इगुवास्सुजलपातः
| इगुवास्सुजलपातः | |
|---|---|
| Location | |
| Coordinates | 25°41′43″S 54°26′12″W / 25.69528°S 54.43667°WCoordinates: 25°41′43″S 54°26′12″W / 25.69528°S 54.43667°W |
| Type | Cataract |
| Number of drops | २७५ |
| Longest drop | ८२ metres ( ft) |
| Total width | २.७ kilometres (. mi) |
| Watercourse | इगुवास्सुनदी |
| Average flow rate | १,७५६ m3/s ( cu ft/s) |
इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीं उपरितन्-इगुवास्सु एवं अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति। एकोनविंशतितमे शतके जलपातस्य अस्तित्वं प्रतिपादितस्य अस्य नाम इगुवास्सुजलपातेषु अन्यतमस्य कृते अङ्कितम्। इगुवास्सु जलपातसमूहे आहत्य द्विशतोत्तर पञ्चसप्तत्यधिकजलपाताः सन्ति। एते इगुवास्सुनदीं अनुसृत्य २.७ कि.मी. दूरं यावत् व्यस्ताः। जलपातेस्मिन् केचन ८२ मी औनात्यवन्तः (२६९पादोन्नतवन्तः)। बहूनां जलपातानाम् औन्नत्यं ६४ मीटरमितम् (२२०पादमितम्)। जलपातेषु २/३अंशमिताः अर्जन्टीनादेशे सन्ति अन्ये ब्रासीलदेशे। इगुवास्सुजलपातप्रदेशः अर्जेण्टिना-ब्रेजिलदेशयोः राष्ट्रिय-उद्यानयोः व्याप्तौ सन्ति। राष्ट्रिय-उद्यानम् एतत् युनेस्कोद्वारा क्रमशः १९८४ तमे वर्षे तथा १९८६ तमे वर्षे विश्वपरम्परास्थानेषु उद्दघोषितम्।
इगुवास्सुजलपातस्य वीक्षणसौलभ्यार्थम् उभयदेशौ अपि अनेकान् पादमार्गान् युक्तस्थले निर्मितवन्तः स्तः। अस्मिन् जलपाते जलक्रीडा – अश्मारोहणादिसाहसक्रीडानाम् आनुकूल्यम् अस्ति । इगुवास्सुजलपातः नयागराजलपातस्य सादृश्यं भजते । तथैव विक्टोरियाजलपातेन साकं अस्य तुलना अपि क्रियते । इगुवास्सुजलपातः जगति विस्तृतः जलपातः इति ख्यातः । किन्तु एषः २७०विभिन्नधाराभिः युक्तः अस्ति । अतः २६०० मी. विस्तृतः विक्टोरिया-एकधारावान् जलपातः एव श्रेष्ठतरः इति वादोऽपि अस्ति । इगुवास्सुजलपाते विश्वे एव अधिकवार्षिकजलप्रवाहः भवति । अस्य जलपातस्य सामान्यप्रवाहपरिमाणं तावत् प्रतिक्षणं २३०० तः २५५० घ.मी भवति । स्वस्य विशिष्ट- U -आकारात् इगुवास्सु जलपातः दर्शकाणां अतिविशालम् एवम् अत्भुतं दृश्यं कल्पयति ।