आमेतसवृक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
आमेतसवृक्षः

अयम् आमेतसवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं समान्यगात्रकः वृक्षः । अस्य वृक्षस्य त्वक् अत्यन्तं कृशं तथा कृष्णवर्णीयं च । अस्य फलम् आहारत्वेन अपि उपयुज्यते । अस्य बीजात् तैलम् अपि सज्जीक्रियते । अयम् आमेतसवृक्षः सामान्यभूमौ सर्वत्र वर्धते एव । तत्रापि दक्षिणभारते अधिकतया दृश्यते । अस्य आमेतसफलस्य (वृक्षामलफलम्) रसे शर्करां योजयित्वा आतपे संस्थाप्य बहु दिनानि यावत् रक्षन्ति । तत् लेह्यसदृशम् अत्यन्तं रुचिकरं भवति । तत्र जलं न योजनीयम् । जलं योजितं चेत् बहूनि दिनानि यावत् रक्षणं न शक्यते ।

इतरभाषासु अस्य आमेतसस्य नामानि[सम्पादयतु]

अयम् आमेतसवृक्षः आङ्ग्लभाषया "Garcinia Indica" इति उच्यते । सस्यकुले अयं Clusiaceae इति कुले अन्तर्भवति । हिन्दीभाषया अयम् आमेतसवृक्षः “कोकम्” इति, तमिळ्भाषायां “मुरुगल्” इति, मलयाळभाषया “पुनंपुलि” इति, तुळुभाषया“पुर्पुळि” इति, कन्नडभाषया “मुरुगलु मर” इति च उच्यते ।

पक्वम् अपक्वं च वृक्षामलाफलम्

आयुर्वेदस्य अनुसारम् अस्य आमेतसस्य प्रयोजनानि[सम्पादयतु]

अस्य आमेतसस्य फलं पत्रं चापि आम्लं भवतः । यद्यपि आम्लं तथापि अस्य फलं पित्तनिवारकत्वेन कार्यं करोति ।

  • अस्य आमेतसस्य फलरसस्य (वृक्षाम्ल - फलरसः) पानेन दाहः निवारितः भवति । शिरोभ्रमणम् अपि अपगच्छति ।
  • अस्य फलस्य त्वक् शुष्कीकृत्य रक्षन्ति । तया त्वचा सारं निर्मान्ति ।
  • अस्य कन्दः कण्डूतिं निवारयति ।
  • आमशङ्कायां यवागुना सह अस्य आमेतसस्य तैलं सेवनीयम् ।
  • पित्तविकारेण, पित्तजन्यैः रोगैः वा पीड्यमानाः अस्य पर्णं चर्वित्वा रसं गिलन्ति चेत् वरम् ।
  • दग्धव्रणानाम् उपरि अस्य आमेतसस्य तैलस्य लेपनेन वेदना ज्वलनं च न्यूनं भवतः ।
  • शरीरे कुत्रापि रक्तं दृढं जातं चेत् अस्य आमेतसफलस्य रसस्य सेवनं हितकरम् ।
  • अयं मलभेदकः , जिर्णकारी, अग्निवर्धकः च ।
  • हृद्रोगे, उदावर्ते, कासे, श्वासावरोधे, अजीर्णे च अस्य आमेतसस्य उपयोगः क्रियते ।
"http://sa.wikipedia.org/w/index.php?title=आमेतसवृक्षः&oldid=232872" इत्यस्माद् पुनः प्राप्तिः