु योजितायाः स्पर्धायाः फलम् अस्ति । सद्यः तत्स्थलं पर्यटनाय उत्तमस्थलं मन्यते ।

स्थलं, सज्जा च[सम्पादयतु]

अवुकाना-प्रतिमा मध्यश्रीलङ्कायाः केकीरवा-विभागे स्थिते अवुकाना-ग्रामे विद्यते । तस्य ग्रामस्य अपरं नाम औकाना अपि प्रसिद्धम् । प्रतिमायाः सम्मुखं काला-वेवा इत्याख्यः सरोवरः अस्ति । बुद्धप्रतिमा सरोवराभिमुखी अस्ति । [१] विशालायाः ग्रेनैट-शिलया निर्मिता सा प्रतिमा गिरिकायाः भिन्ना न कृता, अपि तु गिरिकायाः सम्मुखे स्थितस्य भागस्य उत्कीर्णनं कृत्वा अपरः भागः गिरिकया सह सँल्लग्नः एव स्थापितः [२] । तेन प्रतिमायाः आधारे दृढे सति सा विशालप्रतिमा स्थविरा अभवत् [३] । परन्तु प्रतिमायाः कमलाकारम् आसनं भिन्नतया उत्कीर्य प्रतिमायाः आधारः निर्मितः अस्ति । आसनं विना प्रतिमायाः औन्नत्यं ३८ फीट् १० इञ्च् (११.८४ मीटर्) अस्ति । आसनस्य औन्नत्यं परिगण्य यदि प्रतिमायाः आहत्यौन्नत्यं परिगणयामः, तर्हि प्रतिमायाः औन्नत्यं ४२ फीटपरिमितं (१३ मीटर) भवति [४][५] । प्रतिमायाः अग्रे एकं मन्दिरम् अस्ति । पुरा तस्मिन् मन्दिरे एव एषा प्रतिमा आसीत् । अद्यापि तत्र अनेके अवशेषाः उपबद्धाः । तस्य मन्दिरस्य भित्तिः इष्टिकाभिः, प्रस्तरैश्च निर्मिता अस्ति । तस्य मन्दिरस्य लम्बता ७४ फीट (२३ मीटर), विस्तारश्च ६३ फीट (१९ मीटर) अस्ति [६]

वैशिष्ट्यम्[सम्पादयतु]

अवुकाना बौद्धप्रतिमा

श्रीलङ्कायाः प्राचीनबौद्धप्रतिमासु अवुकाना-प्रतिमायाः उल्लेखः भवति [३] । एषा प्रतिमा गान्धार-अमरावत्योः शिल्पशैल्या निर्मिता इति स्पष्टतया ज्ञायते । बुद्धमूर्तेः शरीरे वस्त्राणि कुण्ठतया धृतानि इति प्रदर्शितम् । अतः बुद्धस्य शरीराकृतिः स्पष्टतया दृष्टुं शक्यते । श्रीलङ्कायाः बौद्धपरम्परानुगुणं बुद्धप्रतिमायाः दक्षिणस्कन्धः वस्त्रेण आच्छादितः अस्ति, परन्तु वामस्कन्धः अनावृतः अस्ति । सावधानस्थित्यां दर्शितस्य बुद्धशरीरस्य वामहस्तेन वस्त्रं धृतम् अस्ति इति आकृतेः स्वरूपम् अस्ति । दक्षिणहस्तः स्कन्धं यावत् उन्नतं कृत्वा करतलं वामतः वक्रीकृतम् अस्ति [१][४] । यस्यां मुद्रायां बुद्धप्रतिमा अस्ति, सा मुद्रा आशीर्मुद्रा इति प्रसिद्धा । सा आशीर्मुद्रा अभयमुद्रायाः एव कश्चन प्रकारः [७]

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ Diganwela, T. (1997). කලා ඉතිහාසය [History of Art] (in Sinhala). Wasana Publishers. pp. 23–24. 
  2. Walters, Alan (1997). Palms & pearls, or, Scenes in Ceylon. 9788120612358. Asian Educational Services. p. 78. ISBN 978-81-206-1235-8. 
  3. ३.० ३.१ Siriwera, W. I. (2004). History of Sri Lanka. Dayawansa Jayakody & Company. pp. 286–287. ISBN 955-551-257-4. 
  4. ४.० ४.१ Sarachchandra, B. S. (1977). අපේ සංස්කෘතික උරුමය [Cultural Heritage] (in Sinhala). Silva, V. P. pp. 121–122. 
  5. De Silva, K. M. (1981). A history of Sri Lanka. University of California Press. p. 55. ISBN 978-0-520-04320-6. 
  6. Bandaranayake, Senake (1974). Sinhalese monastic architecture: the viháras of Anurádhapura. Brill. p. 206. ISBN 978-90-04-03992-6. 
  7. De Silva, D. G. B. (12 May 2001). "Misconceptions about Sri Lankan Buddha image". The Island. आह्रियत 5 March 2010. 

अधिकवाचनाय

  • von Schroeder, Ulrich (1990). Buddhist Sculptures of Sri Lanka. (752 p.; 1620 illustrations). Hong Kong: Visual Dharma Publications, Ltd. ISBN 962-7049-05-0
  • "https://sa.wikipedia.org/w/index.php?title=अवुकाना_प्रतिमा&oldid=404041" इत्यस्माद् प्रतिप्राप्तम्