अश्रद्धया हुतं दत्तं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
- असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च यत् असत् इति उच्यते पार्थ न च तत् प्रेत्य न इह ॥ २८ ॥
अन्वयः
[सम्पादयतु]पार्थ ! अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च यत् असत् इति उच्यते तत् प्रेत्य न इह नो ।
शब्दार्थः
[सम्पादयतु]- अश्रद्धया = अनासक्त्या
- हुतम् = हवनं कृतम्
- दत्तम् = वितीर्णम्
- तप्तम् = अनुतिम्
- कृतम् = आचरितम्
- प्रेत्य = परलोके
- इह = एतल्लोके
- नो = न भवति ।
अर्थः
[सम्पादयतु]अश्रद्धया यत् हुतं दत्तं तप्तं च भवति, यच्च अन्यत् कर्म आचरितं तत् सर्वम् असत् इत्युच्यते । न तत् इहलोके फलं ददाति, नापि परलोके । तस्मात् असत् इति व्यपदेशः अर्थवान् ।